मुखपृष्ठम् · ⬆ तर्कसङ्ग्रहः · ← · →
तर्कसङ्ग्रहः — गुणनिरूपणम्¶
चक्षुर्मात्रग्राह्यो गुणो रूपम्।
दीपिका
रूपं लक्षयति– चक्षुरिति। संख्यादावतिव्याप्तिवारणाय मात्रपदम्। रूपत्वेऽतिव्याप्तिवारणाय गुणपदम्। प्रभाभित्तिसंयोगेऽतिव्याप्तिवारणाय चक्षुर्मात्रग्राह्यजातिमत्त्वं वाच्यम्।
न्यायबोधिनी
रूपं लक्षयति– चक्षुरिति। चक्षुर्मात्रग्राह्यत्वविशिष्टगुणत्वं रूपस्य लक्षणम्। विशेष्यमात्रोपादाने रसादावतिव्याप्तिः। अतश्चक्षुर्मात्रग्राह्यत्वं विशेषणम्। तावन्मात्रोपादाने रूपत्वेऽतिव्याप्तिः। यो गुणो यदिन्द्रियग्राह्यस्तन्निष्ठा जातिस्तदिन्द्रियग्राह्येति नियमात्, तद्वारणाय विशेष्योपादानम्। चक्षुर्मात्रग्राह्यत्वं नाम– चक्षुर्भिन्नेन्द्रियाऽग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम्। मात्रपदानुपादाने संख्यादिसामान्यगुणेऽतिव्याप्तिः, चक्षुर्ग्राह्यत्वविशिष्टगुणत्वस्य तत्रापि सत्त्वात्, अतस्तद्वारणाय मात्रपदम्। संख्यादेश्चक्षुर्भिन्नत्वगिन्द्रियग्राह्यत्वाच्चक्षुर्मात्रग्राह्यत्वं नास्ति। अतीन्द्रियगुरुत्वादावतिव्याप्तिवारणाय चक्षुर्ग्राह्येति। अत्र लक्षणे ग्राह्यत्वं नाम– प्रत्यक्षविषयत्वम्। अग्राह्यत्वं नाम तदविषयत्वम्। तथा च चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाऽविषयत्वे सति चक्षुर्जन्यप्रत्यक्षविषयत्वमिति फलितोऽर्थः।
ननु प्रभा-घट-संयोगे रूपलक्षणस्याऽतिव्याप्तिस्तस्य चक्षुर्मात्रग्राह्यगुणत्वादिति चेन्न, गुणपदस्य विशेषगुणपरत्वात्। न चैवं विशेषगुणत्वघटितलक्षणे संख्यादावतिव्याप्त्यभावान्मात्रपदवैयर्थ्यमिति वाच्यम्, जलमात्रवृत्तिसांसिद्धिकद्रवत्वादावतिव्याप्तिवारणाय तदुपादानात्। अथवा चक्षुर्मात्रग्राह्यजातिमद्गुणत्वस्य लक्षणत्वान्न प्रभाघटसंयोगादावतिव्याप्तिः। संयोगत्वजातेश्चक्षुर्मात्रग्राह्यत्वाभावात्। घटपटसंयोगस्य त्वगिन्द्रियग्राह्यत्वात्तद्गतजातेरपि त्वगिन्द्रियग्राह्यत्वात्। यो गुणो यदिन्द्रियग्राह्यस्तन्निष्ठजातेरपि तदिन्द्रियग्राह्यत्वात्। अत्र जातिघटितलक्षणे गुणत्वानुपादाने चक्षुर्मात्रग्राह्यजातिमति सुवर्णादावतिव्याप्तिरतस्तद्वारणाय तदुपादानम्। एवं रसादिलक्षणे विशेषणानुपादाने लक्ष्यभिन्नगुणादावतिव्याप्तिः। विशेष्यानुपादाने लक्ष्यमात्रवृत्तिरसत्वगन्धत्वादावतिव्याप्तिः। अतो विशेषणविशेष्ययोरुभयोरुपादानम्।
पदकृत्यम्
चक्षुरिति। रूपत्वादिवारणाय गुणपदम्। रसादिवारणाय चक्षुर्ग्राह्य इति। संख्यादिवारणाय मात्रपदम्। यद्यपि प्रभाभित्तिसंयोगवारणाय गुणपदेन विशेषगुणस्य विवक्षणीयतया तत एव संख्यादिवारणं संभवतीति मात्रपदं व्यर्थं, तथापि सांसिद्धिकद्रवत्ववारणाय तदावश्यकम्। वस्तुतस्तु परमाणुरूपेऽव्याप्तिवारणाय चक्षुर्मात्रग्राह्यजातिमत्त्वस्य विवक्षणीयतया विशेषपदं न देयम्। त्र्यणुकादिवारणाय गुणपदं तु देयम्।
तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात् सप्तविधम्। पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम्। अभास्वरशुक्लं जले। भास्वरशुक्लं तेजसि।
दीपिका
रूपं विभजते तच्चेति। नन्वव्याप्यवृत्तिनीलादिसमुदाय एव चित्ररूपमिति चेत् न; रूपस्य व्याप्यवृत्तित्वनियमात्। ननु चित्रपटेऽवयवरूपस्य प्रतीतिरस्त्विति चेत् न; रूपरहितत्वेन पटस्याप्रत्यक्षत्वप्रसङ्गात्। न च रूपवत्समवेतत्वं प्रत्यक्षत्वप्रयोजकं, गौरवात्। तस्मात् पटस्य प्रत्यक्षत्वानुपपत्त्या चित्ररूपसिद्धिः। रूपस्याश्रयमाह– पृथिवीति। आश्रयं विभज्य दर्शयति– तत्रेति।
पदकृत्यम्
सप्तेति। रूपमित्यनुषज्यते।
रसनाग्राह्यो गुणो रसः ।
दीपिका
रसं लक्षयति– रसनेति। रसत्वेऽतिव्याप्तिपरिहाराय गुणपदम्।
पदकृत्यम्
रसनेति। रसत्वादिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय रसनेति।
स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः। पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले मधुर एव ।
दीपिका
रसस्याश्रयमाह– पृथिवीति। आश्रयं विभज्य दर्शयति– पृथिव्यामिति।
पदकृत्यम्
तत्रेति। पृथिवीजलयोरित्यर्थः। षड्विध इति। अत्र रस इत्यनुवर्तते।
घ्राणग्राह्यो गुणो गन्धः ।
दीपिका
गन्धं लक्षयति– घ्राणेति। गन्धत्वेऽतिव्याप्तिवारणाय गुणपदम्।
पदकृत्यम्
घ्राणग्राह्य इति। गन्धत्वादावतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय घ्राणग्राह्य इति।
स द्विविधः सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः।
पदकृत्यम्
पृथिवीति। पृथिवीसंबन्धसत्त्वे गन्धप्रतीतिसत्त्वं, पृथिवीसंबन्धाभावे गन्धप्रतीत्यभावः, इत्यन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव जले प्रतीतिर्बोध्या। एवं वायावपि। ननु देशान्तरस्थकस्तूरीकुसुमसंबद्धपवनस्यैतद्देशे तत्संबन्धाभावाद् गन्धप्रतीत्यनुपपत्तिः। न च वाय्वानीतत्र्यणुकादिसंबन्धोऽस्त्येवेति वाच्यम्, कस्तूर्या न्यूनतापत्तेः, कुसुमस्य च सच्छिद्रत्वापत्तेरिति चेन्न, भोक्त्रदृष्टविशेषेण पूर्ववत्त्र्यणुकान्तराद्युत्पत्तेः। कर्पूरादौ तु तदभावान्न तथात्वमिति।
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः ।
दीपिका
स्पर्शं लक्षयति– त्वगिति। स्पर्शत्वेऽतिव्याप्तिवारणाय गुणपदम्। संयोगादावतिव्याप्तिवारणाय मात्रपदम्।
न्यायबोधिनी
स्पर्शं लक्षयति– त्वगिन्द्रियमात्रग्राह्य इति। अत्रापि मात्रपदं संख्यादिसामान्यगुणादावतिव्याप्तिवारणाय। अन्यविशेषणकृत्यं पूर्ववद्बोध्यम्। ग्राह्यत्वपदार्थोऽपि पूर्ववदेव प्रत्यक्षविषयत्वरूप एव बोध्यः।
पदकृत्यम्
त्वगिति। स्पर्शत्वादावतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय त्वगिन्द्रियेति। संख्यादिवारणाय मात्रपदम्।
स च त्रिविधः शीतोष्णानुष्णाशीतभेदात्। पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले, उष्णस्तेजसि, अनुष्णाशीतः पृथिवीवाय्वोः ।
पदकृत्यम्
तत्रेति। पृथिव्यादिचतुष्टये। शीत इति। शीतस्पर्शः। उष्ण इति। उष्णस्पर्शः।
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्रापाकजं नित्यमनित्यं च। नित्यगतं नित्यम्, अनित्यगतमनित्यम् ।
दीपिका
पाकजमिति। पाकस्तेजःसंयोगः। तेन पूर्वरूपं नश्यति, रूपान्तरमुत्पद्यत इत्यर्थः। अत्र परमाणुष्वेव पाकः न द्व्यणुकादौ। आमपाकनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुनर्द्व्यणुकादिक्रमेण रक्तघटोत्पत्तिः। तत्र परमाणवः समवायिकारणम्। तेजःसंयोगोऽसमवायिकारणम्। अदृष्टादिकं निमित्तकारणम्। द्व्यणुकादिरूपे कारणरूपमसमवायिकारणम्। इति पीलुपाकवादिनो वैशेषिकाः। पूर्वघटस्य नाशं विनैवावयविन्यवयवेषु परमाणुपर्यन्तेषु च युगपद्रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः। अत एव पार्थिवपरमाणुषु रूपादिकमनित्यमित्यर्थः। अन्यत्रेति। जलादावित्यर्थः। नित्यगतमिति। परमाणुगतमित्यर्थः। अनित्यगतमिति। द्व्यणुकादिनिष्ठमित्यर्थः। रूपादिचतुष्टयमुद्भूतं प्रत्यक्षमनुद्भूतमप्रत्यक्षम्। उद्भूतत्वं प्रत्यक्षप्रयोजको धर्मः। तदभावोऽनुद्भूतत्वम्।
न्यायबोधिनी
रूपादिचतुष्टयमिति। एतत्तत्त्वनिर्णयश्चेत्थम्– पाको नाम विजातीयतेजःसंयोगः। स च नानाजातीयरूपजनको विजातीयस्तेजःसंयोगः। तदपेक्षया रसजनको विजातीयः। एवं गन्धजनकोऽपि ततो विजातीय एव। एवं स्पर्शजनकोऽपि तथैव। एवं प्रकारेण भिन्नभिन्नजातीयाः पाकाः कार्यवैलक्षण्येन कल्पनीयाः। यथा तृणपुञ्जनिक्षिप्ते आम्रादौ ऊष्मलक्षणविजातीयतेजःसंयोगात्पूर्वहरितरूपनाशेन रूपान्तरस्य पीतादेरुत्पत्तिर्न तु रसादेरुत्पत्तिः, पूर्वरसस्याऽम्लस्यैवानुभवात्। क्वचित्पूर्वहरितरूपसत्त्वेऽपि रसपरावृत्तिर्दृश्यते, विजातीयतेजःसंयोगरूपपाकवशात्पूर्वतनाऽम्लरसनाशेन मधुररसस्यानुभवात्। तस्माद्रूपजनकापेक्षया रसजनको विलक्षण एवाङ्गीकार्यः। एवं गन्धजनको विलक्षण एव, रूपरसयोरपरावृत्तावपि पूर्वगन्धनाशेऽपि विजातीयपाकवशात्सुरभिगन्धोपलब्धेः। एवं स्पर्शजनकः। पाकवशात्कठिनस्पर्शनाशेन मृदुस्पर्शानुभवात्। तस्माद्रूपादिजनका विजातीया एव पाकाः। अत एव पार्थिवपरमाणूनामेकजातीयत्वेऽपि पाकमहिम्ना विजातीयद्रव्यान्तरानुभवः, यथा– गोभुक्ततृणादीनामापरमाण्वन्तभङ्गे तृणारम्भकपरमाणुषु विजातीयतेजःसंयोगात् पूर्वरूपादिचतुष्टयनाशे तदनन्तरं दुग्धे यादृशं रूपादिकं वर्तते तादृशरूपरसगन्धस्पर्शजनकास्तेजःसंयोगा जायन्ते। तदुत्तरं तादृशरूपरसादय उत्पद्यन्ते। तादृशरूपरसादिविशिष्टपरमाणुभिर्दुग्धद्व्यणुकमारभ्यते, ततस्त्र्यणुकादिक्रमेण महादुग्धारम्भः। एवं दुग्धारम्भकैः परमाणुभिरेव दध्यारभ्यते। एवं पाकमहिम्ना दध्यारम्भकैरेव परमाणुभिर्नवनीतादिकमिति दिक्।
एकत्वादिव्यवहारहेतुः सङ्ख्या। सा नवद्रव्यवृत्तिः । एकत्वादिपरार्धपर्यन्ता। एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम्, अनित्यगतमनित्यम्, द्वित्वादिकं तु सर्वत्रानित्यमेव ।
दीपिका
सङ्ख्यां लक्षयति– एकत्वेति।
पदकृत्यम्
एकत्वादीति। एकत्वादिप्रकारको यो व्यवहारः– एको द्वावित्याद्यात्मकस्तस्य हेतुः संख्या इत्यर्थः। घटादिवारणाय एकत्वादीति। कालादिवारणायाऽसाधारणेत्यपि देयम्। ननु संख्याया अवधिरस्ति न वेत्यत आह– एकत्वादीति। तथा च–
एकं दश शतं चैव सहस्रमयुतं तथा।
लक्षं च नियुतं चैव कोटिरर्बुदमेव च॥
वृन्दं खर्वो निखर्वश्च शंखः पद्मश्च सागरः।
अन्त्यं मध्यं परार्धं च दशवृद्ध्या यथाक्रमम्॥
इति महदुक्तेः परार्धपर्यन्तैव संख्या इति भावः।
मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यवृत्ति। तच्चतुर्विधम् – अणु महद् दीर्घं ह्रस्वं चेति।
दीपिका
परिमाणं लक्षयति– मानेति। परिमाणं विभजते– तदिति। भावप्रधानो निर्देशः। अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वं चेत्यर्थः।
पदकृत्यम्
मानेति। मानं=परिमितिस्तस्या यो व्यवहारः=इदं महदिदमणु इत्याद्यात्मकः, तस्य कारणं परिमाणमित्यर्थः। दण्डादिवारणाय मानेति। कालादिवारणायाऽसाधारणेति। शब्दत्ववारणाय कारणमिति। नवद्रव्येति। चतुर्विधमपि परममध्यमभेदेन द्विविधम्। तत्र परमाणुह्रस्वत्वे परमाणुमनसोः। मध्यमाणुह्रस्वत्वे द्व्यणुके। परममहत्त्वदीर्घत्वे गगनादौ। मध्यममहत्त्वदीर्घत्वे घटादौ। 'एतन्मौक्तिकादिदं मौक्तिकमणु' इतिव्यवहारस्यापकृष्टमहत्त्वाश्रयत्वाद् गौणत्वं बोध्यम्। एवमेव 'केतनाद् व्यजनं ह्रस्वम्' इत्यत्रापि निकृष्टदीर्घत्वाद् गौणत्वम्।
पृथग्व्यवहारासाधारणकारणं पृथक्त्वम्। सर्वद्रव्यवृत्ति ।
दीपिका
पृथक्त्वं लक्षयति– पृथगिति। इदमस्मात् पृथक् इति व्यवहारकारणमित्यर्थः।
पदकृत्यम्
पृथगिति। 'अयमस्मात्पृथक्' इति यो व्यवहारस्तस्य कारणं पृथक्त्वमित्यर्थः। दण्डादिवारणाय पृथगित्यादि। कालादिवारणाय असाधारणेति। पृथग्व्यवहारत्ववारणाय कारणमिति।
संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ।
दीपिका
संयोगं लक्षयति– संयुक्तेति। इमौ संयुक्तौ इति व्यवहारहेतुरित्यर्थः। संख्यादिलक्षणेषु सर्वत्र दिक्कालादावतिव्याप्तिवारणायासाधारणेति पदं देयम्। संयोगो द्विविधः कर्मजः संयोगजश्च। आद्यो हस्तक्रियया हस्तपुस्तकसंयोगः। द्वितीयो हस्तपुस्तकसंयोगात् कायपुस्तकसंयोगः। अव्याप्यवृत्तिः संयोगः। स्वात्यन्ताभावसमानाधिकरणत्वमव्याप्यवृत्तित्वम्।
पदकृत्यम्
संयुक्तेति। 'इमौ संयुक्तौ' इति यो व्यवहारस्तस्य हेतुः संयोग इत्यर्थः। दण्डादिवारणाय संयुक्तव्यवहारेति। कालादिवारणाय असाधारणेत्यपि देयम्। संयुक्तत्वेऽतिप्रसक्तिवारणाय हेतुरिति। उपदर्शितलक्षणचतुष्टयेऽसाधारणपदं देयम्। क्वचित्पुस्तके परिमाणपृथक्त्वलक्षणे ईश्वरेच्छादिवारणायासाधारणेति दृश्यते, तत्त्वाधुनिकैर्न्यस्तमिति बोध्यम्।
संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ।
दीपिका
विभागं लक्षयति– संयोगेति। कालादावतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय संयोगनाशक इति। विभागोऽपि द्विविधः– कर्मजो विभागजश्च। आद्यो हस्तक्रियया हस्तपुस्तकविभागः, द्वितीयो हस्तपुस्तकविभागात्कायपुस्तकविभागः।
न्यायबोधिनी
विभागं लक्षयति– संयोगेति। संयोगनाशकत्वविशिष्टगुणत्वं विभागस्य लक्षणम्। विशेषणमात्रोपादाने क्रियाया अपि संयोगनाशकत्वात्तत्रातिव्याप्तिस्तद्वारणाय गुणत्वमिति विशेष्योपादानम्।
पदकृत्यम्
संयोगेति। संयोगनाशजनक इत्यर्थः। कालेऽतिप्रसक्तिवारणाय गुणपदम्। ईश्वरेच्छादिवारणाय असाधारणेत्यपि बोध्यम्। ननु असाधारणपदोपादाने गुणपदस्य वैयर्थ्यं स्यादिति चेत्– न, क्रियायामतिप्रसक्तिवारणाय तस्याप्यावश्यकत्वात्।
परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टयमनोवृत्तिनी ।
दीपिका
परत्वापरत्वयोर्लक्षणमाह परेति। परव्यवहारासाधारणकारणं परत्वम्। अपरव्यवहारासाधारणकारणमपरत्वमित्यर्थः।
पदकृत्यम्
परेति। परव्यवहारासाधारणं कारणं परत्वम्। अपरव्यवहारासाधारणं कारणमपरत्वमित्यर्थः। दण्डादिवारणाय परव्यवहारेति। कालादिवारणाय असाधारणेति। परव्यवहारत्ववारणाय कारणेति। एवमेव द्वितीयेऽपि बोध्यम्।
ते द्विविधे – दिक्कृते कालकृते चेति। दूरस्थे दिक्कृतं परत्वं, समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वं, कनिष्ठे कालकृतमपरत्वम्।
दीपिका
परापरत्वे विभजते– ते द्विविध इति। दिक्कृतयोरुदाहरणमाह– दूरस्थ इति। कालकृते उदाहरति– ज्येष्ठ इति।
आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति ।
दीपिका
गुरुत्वं लक्षयति– आद्येति। द्वितीयादिपतनस्य वेगासमवायिकारणत्वाद्वेगेऽतिव्याप्तिवारणाय आद्येति।
न्यायबोधिनी
गुरुत्वं लक्षयति– आद्येति। द्वितीयपतनक्रियायां वेगस्याऽसमवायिकारणत्वात् तत्रातिव्याप्तिवारणाय आद्येति। उत्तरत्र स्यन्दने आद्यविशेषणमपि पूर्ववदेव योजनीयम्।
पदकृत्यम्
आद्येति। दण्डादिवारणायासमवायीति। रूपादिवारणाय पतनेति। वेगेऽतिव्याप्तिवारणाय आद्येति।
आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिव्यप्तेजोवृत्ति।
दीपिका
द्रवत्वं लक्षयति– आद्यस्यन्दनेति। स्यन्दनं स्रवणम्।
पदकृत्यम्
आद्यस्यन्दनेति। दण्डादिवारणाय असमवायीति। रसादिवारणाय स्यन्दनेति।
तद् द्विविधं – सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले, नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम्, तेजसि सुवर्णादौ ।
दीपिका
तेजःसंयोगजन्यं नैमित्तिकद्रवत्वम्। तद्भिन्नं सांसिद्धिकद्रवत्वम्। पृथिव्यां नैमित्तिकद्रवत्वमुदाहरति– घृतादाविति। तेजसि तदाह– सुवर्णादाविति।
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ।
दीपिका
स्नेहं लक्षयति– चूर्णेति। कालादावतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय चूर्णादीति।
न्यायबोधिनी
स्नेहं लक्षयति– चूर्णादिति। चूर्णादिपिण्डीभावहेतुत्वे सति गुणत्वं स्नेहस्य लक्षणम्। पिण्डीभावो नाम चूर्णादेर्धारणाऽऽकर्षणहेतुभूतो विलक्षणः संयोगः। तादृशसंयोगे स्नेहस्यैवाऽसाधारणकारणत्वं, न तु जलादिगतद्रवत्वस्य। तथा सति द्रुतसुवर्णादिसंयोगेन चूर्णादेः पिण्डीभावापत्तेरतः स्नेह एवासाधारणं कारणम्। विशेषणमात्रोपादाने कालादावतिव्याप्तिरतस्तद्वारणाय विशेष्योपादानम्। वस्तुतस्तु द्रुतजलसंयोगस्यैव पिण्डीभावहेतुत्वं, स्नेहस्य पिण्डीभावहेतुत्वे मानाभावात्। जले द्रुतत्वविशेषणात् करकादिव्यावृत्तिः।
पदकृत्यम्
चूर्णादीति। चूर्णं=पिष्टं, तदेवादिर्यस्य मृत्तिकादेः, स चूर्णादिस्तस्य पिण्डीभावः=संयोगविशेषस्तस्य हेतुर्निमित्तकारणं स्नेह इत्यर्थः। कालादावतिव्याप्तिवारणाय गुणपदम्। रूपादावतिव्याप्तिवारणाय पिण्डीभावेति। चूर्णपदं स्पष्टार्थम्।
श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः ।
दीपिका
शब्दं लक्षयति– श्रोत्रेति। शब्दत्वेऽतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय श्रोत्रेति।
न्यायबोधिनी
शब्दं लक्षयति– श्रोत्रेति। शब्दत्वेऽतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय– श्रोत्रेति।
पदकृत्यम्
श्रोत्रेति। शब्दत्वेऽतिव्याप्तिवारणाय गुण इति। रूपादिवारणाय श्रोत्रग्राह्य इति। वस्तुतस्तु श्रोत्रोत्पन्नशब्दस्यैव श्रोत्रग्राह्यत्वेन तद्भिन्नेऽव्याप्तिवारणाय श्रोत्रग्राह्यजातिमत्त्वे तात्पर्याद् गुणपदमनुपादेयमेव।
स द्विविधो ध्वन्यात्मको वर्णात्मकश्चेति। तत्र ध्वन्यात्मको भेर्यादौ, वर्णात्मकः संस्कृतभाषादिरूपः ।
दीपिका
शब्दस्त्रिविधः– संयोगजो विभागजः शब्दजश्चेति। तत्राद्यो भेरीदण्डसंयोगजन्यः। द्वितीयो वंश उत्पाट्यमाने दलद्वयविभागजन्यश्चटचटाशब्दः। भेर्यादिदेशमारभ्य श्रोत्रपर्यन्तं द्वितीयादिशब्दाः शब्दजाः।
न्यायबोधिनी
