सामग्रीं त्यजन्तु

वेदान्तसङ्ग्रहः — १२. आत्मानन्दरूपत्वनिरूपणम्

दृग्रूपः आत्मा स्वप्रकाशत्वात् सर्व-अवभासकत्वात् च चिद्रूपः। सर्वनाश-अवधित्वात् सर्वकल्पना-अधिष्ठानत्वात् च सद्रूपः । परम-प्रेमास्पदत्वात् सर्वदुःखरहितत्वात् च आनन्दरूपः । तत्र सच्चिद्रूपत्वे वर्णिते । अथ आनन्दरूपत्वं वर्णयामः ॥१॥

आत्मनि सर्वदुःख-राहित्यं सुषुप्त्यादिषु प्रत्यक्षम्। "अन्धः सन् अनन्धो भवति" इत्यादि श्रुतिसिद्धं च। आत्मनः सर्वं प्रति शेषित्वात् परमप्रेमास्पदत्वम्। सर्वस्य तु स्रगादि-विषयस्य आत्मशेषत्वात् प्रेमास्पदत्वमेव ॥२॥

तथा हि सुशब्दाः वेदादयः, सुस्पर्शाः मलयानिलादयः, सुरूपाः कुण्डलादयः, सुरसाः चूतफलादयः, सुगन्धिनः कुसुमादयः, बहुधान्याः क्षेत्रादयः, बहुक्षीराः गवादयः, बहुचित्राः गृहादयः, बहुधनाः कोशादयः, बहुरूपाः भार्यादयः, बहुविद्याः पुत्रादयः, बहुबलाः शरीरेन्द्रियादयः च आत्मनः उपभोगायैव प्रियाः । उपभुज्यमानेषु तेषु प्रीतिसम्भवात् । उपलब्धेषु नष्टेषु वा द्वेषादि सम्भवाच्च ॥३॥

शरीरात्मनोः परस्पर-तादात्म्य-अध्यासात् "मनुष्योऽहम्", "ब्राह्मणोऽहम्" इति अभिमन्यमानः पुरुषः शरीरमेव आत्मानं मन्यते । तादृशशरीरात्मनः उपभोगाय स्रगादि-पुत्रान्ताः सर्वे विषयाः उपयुज्यन्ते इति सर्वसम्मतम् । अहङ्कार-तादात्म्य-अध्यासात् कर्तृत्वादि-अभिमानिनः पुरुषस्य गमन-प्रेक्षण-मैथुनादि-उपयोगित्वात् शरीरेन्द्रियाणि शेषाण्येव आत्मनः। अत्र अहङ्कारस्य सचेतनस्यैव आत्मत्वात् ॥४॥

स च अहङ्कारः आत्मतादात्म्य-अभिमानेनैव प्रियतमः । आत्मनः सकाशात् पृथक्कृते तु आत्मैव प्रियतमः सुषुप्तौ आत्मस्वरूप-सुखानुभवार्थम् अहङ्कारनाशस्यापि आत्मना आकाङ्क्षितत्वात्। तस्मात् अहङ्कारोऽपि आत्मार्थमेव प्रियः; "पश्यामि" इत्यादि-व्यवहार-उपयोगित्वात् अहङ्कारस्य । किञ्च, यदि आत्मा न हि आनन्दरूपः, तर्हि पण्डितपामरसाधारण्येन सर्वेषां सुषुप्ति-आकाङ्क्षा न स्यात् । पण्डितानां च समाधि-आकाङ्क्षा, सुषुप्ति-समाध्योः हि स्वात्मानन्द-स्फूर्तिः अस्ति। सुषुप्तौ अज्ञानेन आवृतः आत्मानन्दः, समाधौ तु अनावृतः। ब्रह्माकारवृत्त्या तस्य अज्ञानावरणस्य क्षीणत्वात् इति इयानेव भेदः ॥५॥

॥इति आत्मनः आनन्दरूपत्व-निरूपणम् ॥