विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १३९ – असत्ख्यातिः
मुखपृष्ठम् · ⬆ चतुर्थस्तरङ्गः · ← · →
आवर्तः १३९ – असत्ख्यातिः¶
तत्रासत्ख्यातिमङ्गीकुर्वतां शून्यवादिनामेवमाशयः रज्जौ तावत्सर्पोऽत्यन्तमसन्। तथैवान्यत्रापि (वल्मीकादावपि) सर्पोऽत्यन्तमसन्नेव। एवमत्यन्तासतः सर्पस्य प्रतीती रज्जौ भवति। इमामेवासत्ख्यातिमाहुः शून्यवादिनः। अत्यन्तासतः सर्पस्य ख्यातिः स्फुरणमभिवदनं चासत्ख्यातिरिति।