सामग्रीं त्यजन्तु

वेदान्तसङ्ग्रहः — २. देहिवर्णनम्

दृश्यं जगत् द्विविधं, समष्टि-व्यष्टि-भेदात्। पुनः प्रत्येकं त्रिविधम् - स्थूल-सूक्ष्म-कारण-भेदात् । तत्र स्थूल-समष्टि-दृश्यं विराट् । सूक्ष्म-समष्टि-दृश्यं लिङ्गम् । कारण-समष्टि-दृश्यम् अज्ञानम्। तथा स्थूल-व्यष्टि-दृश्यं मनुष्यादिशरीरम् । सूक्ष्म-व्यष्टि-दृश्यं लिङ्गम् । कारण-व्यष्टि-दृश्यम् अज्ञानम् ॥१॥

दृक्-पदार्थौ जीवेश्वरौ च प्रत्येकं त्रिविधौ, विश्व-तैजस-प्राज्ञ-भेदात्, वैश्वानर-हिरण्यगर्भ-मायावि-भेदाच्च। स्थूल-व्यष्टि-दृश्य-मनुष्यादि-शरीराभिमानी विश्वो जीवः । सूक्ष्म-व्यष्टि-दृश्य-लिङ्गाभिमानी तैजसो जीवः । कारण-व्यष्टि-दृश्य-अज्ञानाभिमानी प्राज्ञो जीवः । स्थूल-समष्टि-दृश्य-विराडभिमानी वैश्वानरः ईश्वरः । सूक्ष्म-समष्टि-दृश्य-लिङ्गाभिमानी हिरण्यगर्भः ईश्वरः । कारण-समष्टि-दृश्य-अज्ञानाभिमानी मायावी ईश्वरः। तत्र स्थूल-सूक्ष्म-कारणशरीरे व्याख्याते ॥२॥

लिङ्गं नाम दशेन्द्रिय-सूक्ष्मभूतपञ्चक-मन-आख्य-षोडशोपाधि-कदम्बम् । अपञ्चीकृत-भूतानां सूक्ष्मभूतत्व-व्यवहारः ॥३॥

इदमेव स्थूल-सूक्ष्म-कारण-नामकं शरीरत्रयं कोशपञ्चकं प्राहुः। तथा हि अन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमय-नामानः पञ्च कोशाः। खड्गस्य कोशवत् आत्मस्वरूपस्य एते आवरकाः इति, कोशत्व-व्यवहारः एषां जातः। तत्र अन्नमयकोशः स्थूलशरीरं मनुष्यादि। प्राणमय-मनोमय-विज्ञानमय-कोशत्रयं सूक्ष्मशरीरम् आनन्दमयः कारणशरीरम् इति विवेकः ॥४॥

अहंवृत्तिमदन्तःकरणं विज्ञानम् । इदंवृत्तिमदन्तःकरणं मनः इति शास्त्रवित्समयः। प्राणादिपञ्च वायवः प्राणमयकोशः एक एव । प्राणः प्राणादि-वृत्तिभेदात् पञ्चधा व्यवह्रियते इति रहस्यम् । प्राणो वायुस्वरूप एव ॥५॥

अस्य च जीवस्य जाग्रत्-स्वप्न-सुषुप्ति-नामकम् अवस्थात्रयम् अस्ति । इन्द्रियैः बाह्यार्थोपलब्धिः जाग्रत्, तत्र विश्वो भवति जीवः । अन्तरेव आविद्यक-प्रपञ्चोपलब्धिः स्वप्नः, तत्र तैजसो भवति । अविद्यावृत्तिभिः अज्ञान-सुखोपलब्धिः सुषुप्तिः तत्र प्राज्ञो भवति । इदम् अवस्थात्रयं शरीरत्रयं जीवत्रयं च कूटस्थे माया-कल्पितम् इति कूटस्थो व्यष्टि-प्रपञ्चाधिष्ठानम् इत्युक्तम् ॥६॥ ॥इति देही वर्णितः॥