सामग्रीं त्यजन्तु

वेदान्तसङ्ग्रहः — ११. क्षेत्रक्षेत्रज्ञनिरूपणम्

दर्शितयोः दृग्दृश्ययोः पदार्थयोरेव क्षेत्रक्षेत्रज्ञपदाभ्यां व्यवहारः। क्षेत्रं दृश्यं, क्षेत्रज्ञस्तु दृक् । अहङ्कारादिदेहान्तं सर्वं कार्यं, कारणम् अज्ञानं च क्षेत्रम् । एतत् यो वेत्ति स आत्मा क्षेत्रज्ञः । ज्ञानस्वरूपोऽपि आत्मा स्वप्रकाशत्वेन सर्व-अवभासकत्वात् क्षेत्रज्ञः इति उच्यते ॥१॥

अन्तःकरणं चक्षुरादि-इन्द्रियजातं च ज्ञानसाधनानि ज्ञेयानि एव, "चक्षुषा पश्यामि", "मनसा ध्यायामि" इत्यादि-अनुभवात्, "चक्षुः इदम्", "मनः इदम्" इत्यनुभवाच्च । न च "अहं पश्यामि" इति अनुभवात् अहङ्कार एव क्षेत्रज्ञः इति वाच्यम् । तत्र अहम्पदेन अहङ्कारस्य वाच्यत्वेऽपि आत्मनः एव लक्ष्यत्वात् ॥२॥

यद्वा – सचैतन्यस्य अहङ्कारस्य ज्ञातृत्वात्, केवल-अहङ्कारस्य जडत्वात् अहङ्कारगतः चैतन्यांशः एव ज्ञाता । न च अहङ्कार एव आत्मा इति वाच्यम्, "मम अहङ्कारः" इति भेदानुभवात् । सुषुप्त्यादिषु अहङ्कार-नाश-दर्शनात्। "अजो नित्यः" इति श्रुत्या नित्यस्य आत्मनः नाश-अयोगात् । असाक्षिक-आत्म-नाशस्य अभ्युपगन्तुम् अनुचितत्वात्, आत्मान्यस्य साक्षिणोऽभावात् । आत्मनः एव सर्व-साक्षित्वात् । तस्मात् अहङ्कारः न क्षेत्रज्ञः, किन्तु कूटस्थः साक्षी आत्मा एव ॥३॥

अन्तःकरण-उपहितं चैतन्यं साक्षी इत्युक्तं प्राक् । अयम् एकोऽपि क्षेत्रज्ञः स्व-उपाधिभूत-अन्तःकरण-भेदात् अनेक इव भाति । कार्य-अनन्वयित्वे सति व्यावर्तकत्वम् उपाधेः लक्षणम्। कार्यान्वयित्वे सति व्यावर्तकत्वं तु विशेषणत्वम् इति भेदः । इदञ्च क्षेत्रज्ञत्वम् आत्मनो व्यावहारिकम् एव । परमार्थतः क्षेत्रस्यैव अभावात् कुतः तज्ज्ञत्वम्? ननु – ज्ञानाश्रयस्य ज्ञातृत्वात्, क्षेत्रज्ञः क्षेत्र-ज्ञानाश्रयः भवितुम् अर्हति इति कृत्वा क्षेत्रज्ञो न ज्ञानस्वरूपः, किन्तु ज्ञानवत्-द्रव्यमेव – इति चेत्, मैवम् । "इदं क्षेत्रम्" इति यत् वृत्तिज्ञानम् अस्ति, तज्ज्ञानस्य आश्रयम् अन्तःकरणं द्रव्यमेव । निर्विकल्पम् इति परैः अभ्युपगम्यमानं निराकारं यदस्ति ज्ञानं, न अन्तःकरणं तस्य आश्रयः । अन्तःकरणस्यैव ज्ञानमाश्रय इति सिद्धान्तात् ॥४॥

