मुखपृष्ठम् · ⬆ वेदान्तसङ्ग्रहः · ← · →
वेदान्तसङ्ग्रहः — १४. भक्तिमार्गनिरूपणम्¶
भक्तिः पूज्येषु अनुरागः । पूज्याश्च ब्रह्म-विष्ण्वादयो देवताः ईश्वरात्मकाः। एकोऽपि ईश्वरः स्वोपाधि-मायानिष्ठ-सत्त्वादि-गुण-भेदात् ब्रह्म-विष्ण्वादि-भेद-भिन्नो भवति इति सिद्धान्तात् ॥१॥
माया-अवच्छिन्न-चैतन्यस्यैव ईश्वरत्वात् मायायाः सर्वगतत्वात् ईश्वरः सर्वगतः सर्वात्मकश्च । "सर्वं खलु इदं ब्रह्म" इति श्रुतेः। "सर्वं विष्णुमयं जगत्" इति स्मृतेश्च । मायाविनः ईश्वरस्य सर्वजगत्कल्पना-अधिष्ठानत्वात् सर्वस्य मायामयत्वं सर्वात्मकत्वम् ईश्वरस्य। "तदैक्षत बहु स्यां प्रजायेय" इति, "सच्च त्यच्च अभवत्" इति श्रुतेः । कार्यं कारणात् अनन्यं घटो मृदः इव इति लोकन्यायात् । सर्वकारणात् ईश्वरात् जगद्-अनन्यमेव इति कृत्वा सर्वात्मकत्वम् ईश्वरस्य सिद्धम् । तदेवं सर्वस्य जगतः ईश्वरात्मकत्वेऽपि पूज्य-पूजक-व्यवहार-अन्यथा-अनुपपत्त्या केषाञ्चित् पूज्यत्वं केषाञ्चित् अपूज्यत्वम् ॥२॥
तत्र ये ये पूज्याः अश्वत्थादयः ते ईश्वराः । पूजकास्तु जीवाः इति काल्पनिको भेदः। अत एव गुणभेदात् कर्मभेदाच्च ब्रह्म-विष्णु-रुद्र-इन्द्र-वह्नि-वायु-चन्द्र-अर्क-गणपति-कुमारस्वामि-आञ्जनेय-गङ्गा-समुद्र-सेतु-शीताचल-भूमि-अश्वत्थ-कुद्दाल-अन्यतमम् ईश्वरत्वेन अर्चयन्ति पुरुषाः ॥३॥
तत्र च ये पुरुषाः ब्रह्मादि-शरीर-उपाधिकम् ईश्वर-चैतन्यम् अर्चयन्ति, ते उत्तमाः। ये तु शरीरमेव ईश्वरबुद्ध्या अर्चयन्ति ते मन्दाः इति विवेकः ॥४॥
इयं भक्तिः तावत् द्विविधा – सगुण-निर्गुणभेदात् । वासुदेवादिमूर्तीनां बहिः शिलादौ कल्पितानां सेवा सगुणभक्तिः । मनसि कल्पित-तन्मूर्तिसेवा निर्गुणभक्तिः । सगुणा त्रिविधा – सात्त्विकराजसतामसभेदात् । फलाभिसन्धि-रहिता सात्त्विकी, तत्सहिता राजसी, दम्भाद्यर्थं कृता सेवा तामसी इति । निर्गुणभक्तिः एकविधा एव । उपास्यदेवतामूर्तिभेदात्तु इयमपि बहुधा ॥५॥
इयं निर्गुणभक्तिः योगाङ्ग-ध्यान-धारणयोः पर्यवस्यति । ततः क्रमेण परिपक्वा आनन्द-पारवश्यं जनयन्ती सती निर्विकल्पसमाधौ अन्तर्भवति इति भक्तिमार्गोऽपि क्रमेण मोक्षप्रद एव । अपरिपक्वापि निर्गुणभक्तिः तत्तद्-उद्देश्य-देवतानुग्रहद्वारा इहजन्मनि जन्मान्तरे वा ज्ञानमार्गप्रवृत्तिप्रदा भवति, इति न भक्तिमार्गस्य क्रममुक्ति-प्रतिपादन-विरोधः ॥६॥
सात्त्विकी सगुणभक्तिस्तु तत्तद्देवता-लोक-दायिनी। तथा हि सालग्रामादि-विष्णु-प्रतिमा-अर्चकः सात्त्विकः । मेरुपर्वत-शिखरस्थं शुभ्रपत्न्यां विकुण्ठायां जातेन हरिणा वैकुण्ठेन रमायाः प्रियकाम्यया सङ्कल्पेन निर्मितं वैकुण्ठ-नामकं नगरं प्राप्नोति । शिव-लिङ्गार्चकस्तु कैलास-शिखरस्थं शिवलोकं गच्छति। चतुर्मुख-उपासकस्तु मेरुस्थं ब्रह्मलोकं गच्छति । सूर्योपासकः सूर्यलोकं, चन्द्रोपासकः चन्द्रलोकम् इत्यादि ऊह्यम् । अमीषां तु पुनरावृत्तिः अस्ति, "आब्रह्म-भुवनात् लोकाः पुनरावर्तिनः अर्जुन" इति गीतावचनात् । मर्यादार्थकः अत्र आङ् । ततो ब्रह्मलोकं सगुण-मुक्ति-क्षेत्रं सत्यनामकं गतानां न पुनरावृत्तिः ॥७॥
यदि तु मेरुपर्वताश्रयवैकुण्ठपुरादिगतानामपि सत्सङ्गादिवशात् विद्यालाभः, तर्हि ते तत्र शरीरं विधूय मुक्तिं प्राप्नुयुरेव । यत्र कुत्रापि विद्यां विना न मुक्तिः। ब्रह्मलोकं गतानामपि ब्रह्मकृत-महावाक्य-उपदेशजन्य-ब्रह्मात्म-आपरोक्ष्यादेव मुक्तिः ।
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परम्पदम् ॥ इति शास्त्रात् ॥८॥
अतः सर्वैरपि विद्यार्थं यथाधिकारं यतितव्यम् । न तु उदासितव्यम्।
लब्ध्वा सुदुर्लभम्-इदं बहु-सम्भवान्ते मानुष्यम्-अर्थदम् अनित्यमपीह धीरः। तूर्णं यतेत न पतेत् अनुमृत्यु यावत् निःश्रेयसाय विषयः खलु सर्वतः स्यात्॥ इति भागवते (११।९।२९) प्रह्लादवचनात् ॥९॥
॥इति भक्तिमार्गनिरूपणम् ॥