श्रीमद्भगवद्गीता — अध्यायः 4¶
कर्म – चलनात्मकं कर्म । एवं प्रतिपन्ने सर्वेषामपि कर्म! तर्हि पृथिवी अपि कर्म करोति! किन्तु शास्त्रे कर्म नाम कर्तृतन्त्रकेन्द्रितम् / कर्तृनिष्ठम् (centered on your will)। गर्दभस्य पादप्रहारः स्वयंकृतः भवति, तस्मात् अकर्म (कर्तृत्वाभावात्), तथैव सुषुप्तौ पादप्रहारः न कर्म। अभियुक्तस्यापि कर्तृत्वं न्यायधीशः पश्यति । अविचार्य कृतं चेत् दण्डं न्यूनम् । ज्ञानम् = वस्तुतन्त्रम् । कर्म = पुरुषतन्त्रम् ।
अकर्म द्विधा - नित्याकर्म (आत्मनि) , अनित्याकर्म (मौनम्, तूष्णींभावः) क्रियाकारकादिव्यवहाराः --> अनित्याकर्मप्रसङ्गः ।
पू० प० -- विपरीतमेतत् । 1. मिथ्याज्ञानं पूर्वमेव वर्तते, तस्य निवारणमेव - अतः विपरीतं भासते । 2. विपरीतज्ञानम् नास्ति -- पूर्वम् उक्तं मोक्ष्यते शुभात् अभावे कर्म भवितुं नार्हति (अतः न अधिकरण सप्तमी) अतः विषयसप्तमी
पू० प० – कर्म सर्वेषामेव । कर्मणि अकर्म दर्शनम् – रेलयानद्वयम् समं गच्छति । नक्षत्राणि चराणि, कर्मणः अदर्शनम् । अकर्मणि कर्म दर्शनम् – नावि यात्रिकः ।
सामान्य लोकः * अकर्मणि (आत्मनि) कर्मदर्शनम् * कर्मणि (त्यागरूपक्रियादिषु) अकर्मदर्शनम् ज्ञानी -- विपरीतम्! यत्र जनः कर्म पश्यति, तत्र अकर्म (आत्मा), यत्र अकर्म पश्यति तत्र कर्म (कर्ता)
- अकर्मणि कर्मदर्शनं अतिनिरूढम्!!
अन्यथा व्याख्यानम् – नियतकर्माणि विहितानि, तेषां करणे न किमपि फलम् । अकरणे तु प्रत्यवायः । तस्मात् कर्मणि अकर्म पश्येत् (नियतकर्मणि अकर्म), अकर्मणि (प्रत्यवायरूपफलम्!)
मिथ्याज्ञानम् - वस्तुनः अन्यथा ज्ञानम् । गुणवृत्याज्ञानम् - भिन्नप्रकारचिन्तनम् ।
कथं कर्मणः ज्ञानेन मोक्षः? न सम्भवति ।