श्रीमद्भगवद्गीता — चतुर्थोऽध्यायः — ईश्वरावतारः (१-१५)
ईश्वरावतारः (१-१५)¶
यः अयं योगः अध्यायद्वयेन उक्तो ज्ञाननिष्ठालक्षणः ससंन्यासः कर्मयोगोपायः, यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्तिलक्षणो निवृत्तिलक्षणः च, गीतासु च सर्वासु अयम् एव योगो विवक्षितो भगवता अतः परिसमाप्तं वेदार्थं मन्वानः तं वंशकथनेन स्तौति श्रीभगवान्–
स्मरणिका
इमं विवस्वते योगं इति श्लोकः, अत्र योगः एकवचने वर्तते । अतः अस्य तात्पर्यं
यदेकः एव योगः स च ज्ञानयोगः कर्मयोगसाध्यः ।
श्रीभगवानुवाच
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्॥४।१॥
शाङ्करभाष्यम्
इमम् अध्यायद्वयेनोक्तं योगं विवस्वते आदित्याय सर्गादौ प्रोक्तवान्
अहं जगत्परिपालयितॄणां क्षत्रियाणां बलाधानाय तेन योगबलेन युक्ताः समर्था भवन्ति
ब्रह्म परिरक्षितुम्। ब्रह्मक्षत्रे परिपालिते जगत् परिपालयितुमलम्।
अव्ययम् अव्ययफलत्वात्। न ह्यस्य योगस्य सम्यग्दर्शननिष्ठालक्षणस्य मोक्षाख्यं फलं व्येति। स च विवस्वान् मनवे प्राह। मनुः इक्ष्वाकवे स्वपुत्राय आदिराजाय अब्रवीत् ॥४।१॥
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः।
स कालेनेह महता योगो नष्टः परन्तप॥४।२॥
शाङ्करभाष्यम्
एवं क्षत्रियपरम्पराप्राप्तम् इमं राजर्षयो राजानश्च ते ऋषयश्च राजर्षयो
विदुः इमं योगम्।
स योगः कालेन इह महता दीर्घेण नष्टो विच्छिन्नसंप्रदायः संवृत्तः। हे परंतप आत्मनो विपक्षभूताः परा इति उच्यन्ते तान् शौर्यतेजोगभस्तिभिः भानुरिव तापयतीति परंतपः शत्रुतापन इत्यर्थः ॥४।२॥
दुर्बलानजितेन्द्रियान् प्राप्य नष्टं योगमिममुपलभ्य लोकं च अपुरुषार्थसंबन्धिनम्–
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्॥४।३॥
शाङ्करभाष्यम्
स एव अयं मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः पुरातनः। भक्तः
असि मे सखा च असि इति। रहस्यं हि यस्माद् एतत् उत्तमं योगो ज्ञानम्
इत्यर्थः ॥४।३॥
भगवता विप्रतिषिद्धमुक्तमिति मा भूत् कस्यचित् बुद्धिः इति परिहारार्थं चोद्यमिव कुर्वन् अर्जुन उवाच–
अर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वतः।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति॥४।४॥
शाङ्करभाष्यम्
अपरम् अर्वाक् वसुदेवगृहे भवतो जन्म, परं पूर्वं सर्गादौ जन्म
उत्पत्तिः विवस्वतः आदित्यस्य। तत् कथम् एतत् विजानीयाम् अविरुद्धार्थतया यः
त्वमेव आदौ प्रोक्तवान् इमं योगं स एव इदानीं मह्यं प्रोक्तवानसि इति ॥४।४॥
या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणाम् तां परिहरन् श्रीभगवानुवाच यदर्थो ह्यर्जुनस्य प्रश्नः–
श्रीभगवानुवाच
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप॥४।५॥
शाङ्करभाष्यम्
बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव च हे अर्जुन। तानि
अहं वेद जाने सर्वाणि न त्वं वेत्थ न जानीषे
धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वात्। अहं पुनः नित्यशुद्धबुद्धमुक्तस्वभावत्वात्
अनावरणज्ञानशक्तिरिति वेद अहं हे परंतप ॥४।५॥
कथं तर्हि तव नित्येश्वरस्य धर्माधर्माभावेऽपि जन्म इति उच्यते–
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्।
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया॥४।६॥
शाङ्करभाष्यम्
अजोऽपि जन्मरहितोऽपि सन् तथा अव्ययात्मा अक्षीणज्ञानशक्तिस्वभावोऽपि
सन् तथा भूतानां ब्रह्मादिस्तम्बपर्यन्तानाम् ईश्वरः ईशनशीलोऽपि सन्,
प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकाम् यस्या वशे सर्वं जगत्
वर्तते यया मोहितं सत् स्वमात्मानं वासुदेवं न जानाति तां प्रकृतिं स्वाम्
अधिष्ठाय वशीकृत्य संभवामि देहवानिव भवामि जात इव आत्ममायया आत्मनः