स त्रिविधः– संयोगजो विभागजः शब्दजश्चेति। यथा भेरीदण्डसंयोगजो झंकारादिशब्दः, हस्ताभिघातसंयोगजन्यो मृदङ्गादिशब्दः, वंशे पाट्यमाने दलद्वयविभागजश्चटचटाशब्दः। शब्दोत्पत्तिदेशमारभ्य श्रोत्रदेशपर्यन्तं वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा निमित्तपवनेन शब्दधारा जायन्ते। तत्र उत्तरोत्तरशब्दे पूर्वपूर्वशब्दः कारणम्।
सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च ।
दीपिका
बुद्धेर्लक्षणमाह– सर्वेति। 'जानामि' इत्यनुव्यवसायगम्यज्ञानत्वमेव लक्षणमित्यर्थः। बुद्धिं विभजते– सेति।
न्यायबोधिनी
बुद्धेर्लक्षणमाह– सर्वव्यवहारेति। व्यवहारः=शब्दप्रयोगः। ज्ञानं विना शब्दप्रयोगासम्भवाच्छब्दप्रयोगरूपव्यवहारहेतुत्वं ज्ञानस्य लक्षणम्। बुद्धिं विभजते– सा द्विविधेति।
पदकृत्यम्
बुद्धिलक्षणमाह– सर्वेति। सर्वे ये व्यवहारा आहारविहारादयस्तेषां हेतुर्बुद्धिरित्यर्थः। दण्डादिवारणाय सर्वव्यवहारेति। कालादिवारणाय असाधारणेत्यपि देयम्।
संस्कारमात्रजन्यं ज्ञानं स्मृतिः ।
दीपिका
स्मृतेर्लक्षणमाह– संस्कारेति। भावनाख्यः संस्कारः। संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति। घटादिप्रत्यक्षेऽतिव्याप्तिवारणाय संस्कारजन्यमिति। प्रत्यभिज्ञायामतिव्याप्तिवारणाय मात्रेति।
न्यायबोधिनी
स्मृतिं लक्षयति– संस्कारेति। संस्कारमात्रजन्यत्वविशिष्टज्ञानत्वं स्मृतेर्लक्षणम्। विशेषणानुपादाने प्रत्यक्षानुभवेऽतिव्याप्तिरतस्तद्वारणाय विशेषणोपादानम्। संस्कारध्वंसेऽतिव्याप्तिवारणाय विशेष्योपादानम्। ध्वंसम्प्रति प्रतियोगिनः कारणत्वात् संस्कारध्वंसेऽपि संस्कारजन्यत्वस्य सत्त्वात्। प्रत्यभिज्ञायामतिव्याप्तिवारणाय मात्रपदम्।
पदकृत्यम्
संस्कारेति। संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति। अनुभवेऽतिव्याप्तिवारणाय संस्कारजन्यमिति। तथापि प्रत्यभिज्ञायामतिव्याप्तिवारणाय संस्कारमात्रजन्यत्वं विवक्षणीयम्। क्वचित् तथैव पाठः। न चैवं सत्यसम्भवः। तस्य संस्कारजन्यत्वे सतीन्द्रियार्थसंनिकर्षाजन्यार्थकत्वात्।
तद्भिन्नं ज्ञानमनुभवः ।
दीपिका
अनुभवं लक्षयति– तद्भिन्नमिति। स्मृतिभिन्नं ज्ञानमनुभव इत्यर्थः।
न्यायबोधिनी
अनुभवं लक्षयति– तद्भिन्नमिति। तद्भिन्नत्वं नाम स्मृतिभिन्नत्वम्। तथा च स्मृतिभिन्नत्वविशिष्टज्ञानत्वमनुभवस्य लक्षणम्। तत्र विशेषणानुपादाने स्मृतावतिव्याप्तिः। विशेष्यानुपादाने घटादावतिव्याप्तिरतस्तद्वारणाय विशेषणविशेष्ययोरुभयोरुपादानम्।
पदकृत्यम्
तदिति। स्मृतित्वावच्छिन्नभिन्नमित्यर्थः। तेन यत्किञ्चित्स्मृतिभिन्नत्वस्य स्मृतौ सत्त्वेऽपि न क्षतिः। घटादावतिव्याप्तिवारणाय ज्ञानमिति। स्मृतिवारणाय तद्भिन्नमिति।
स द्विविधो यथार्थोऽयथार्थश्चेति ।
दीपिका
अनुभवं विभजते– स द्विविध इति।
न्यायबोधिनी
अनुभवं विभजते– स द्विविध इति।
तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा रजते इदं रजतम् इति ज्ञानम्। सैव प्रमा इत्युच्यते।
दीपिका
यथार्थानुभवस्य लक्षणमाह– तद्वतीति। ननु घटे घटत्वमिति प्रमायामव्याप्तिः, घटत्वे घटाभावादिति चेत्– न, 'यत्र यत्सम्बन्धोऽस्ति तत्र तत्सम्बन्धानुभव' इत्यर्थाद् घटत्वेऽपि घटसम्बन्धोऽस्तीति नाव्याप्तिः। स इति। यथार्थानुभव एव शास्त्रे प्रमेत्युच्यत इत्यर्थः।
न्यायबोधिनी
यथार्थानुभवं लक्षयति– तद्वतीति। तद्वतीत्यत्र सप्तम्यर्थो विशेष्यत्वम्। तच्छब्देन प्रकारीभूतो धर्मो धर्तव्यः। तथा च तद्वद्विशेष्यकत्वे सति तत्प्रकारकानुभवत्वं यथार्थानुभवस्य लक्षणम्। उदाहरणम्– रजते 'इदं रजतम्' इति ज्ञानम्। अत्र रजतत्ववद्विशेष्यकत्वे सति रजतत्वप्रकारकत्वस्य सत्त्वाल्लक्षणसमन्वयः। तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वमिति तु निष्कर्षः। अन्यथा यथाश्रुते रङ्गरजतयोः 'इमे रजतरङ्गे' इत्याकारकसमूहालम्बनभ्रमेऽतिव्याप्तिः, तत्रापि रजतत्ववद्विशेष्यकत्व-रजतत्वप्रकारकत्वयोः रङ्गत्ववद्विशेष्यकत्वरङ्गत्वप्रकारकत्वयोः सत्त्वात्। उक्तनिष्कर्षे तु नातिव्याप्तिः। रजतत्वप्रकारताया रजतत्ववद्विशेष्यतानिरूपितत्वाभावात्। एवं रङ्गत्वप्रकारताया रङ्गत्ववद्विशेष्यतानिरूपितत्वाभावात्। किन्तु समूहालम्बनभ्रमस्य रङ्गांशे रजतत्वावगाहित्वेन रजतत्वप्रकारताया रङ्गत्ववद्विशेष्यतानिरूपितत्वात्। एवं रजतांशे रङ्गत्वावगाहित्वेन रङ्गत्वप्रकारताया रजतत्ववद्विशेष्यतानिरूपितत्वाच्चेति। नानामुख्यविशेष्यताशालिज्ञानं समूहालम्बनम्।
पदकृत्यम्
तद्वतीति। तद्वति तत्प्रकारो यस्य स तथेत्यर्थः। तद्वद्विशेष्यकः तत्प्रकारक इति यावत्। स्मृतिवारणाय अनुभव इति। अयथार्थानुभववारणाय तद्वतीति। निर्विकल्पकेऽतिव्याप्तिवारणाय तत्प्रकारक इति।
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । यथा शुक्तौ इदं रजतम् इति ज्ञानम्। सैव अप्रमा इत्युच्यते ।
दीपिका
अयथार्थं लक्षयति– तदभाववतीति। ननु 'इदं संयोगि' इति प्रमायामतिव्याप्तिरिति चेत्– न, यदवच्छेदेन यत्सम्बन्धाभावस्तदवच्छेदेन तत्सम्बन्धज्ञानस्य विवक्षितत्वात्, संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्, संयोगावच्छेदेन संयोगसम्बन्धस्य सत्त्वात् नातिव्याप्तिः।
न्यायबोधिनी
अयथार्थानुभवं लक्षयति– तदभाववतीति। अत्रापि पूर्ववत् 'तदभाववन्निष्ठविशेष्यतानिरूपित-तन्निष्ठप्रकारताशालिज्ञानत्वं' विवक्षणीयम्। अन्यथा रङ्गरजतयोः– 'इमे रङ्गरजते' इत्याकारकसमूहालम्बनप्रमायामतिव्याप्तिः। एतत्समूहालम्बनस्य रङ्गरजतोभयविशेष्यकत्वेन रजतत्वरङ्गत्वोभयप्रकारकत्वेन च रजतत्वाभाववद्रङ्गविशेष्यकत्वरजतत्वप्रकारकत्वयोः, रङ्गत्वाभाववद्रजतविशेष्यकत्वरङ्गत्वप्रकारकत्वयोश्च सत्त्वात्। उक्तनिष्कर्षे तु तादृशप्रमाया रजतांशे रजतत्वावगाहित्वेन रङ्गांशे रङ्गत्वावगाहित्वेन च रजतत्वप्रकारताया रजतत्वाभाववद्रङ्गनिष्ठविशेष्यतानिरूपितत्वाभावात्। एवं रङ्गत्वप्रकारताया रङ्गत्वाभाववद्रजतविशेष्यतानिरूपितत्वाभावान्नातिव्याप्तिः। उदाहरणं यथा शुक्तौ 'इदं रजतम्' इति।
पदकृत्यम्
तदभावेति। तदभाववद्विशेष्यकतत्प्रकारकोऽनुभवोऽयथार्थानुभव इत्यर्थः। यथा शुक्तौ 'इदं रजतम्' इति ज्ञानम्। स्मृतिवारणाय अनुभव इति। यथार्थानुभवेऽतिव्याप्तिनिरसनाय तदभाववतीति। निर्विकल्पकवारणाय तत्प्रकारक इति।
यथार्थानुभवश्चतुर्विधः – प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ।
दीपिका
यथार्थानुभवं विभजते– यथार्थेति।
न्यायबोधिनी
यथार्थानुभवं विभजते– चतुर्विध इति।
पदकृत्यम्
यथार्थेति। यथार्थानुभवः प्रत्यक्षमेवेति चार्वाकाः। अनुमितिरपीति काणादबौद्धाः। उपमितिरपीति नैयायिकैकदेशिनः। शाब्दमपीति नैयायिकाः। अर्थापत्तिरपीति प्राभाकराः। आनुपलब्धिकोऽपीति भाट्टवेदान्तिनौ। साम्भविकैतिह्यकावपीति पौराणिकाः। चैष्टिकोऽपीति तान्त्रिकाः। एतेषां मतेऽस्वरसं संभाव्य तस्य चातुर्विध्यं दर्शितम्।
तत्करणमपि चतुर्विधम् – प्रत्यक्षानुमानोपमानशब्दभेदात् ।
दीपिका
प्रसङ्गात्प्रमाकरणं विभजते तत्करणमिति। प्रमाकरणमित्यर्थः। प्रमायाः करणं प्रमाणम् इति प्रमाणसामान्यलक्षणम्।
न्यायबोधिनी
तत्करणमिति। फलीभूतप्रत्यक्षादिकरणं चतुर्विधमित्यर्थः। प्रत्यक्षादिचतुर्विधप्रमाणानां 'प्रमाकरणत्वं' सामान्यलक्षणम्। एकैकप्रमाणलक्षणं तु वक्ष्यते– 'प्रत्यक्षज्ञाने'त्यादिना।
पदकृत्यम्
तदिति। यथार्थानुभवात्मकप्रमायाः करणमित्यर्थः।
(व्यापारवद्) असाधारणं कारणं करणम्।
दीपिका
करणलक्षणमाह– असाधारणमिति। साधारणकारणे दिक्कालादावतिव्याप्तिवारणाय असाधारणेति।
न्यायबोधिनी
करणलक्षणमाह– असाधारणमिति। व्यापारवदसाधारणं कारणं करणमित्यर्थः। असाधारणत्वं च 'कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्'। यथा– दण्डादेर्घटादिकं प्रत्यसाधारणकारणत्वम्। कार्यत्वातिरिक्तो घटत्वादिरूपो धर्मः, तदवच्छिन्नकार्यता घटे, तन्निरूपिता कारणता दण्डे। अतो घटं प्रति दण्डः– असाधारणं कारणम्, भ्रम्यादिरूपव्यापारवत्त्वाच्च करणम्। साधारणकारणत्वं च 'कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्'। ईश्वरादृष्टादेः कार्यत्वावच्छिन्नं प्रत्येव कारणत्वात् साधारणकारणत्वम्।
पदकृत्यम्
असाधारणमिति। कालादिवारणाय असाधारणमिति। व्यापारेऽतिव्याप्तिवारणाय व्यापारवदित्यपि देयम्। व्यापारश्च द्रव्यान्यत्वे सति तज्जन्यत्वे सति तज्जन्यजनकः। ईश्वरेच्छादिवारणाय तज्जन्यत्वे सतीति। कुलालजन्यत्वे सति कुलालजन्यघटजनकत्वं कुलालपुत्रस्याप्यस्त्यतस्तत्रातिव्याप्तिवारणाय प्रथमं सत्यन्तम्। दण्डरूपादिवारणाय तज्जन्यजनक इति।
कार्यनियतपूर्ववृत्ति कारणम्।
दीपिका
कारणलक्षणमाह– कार्येति। पूर्ववृत्ति कारणम् इत्युक्ते रासभादावतिव्याप्तिः स्यादतो नियतेति। तावन्मात्रे कृते कार्येऽतिव्याप्तिरतः पूर्ववृत्तीति। ननु तन्तुरूपमपि पटं प्रति कारणं स्यादिति चेत्– न, अनन्यथासिद्धत्वे सतीति विशेषणात्। अनन्यथासिद्धत्वमन्यथासिद्धिविरहः। अन्यथासिद्धिश्च त्रिविधा। येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तेन तदन्यथासिद्धम्। यथा तन्तुना तन्तुरूपं, तन्तुत्वं च पटं प्रति। अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तदन्यथासिद्धम्। यथा शब्दं प्रति पूर्ववृत्तित्वे ज्ञात एव घटं प्रत्याकाशस्य, अन्यत्र क्लृप्तनियतपूर्ववर्तिनैव कार्यसंभवे तत्सहभूतमन्यथासिद्धम्। यथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य। एवं चानन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम्।
न्यायबोधिनी
कारणं लक्षयति– कार्यनियतेति। कार्यं प्रति नियतत्वे सति पूर्ववृत्तित्वं कारणत्वम्। नियतत्वविशेषणानुपादाने पूर्ववर्तिनो रासभादेरपि घटादिकारणत्वं स्यादतो नियतत्वे सतीति विशेषणम्। नियतपूर्ववर्तिनो दण्डरूपादेरपि घटकारणत्वं स्यादतः– अनन्यथासिद्धपदमपि कारणलक्षणे निवेशनीयम्, एवं च न तत्राऽतिव्याप्तिः, दण्डरूपादीनामन्यथासिद्धत्वात्।
पदकृत्यम्
कार्येति। कार्यान्नियतावश्यंभाविनी पूर्ववृत्तिः=पूर्वक्षणवृत्तिर्यस्य तत्तथेत्यर्थः। अनियतरासभादिवारणाय नियतेति। कार्यवारणाय पूर्वेति। दण्डत्वादिवारणाय 'अनन्यथासिद्धत्व'विशेषणस्यावश्यकत्वेन तत एव रासभादिवारणसम्भवे नियतपदमनर्थकमेव। एवं चानन्यथासिद्धकार्यपूर्ववृत्ति कारणमिति फलितम्। अनन्यथासिद्धत्वम् अन्यथासिद्धिशून्यत्वम्। अन्यथासिद्धिश्चावश्यक्लृप्तनियतपूर्ववर्तिनैव कार्यसम्भवे तत्सहभूतत्वम्। यथा अवश्यक्लृप्तनियतपूर्ववर्तिभिर्दण्डादिभिरेव घटरूपकार्यसम्भवे तत्सहभूतत्वं, तच्च दण्डत्वादौ वर्ततेऽतो दण्डत्वादिकमन्यथासिद्धम्।
कार्यं प्रागभावप्रतियोगि।
दीपिका
कार्यलक्षणमाह– कार्यमिति।
न्यायबोधिनी
कार्यं लक्षयति– कार्यमिति। प्रागभावप्रतियोगित्वं कार्यस्य लक्षणम्। कार्योत्पत्तेः पूर्वम् 'इह घटो भविष्यति' इति प्रतीतिर्जायते। एतत्प्रतीतिविषयीभूतो योऽभावः स प्रागभावः, तत्प्रतियोगि घटादिरूपं कार्यम्।
पदकृत्यम्
प्रागभावेति। कालादिवारणाय प्रागिति। असम्भववारणाय प्रतियोगीति।
कारणं त्रिविधम् – समवाय्यसमवायिनिमित्तभेदात् ।
दीपिका
कारणं विभजते– कारणमिति।
न्यायबोधिनी
कारणं विभजते– कारणमिति। समवायिकारणमसमवायिकारणं, निमित्तकारणं चेति।
यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः ।
दीपिका
समवायिकारणस्य लक्षणमाह– यत्समवेतमिति। यस्मिन्समवेतमित्यर्थः।
न्यायबोधिनी
समवायिकारणं लक्षयति– यत्समवेतमिति। यस्मिन्समवेतं सत्=समवायेन सम्बद्धं सत्, कार्यमुत्पद्यते, तत् समवायिकारणमित्यर्थः। उदाहरणम्– यथा तन्तव इति। येषु तन्तुषु समवायेन सम्बद्धं सत् पटात्मकं कार्यमुत्पद्यते, ते=तन्तवः समवायिकारणमित्यर्थः। सामान्यलक्षणं तु 'समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणत्वं समवायिकारणत्वम्' इति। समवायसम्बन्धेन घटाधिकरणे कपालादौ, कपालादेः तादात्म्यसम्बन्धेनैव सत्त्वात्– समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणतायाः कपालादौ सत्त्वाल्लक्षणसमन्वयः।
समवायेन जन्यभावत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यस्यैव कारणत्वाज्जन्यभावेषु द्रव्यगुणकर्मसु त्रिषु द्रव्यमेव समवायिकारणम्। द्रव्ये तु द्रव्यावयवाः समवायिकारणम्। अतो गुणादावपि द्रव्यमेव समवायिकारणमित्याशयेनाह– पटश्च स्वगतरूपादेरिति। समवायिकारणमित्यनुषज्यते।
पदकृत्यम्
यदिति। यस्मिन्समवायसम्बन्धेन वर्तमानं सदित्यर्थः। चक्रादिवारणाय समवेतमिति।
कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणम्। यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटगतरूपस्य च ।
दीपिका
असमवायिकारणं लक्षयति– कार्येणेति। कार्येणेत्येतदुदाहरति– तन्तुसंयोग इति। कार्येण पटेनैकस्मिन् तन्तौ समवेतत्वात्तन्तुसंयोगः पटस्यासमवायिकारणमित्यर्थः। कारणेन सहेत्येतदुदाहरति– तन्तुरूपमिति। कारणेन पटेन सहैकस्मिन् तन्तौ समवेतत्वात् तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः।
न्यायबोधिनी
असमवायिकारणं लक्षयति– कार्येणेति। असमवायिकारणं द्विविधम्– कार्येण सहैकस्मिन्नर्थे समवेतं सत् यत् कारणं तदसमवायिकारणमित्येकम्, कारणेन सहैकस्मिन्नर्थे समवेतं सत् यत् कारणं तदपरमसमवायिकारणमित्यर्थः। अत्र 'कारणेन' इत्यस्य स्वकार्यसमवायिकारणेनेत्यर्थः। जन्यद्रव्यमात्रं प्रति अवयवसंयोगस्यैवाऽसमवायिकारणत्वात् पटात्मककार्ये तदवयवतन्तुसंयोगस्यैवासमवायिकारणत्वमिति दर्शयन् प्रथममुदाहरति– यथा तन्तुसंयोगः पटस्येति। यथा पटात्मककार्येण सहैकस्मिन्नर्थे=तन्तौ समवेतं सत् समवायसम्बन्धेन वर्तमानं सत् पटात्मककार्यम्प्रति तन्तुसंयोगात्मकं कारणमसमवायिकारणं भवतीत्यर्थः।
द्वितीयमसमवायिकारणं कारणेन सहेत्यादिना पूर्वोक्तं, तदुदाहरति– तन्तुरूपमिति। कारणेन सह=पटरूपसमवायिकारणीभूतपटेन सह, एकस्मिन्नर्थे=तन्तुरूपेऽर्थे समवेतं सत्=समवायसम्बन्धेन वर्तमानं सत् तन्तुरूपं पटगतरूपं प्रति कारणं भवति। अतोऽसमवायिकारणं तन्तुरूपं पटगतरूपस्य।
सामान्यलक्षणं तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपिता या समवायस्वसमवायिसमवेतत्वान्यतरसम्बन्धावच्छिन्ना कारणता तदाश्रयत्वमसमवायिकारणत्वमिति। द्रव्याऽसमवायिकारणीभूताऽवयवसंयोगादौ तु समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानिरूपिता समवायसम्बन्धावच्छिन्ना कपालद्वयसंयोगनिष्ठा कारणता कपालद्वयसंयोगे वर्तते। एवमाद्यपतनक्रियायामाद्यस्यन्दनक्रियायां च गुरुत्वद्रवत्वे असमवायिकारणे भवतः। आद्यपतनक्रियां प्रति आद्यस्यन्दनक्रियां प्रति च समवायसम्बन्धेनैव तयोः कारणत्वात्। अवयविगुणादौ त्ववयवगुणादेः स्वसमवायिसमवेतत्वसम्बन्धेनैव कारणत्वात्, तत्सम्बन्धावच्छिन्नकारणताश्रयत्वमवयवगुणादौ वर्तते। अवयवगुणीभूतकपालतन्तुरूपादेः स्वशब्दग्राह्यकपालरूपतन्तुरूपादिसमवायिकपालतन्तुसमवेतत्वसम्बन्धेन घटपटादौ सत्त्वात्।
पदकृत्यम्
कार्येणेति। कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति आत्मविशेषगुणभिन्नत्वे सति यत् कारणं तदसमवायिकारणम्। तन्तुसंयोगादावव्याप्तिवारणाय कार्येणेति। तन्तुरूपादावव्याप्तिवारणाय कारणेनेति। आत्मविशेषगुणेऽतिव्याप्तिवारणाय आत्मविशेषगुणभिन्नत्वे सतीति। विशेषवारणाय कारणमिति।
तदुभयभिन्नं कारणं निमित्तकारणम्, यथा तुरीवेमादिकं पटस्य ।
दीपिका
निमित्तकारणं लक्षयति– तदुभयेति। समवाय्यसमवायिभिन्नं कारणं निमित्तकारणमित्यर्थः।
न्यायबोधिनी
निमित्तकारणं लक्षयति– तदुभयभिन्नमिति। समवायिकारणभिन्नत्वे सति, असमवायिकारणभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणमित्यर्थः।
पदकृत्यम्
तदुभयभिन्नं कारणं निमित्तकारणमिति। समवाय्यसमवायिकारणवारणाय तदुभयभिन्नमिति। विशेषादावतिव्याप्तिवारणाय कारणमिति।
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम्।
दीपिका
करणलक्षणमुपसंहरति– तदेतदिति।
न्यायबोधिनी
तदेतदिति। यदसाधारणमिति। 'व्यापारवत्त्वे सति' इत्यपि पूरणीयम्। अन्यथा तन्तुकपालसंयोगयोरतिव्याप्तिः, तन्तु-कपाल-संयोगयोरपि कार्यत्वातिरिक्तपटत्वघटत्वावच्छिन्नम्प्रति कारणत्वादसाधारणत्वमस्त्येवेत्यतस्तत्र कारणत्ववारणाय 'व्यापारवत्त्वे सति' इति करणलक्षणे विशेषणं देयम्। व्यापारत्वं च तज्जन्यत्वे सति तज्जन्यजनकत्वम्। भवति हि दण्डजन्यत्वे सति दण्डजन्यघटजनकत्वाद् भ्रम्यादेर्दण्डव्यापारत्वम्। एवं कपालसंयोगतन्तुसंयोगादेरपि कपालतन्तुव्यापारत्वं कपालतन्तुजन्यत्वे सति कपालतन्तुजन्यघटपटजनकत्वात्। करणलक्षणेऽसाधारणत्वविशेषणानुपादाने ईश्वरादृष्टादेरपि व्यापारवत्कारणत्वं स्यात्, अतस्तत्रातिव्याप्तिवारणाय असाधारणेति विशेषणम्।
पदकृत्यम्
तदेतदिति। यस्मात्कारणात्करणत्वघटकं कारणमुपदर्शितं, तस्मादेतत्त्रिविधसाधकमध्ये यत्साधकतमं तदेव करणमिति भावः।
इति करणप्रपञ्चः।