मुखपृष्ठम् · ⬆ वेदान्तसारः · ← · →
वेदान्तसारः — प्राज्ञेश्वरनिरूपणम्¶
प्राज्ञेश्वरनिरूपणम् तदानीमेतावीश्वरप्राज्ञौ चैतन्यप्रदीप्ताभिरतिसूक्ष्माभिरज्ञानवृत्तिभिरानन्दमनुभवत "आनन्दभुक् चेतोमुखः प्राज्ञ" इति श्रुतेः । सुखमहमस्वाप्सं न किञ्चिद् अवेदिषमित्युत्थितस्य परामर्शोपपत्तेश्च। अनयोः समष्टिव्यष्ट्योः वनवृक्षयोरिव जलाशयजलयोरिव वाभेदः। एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छिन्नाकाशयोरिव जलाशयजलगतप्रतिबिम्बाकाशयोरिव वाभेद "एष सर्वेश्वर" इत्यादिश्रुतेः॥८॥