सामग्रीं त्यजन्तु

वेदान्तसङ्ग्रहः — १३. समाधिनिरूपणम्

अथ समाधिः निरूप्यते। दर्शितं साङ्ख्यं, तदिव योगोऽपि आत्मप्राप्ति-उपाय एव। "तत्कारणं साङ्ख्ययोगाधिगम्यम्" इति श्रुतेः। "एकं साङ्ख्यञ्च योगञ्च यः पश्यति स पश्यति" इति गीतायाश्च । साङ्ख्ययोगयोः स्वरूपभेदेऽपि फले ऐक्यमेव इति कृत्वा, "साङ्ख्य-योगौ पृथग्बालाः प्रवदन्ति न पण्डिताः" इत्युक्तं गीतायाम् ॥१॥

योगः चित्तवृत्तिनिरोधः । अस्य च यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः अष्टाङ्गानि । तत्र यमादीनि समाधिसाधनानि । समाधिः द्विविधा, सविकल्प-निर्विकल्प-भेदात् । "अहं ब्रह्मास्मि" इत्येवंरूपा अविच्छिन्न-प्रत्यय-सन्ततिः सविकल्पसमाधिः । स च निर्विकल्पसमाधि-सिद्धि-हेतुः, निवातस्थितदीपवत् । मनसः तूष्णीं स्थितिः निर्विकल्पसमाधिः। निद्रायामिव समाधौ अत्र मनसो न लयः । नापि जाग्रत्-स्वप्नयोरिव विक्षेपः। किन्तु परम एवं उपरते मनसि सच्चिदानन्दः आत्मा स्वतः स्फुरति, मेघापाये सूर्यवत्। एवं मनसः निर्व्यापारता-दशायामेव आत्म-स्फूर्ति-अभ्युपगमात् ॥२॥

आत्मदर्शने न मनः करणम् । अत एव "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" इति श्रुतिः सङ्गच्छते। न च "मनसैव अनुद्रष्टव्यम्" इति श्रुतिविरोधः, संस्कृत-मनसा इति तदर्थात् मनसः संस्कृतत्वं च उपरतत्वमेव । तृतीया तु हेतौ, न तु करणे इति अदोषात् । यद्वा विचारक्षमेण मनसैव आत्मस्वरूपम् एवंविधम् इति ज्ञातव्यम् इति तच्छ्रुतेः अर्थः। अन्यथा "यत्साक्षात् अपरोक्षात् ब्रह्म" इति श्रुतिविरोधः । साक्षात् करणान्तरनैरपेक्ष्येण ब्रह्म अपरोक्षात् अपरोक्षम् । पञ्चमी छान्दसीति श्रुत्यर्थः । स्वप्रकाशत्वश्रुतिव्याघाताच्च । किञ्च यदि आत्मा मनसा वेद्यते, तर्हि आत्मापि घटादिवत् वेद्यत्वेन जडः एव स्यात् । ततोऽनित्यत्वादि-दोष-प्रसक्तिः। तस्मात् उपरते मनसि स्वत एव आत्मा स्फुरति इति अनवद्यम् । अत्र च अर्थे भागवतगतं हंसगुह्यस्तवराजे पद्यम् इदं प्रमाणम्।

यदोपरमो मनसो हि नामरूपस्य दृष्ट-स्मृत-सम्प्रमोषात्। य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः ॥इति।

अयं समाधिः यदि क्षणमपि पुंसा लब्धः तर्हि तस्य आत्मविषयविपर्यय-असम्भावनादि-नाशो भवतीति कृतकृत्यः एव सः॥३॥

परन्तु केवल-योगिनः समाधौ स्वस्वरूपम् अनुभवन्तोऽपि न तं ब्रह्माभिन्नम् आत्मानं विदुः। अतः तदर्थं तेषां गुरूपसदनपूर्वकं महावाक्यार्थज्ञानम् आवश्यकमेव । उपदेशमात्रादेव तेषां ब्रह्मात्मसाक्षात्कारः जायते, योगाग्निना प्रतिबन्ध-तूलानां दग्धत्वात् चित्तस्य च अविक्षिप्तत्वात् ॥४॥

अत एव अनन्तजन्म-सञ्चित-पुण्य-परिपाक-लब्धत्वम् एतत्समाधेः प्राहुः प्राज्ञाः। योगिनाम् अयं समाधिः कृच्छ्र-लभ्यः । "चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्-दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्" इति गीतावचनात् । ज्ञानिनां तु सुलभ एव। नाहं मनः न इदं मनः मम इति मनोगत-अहं-मम-अध्यासयोः त्यागे सति मन-उपरति-सिद्धेः ॥५॥

॥इति समाधिनिरूपणम् ॥