मायया न परमार्थतो लोकवत् ॥४।६॥
तच्च जन्म कदा किमर्थं च इत्युच्यते–
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥४।७॥
शाङ्करभाष्यम्
यदा यदा हि धर्मस्य ग्लानिः हानिः वर्णाश्रमादिलक्षणस्य
प्राणिनामभ्युदयनिःश्रेयससाधनस्य भवति भारत, अभ्युत्थानम् उद्भवः
अधर्मस्य तदा तदा आत्मानं सृजामि अहं मायया ॥४।७॥
किमर्थम्–
परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥४।८॥
शाङ्करभाष्यम्
परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानाम् विनाशाय च दुष्कृतां
पापकारिणाम् । किञ्च धर्मसंस्थापनार्थाय धर्मस्य सम्यक् स्थापनं तदर्थं
संभवामि युगे युगे प्रतियुगम् ॥४।८॥
तत्–
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन॥४।९॥
शाङ्करभाष्यम्
जन्म मायारूपं, कर्म च साधूनां परित्राणादि मे मम दिव्यम्
अप्राकृतम् ऐश्वरम् एवं यथोक्तं यो वेत्ति तत्त्वतः तत्त्वेन यथावत् ।
त्यक्त्वा देहम् इमं पुनर्जन्म पुनरुत्पत्तिं न एति न प्राप्नोति। माम् एति आगच्छति स मुच्यते हे अर्जुन ॥४।९॥
नैष मोक्षमार्ग इदानीं प्रवृत्तः किं तर्हि पूर्वमपि–
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः।
बहवो ज्ञानतपसा पूता मद्भावमागताः॥४।१०॥
शाङ्करभाष्यम्
वीतरागभयक्रोधाः रागश्च भयं च क्रोधश्च वीताः विगताः येभ्यः ते वीतरागभयक्रोधाः
मन्मयाः ब्रह्मविदः ईश्वराभेददर्शिनः माम् एव च परमेश्वरम् उपाश्रिताः
केवलज्ञाननिष्ठा इत्यर्थः। बहवः अनेके ज्ञानतपसा ज्ञानमेव च परमात्मविषयं
तपः तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तः मद्भावम् ईश्वरभावं
मोक्षम् आगताः समनुप्राप्ताः।
इतरतपोनिरपेक्षज्ञाननिष्ठा इत्यस्य लिङ्गम् ज्ञानतपसा इति विशेषणम् ॥४।१०॥
तव तर्हि रागद्वेषौ स्तः येन केभ्यश्चिदेव आत्मभावं प्रयच्छसि न सर्वेभ्यः इत्युच्यते–
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥४।११॥
शाङ्करभाष्यम्
ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां प्रपद्यन्ते, तान्
तथैव तत्फलदानेन भजामि अनुगृह्णामि अहम् इत्येतत्। तेषां मोक्षं प्रति
अनर्थित्वात्।
न हि एकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत् संभवति।
अतो ये फलार्थिनः तान् फलप्रदानेन ये यथोक्तकारिणस्तु अफलार्थिनः मुमुक्षवश्च तान् ज्ञानप्रदानेन ये ज्ञानिनः संन्यासिनः मुमुक्षवश्च तान् मोक्षप्रदानेन तथा आर्तान् आर्तिहरणेन इत्येवं यथा प्रपद्यन्ते ये तान् तथैव भजामि इत्यर्थः।
न पुनः रागद्वेषनिमित्तं मोहनिमित्तं वा कञ्चित् भजामि।
सर्वथापि सर्वावस्थस्य मम ईश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः यत्फलार्थितया यस्मिन् कर्मणि अधिकृताः ये प्रयतन्ते ते मनुष्या अत्र उच्यन्ते हे पार्थ सर्वशः सर्वप्रकारैः ॥४।११॥
यदि तव ईश्वरस्य रागादिदोषाभावात् सर्वप्राणिषु अनुजिघृक्षायां तुल्यायां सर्वफलप्रदानसमर्थे च त्वयि सति वासुदेवः सर्वम् इति ज्ञानेनैव मुमुक्षवः सन्तः कस्मात् त्वामेव सर्वे न प्रतिपद्यन्ते इति शृणु तत्र कारणम्–
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा॥४।१२॥
शाङ्करभाष्यम्
काङ्क्षन्तः अभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रार्थयन्तः
यजन्ते इह अस्मिन् लोके देवता इन्द्राग्न्याद्याः– अथ योऽन्यां
देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् (बृ० उ०
१.४.१०) इति श्रुतेः।
तेषां हि भिन्नदेवतायाजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मात् मानुषे लोके मनुष्यलोके हि शास्त्राधिकारः। क्षिप्रं हि मानुषे लोके इति विशेषणात् अन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान्। मानुषे लोके वर्णाश्रमादिकर्माणि इति विशेषः तेषां च वर्णाश्रमाद्यधिकारिकर्मणां फलसिद्धिः क्षिप्रं भवति। कर्मजा कर्मणो जाता ॥४।१२॥