चैतन्ये हि सर्वम् अध्यस्तम्। नापि आत्माश्रयः, आत्मनः एव ज्ञानत्वात् । ज्ञानवान् आत्मा इति अभ्युपगमे, आत्मनः अपि आन्तरं ज्ञानं स्यात् । तच्च अनिष्टं, सर्वान्तरत्व-श्रवणात् आत्मनः। तदेवं ज्ञानस्वरूपोऽपि आत्मा सर्व-अवभासकत्वात् ज्ञाता साक्षी इति उच्यते। "प्रज्ञानं ब्रह्म" इति श्रुतिश्च अत्र प्रमाणम्। आत्मनः ज्ञानाश्रयत्वे अद्वैतश्रुति-विरोधश्च ज्ञातृ-ज्ञान-द्वैतसम्भवात्। "क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत" इति गीतावचनात् ईश्वरोऽपि क्षेत्रज्ञः एव । अत एव "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति" इति हृद्देशस्थितिः ईश्वरस्य अभिहिता । हृद्देशे तिष्ठति हि क्षेत्रज्ञः । ईश्वरः एव प्रत्यग्रूपेण तिष्ठति इति तदर्थात् ॥५॥

प्रत्यग्-इति आत्म-पर्यायः । न च प्रतीचः कूटस्थस्य क्षेत्रज्ञस्य वा ईश्वरत्वे कथं सर्वान्तर्यामित्वादि-गुणसिद्धिः इति वाच्यम्। अविकृत-अयस्कान्त-सन्निधिवशात् यथा सूच्याः चलनं, तथा कूटस्थ-सन्निधिवशात् अन्तःकरणादीनां व्यापारः इति एतावन्मात्रेण सर्वान्तर्यामित्व-कथनात् ईश्वरस्य। अन्यथा "त्वम् एवं कुरु", "त्वम् एवं मा कुरु", इति राजवत्-प्रेरण-अभ्युपगमे ईश्वरस्य विकारित्वं स्यात् । तच्च अनिष्टं, विकारित्वे सति अनित्यत्व-प्रसङ्गात् ईश्वरस्य । तस्मात् ईश्वर एव क्षेत्रज्ञः इति सुस्थम् ॥६॥

ननु – यद्येवं क्षेत्रज्ञः एव ईश्वरः तर्हि माया-अवच्छिन्न-चैतन्यम् ईश्वरः । अन्तःकरण-उपहित-चैतन्यं साक्षी इति पृथग्-निर्देशः पूर्वोक्तो विरुध्येत – इति चेत्, मैवं, भेदस्य काल्पनिकत्वात् । विशेषणांश-भेदेऽपि विशेष्यांश-अभेदात् । यदेव चैतन्यम् अन्तःकरण-उपहितं तदेव माया-अवच्छिन्नं, न तु अन्यत् । चैतन्यस्य एकत्वात् इति सिद्धान्तात् । एतेन जीवेश्वर-कूटस्थ-ब्रह्म-नामकं चतुर्विधं चैतन्यम् एकमेव इति कृत्वा न तेषां परस्परं भेदः इति सिद्धम् ॥७॥

जीवो वस्तुतः कूटस्थ एव। ईश्वरः वस्तुतः ब्रह्मैव । कूटस्थश्च वस्तुतः ब्रह्मैव। आकाशादि-उपाधयः घट-मठादयः परस्परं भिन्नाः अपि, यथा आकाशं भेदयितुं न क्षमते, तथा अन्तःकरणमाययोः भिन्नत्वेऽपि न चैतन्यभेदकत्वम् । तस्मात् सिद्धं क्षेत्रज्ञस्य चैतन्यस्य जीवत्वम् ईश्वरत्वं ब्रह्मत्वञ्च । यः पुनः "इदं क्षेत्रम्, अहं क्षेत्रज्ञः" इति वेत्ति सः ब्रह्मैव । "ब्रह्मविद् ब्रह्मैव भवति" इति श्रुतेः । न च कथम् एकस्यैव ब्रह्मणः वेदनक्रिया-निरूपितं कर्तृत्वं कर्मत्वं च इति वाच्यम् । "माम् अहं जानामि" इतिवत् स्वप्रकाशात्मनि तदविरोधात्। यद्वा नेदं वेदनं क्रिया, किन्तु अनुभव एव । स च आत्मस्वरूपभूत एव। "अहं ब्रह्म" इति योऽनुभवः स ब्रह्मैव इति श्रुतेः अर्थः इति सर्वम् अनवद्यम् ॥८॥

॥इति क्षेत्रक्षेत्रज्ञनिरूपणम् ॥