सामग्रीं त्यजन्तु

तर्कसङ्ग्रहः — उपमानपरिच्छेदः

उपमितिकरणमुपमानम्।

दीपिका

उपमानं लक्षयति– उपमितीति।

इति तर्कसङ्ग्रहदीपिकायामुपमानपरिच्छेदः।

न्यायबोधिनी

उपमानं लक्षयति– उपमितिकरणमिति।

पदकृत्यम्

अवसरसंगतिमभिप्रेत्यानुमानानन्तरमुपमानं निरूपयति– उपमितीति। उपमितेः करणमुपमानमित्यर्थः। कुठारादिवारणाय मितीति। प्रत्यक्षादिवारणाय उपेति।

संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः।

न्यायबोधिनी

उपमितिं लक्षयति– संज्ञासंज्ञीति। संज्ञा नाम पदम्। संज्ञी=अर्थः। तयोः सम्बन्धः=शक्तिः। तथा च पदपदार्थसम्बन्धज्ञानमुपमितिरित्यर्थः।

पदकृत्यम्

संज्ञासंज्ञीति। अनुमित्यादिवारणाय सम्बन्धेति। संयोगादिवारणाय संज्ञासंज्ञीति।

तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः ।

न्यायबोधिनी

उपमानं नाम अतिदेशवाक्यार्थज्ञानम्। अतिदेशवाक्यार्थस्मरणं व्यापारः। उपमितिः फलम्। 'गोसदृशो गवयपदवाच्य' इत्याकारकवाक्याद् गोसादृश्यावच्छिन्नविशेष्यकं गवयपदवाच्यत्वप्रकारकं यज्ज्ञानं जायते तदेव करणम्।

इति न्यायबोधिन्यामुपमानपरिच्छेदः॥

तथाहि कश्चिद् गवयपदार्थमजानन् कुतश्चिदारण्यकपुरुषाद् गोसदृशो गवय इति श्रुत्वा वनं गतो गोसदृशपिण्डं पश्यन् वाक्यार्थं स्मरति, तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते।

पदकृत्यम्

असौ गवयपदवाच्य इति। अभिप्रेतो गवयो गवयपदवाच्य इत्यर्थः। तेन गवयान्तरे शक्तिग्रहाभावप्रसंग इति दूषणमपास्तम्। तथा च गोसादृश्यविशिष्टपिण्डज्ञानं करणम्। अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः। उपमितिः फलमिति सारम्।

तच्चोपमानं त्रिविधं– सादृश्यविशिष्टपिण्डज्ञानम्, असाधारणधर्मविशिष्टपिण्डज्ञानं, वैधर्म्यविशिष्टपिण्डज्ञानञ्च। तत्राद्यमुक्तमेव। द्वितीयं यथा 'खड्गमृगः कीदृग्' इति पृष्टे 'नासिकालसदेकशृङ्गोऽनतिक्रान्तगजाकृतिश्च' इति तज्ज्ञातृभ्यः श्रुत्वा कालान्तरे तादृशं पिण्डं पश्यन्नतिदेशवाक्यार्थं स्मरति, तदनन्तरं खड्गमृगः खड्गमृगपदवाच्य इत्युपमितिरुत्पद्यते। अत्र नासिकालसदेकशृङ्ग एवासाधारणधर्मः। तृतीयं यथा– 'उष्ट्रः कीदृग्' इति पृष्टे 'अश्वादिवदसमानपृष्ठो न ह्रस्वग्रीवशरीरश्च' इति आप्तोक्ते कालान्तरे तत्पिण्डदर्शनाद्वैधर्म्यविशिष्टपिण्डज्ञानं, ततोऽतिदेशवाक्यार्थस्मरणं, तत 'उष्ट्र उष्ट्रपदवाच्य' इत्युपमितिरुत्पद्यते।

इति पदकृत्यके उपमानपरिच्छेदः॥