मानुषे एव लोके वर्णाश्रमादिकर्माधिकारः न अन्येषु लोकेषु इति नियमः किंनिमित्त इति अथवा वर्णाश्रमादिप्रविभागोपेताः मनुष्याः मम वर्त्म अनुवर्तन्ते सर्वशः इत्युक्तम्। कस्मात्पुनः कारणात् नियमेन तवैव वर्त्म अनुवर्तन्ते न अन्यस्य इति उच्यते–
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्॥४।१३॥
शाङ्करभाष्यम्
चत्वार एव वर्णाः चातुर्वर्ण्यं मया ईश्वरेण सृष्टम् उत्पादितम्
ब्राह्मणोऽस्य मुखमासीत् इत्यादिश्रुतेः। गुणकर्मविभागशः गुणविभागशः
कर्मविभागशश्च। गुणाः सत्त्वरजस्तमांसि। तत्र सात्त्विकस्य सत्त्वप्रधानस्य
ब्राह्मणस्य शमो दमस्तपः इत्यादीनि कर्माणि सत्त्वोपसर्जनरजःप्रधानस्य क्षत्रियस्य
शौर्यतेजःप्रभृतीनि कर्माणि । तम उपसर्जनरजःप्रधानस्य वैश्यस्य कृष्यादीनि
कर्माणि । रज उपसर्जनतमःप्रधानस्य शूद्रस्य शुश्रूषैव कर्म । इत्येवं
गुणकर्मविभागशः चातुर्वर्ण्यं मया सृष्टम् इत्यर्थः। तच्च इदं चातुर्वर्ण्यं न
अन्येषु लोकेषु अतः मानुषे लोके इति विशेषणम्। हन्त तर्हि चातुर्वर्ण्यस्य सर्गादेः
कर्मणः कर्तृत्वात् तत्फलेन युज्यसे अतः न त्वं नित्यमुक्तः नित्येश्वरश्च इति
उच्यते यद्यपि मायासंव्यवहारेण तस्य कर्मणः कर्तारमपि सन्तं मां
परमार्थतः विद्धि अकर्तारम्। अत एव अव्ययम् असंसारिणं च मां विद्धि ॥४।१३॥
येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतः तेषाम् अकर्ता एवाहम् यतः–
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥४।१४॥
शाङ्करभाष्यम्
न मां तानि कर्माणि लिम्पन्ति देहाद्यारम्भकत्वेन अहंकाराभावात्। न च
तेषां कर्मणां फलेषु मे मम स्पृहा तृष्णा। येषां तु संसारिणाम् अहं कर्ता
इत्यभिमानः कर्मसु स्पृहा तत्फलेषु च तान् कर्माणि लिम्पन्ति इति युक्तम् तदभावात्
न मां कर्माणि लिम्पन्ति।
इति एवं यः अन्योऽपि माम् आत्मत्वेन अभिजानाति नाहं कर्ता न मे कर्मफले स्पृहा इति सः कर्मभिः न बध्यते तस्यापि न देहाद्यारम्भकाणि कर्माणि भवन्ति इत्यर्थः ॥४।१४॥
नाहं कर्ता न मे कर्मफले स्पृहा इति–
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्॥४।१५॥
शाङ्करभाष्यम्
एवं ज्ञात्वा कृतं कर्म पूर्वैः अपि अतिक्रान्तैः मुमुक्षुभिः। कुरु
तेन कर्मैव त्वम् न तूष्णीमासनं नापि संन्यासः कर्तव्यः।
तस्मात् त्वं पूर्वैरपि अनुष्ठितत्वात् यदि अनात्मज्ञः त्वं तदा आत्मशुद्ध्यर्थम् तत्त्वविच्चेत् लोकसंग्रहार्थं पूर्वैः जनकादिभिः पूर्वतरं कृतं न अधुनातनं कृतं निर्वर्तितम् ॥४।१५॥
श्लोकसूची¶
- श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्
- एवं परम्पराप्राप्तमिमं राजर्षयो विदुः
- स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः
- अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः
- श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन
- अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्
- यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
- परित्राणाय साधूनां विनाशाय च दुष्कृताम्
- जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः
- वीतरागभयक्रोधा मन्मया मामुपाश्रिताः
- ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्
- काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः
- चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः
- न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा
- एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः