सामग्रीं त्यजन्तु

तर्कसङ्ग्रहः — उद्देशप्रकरणम्

निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्।
बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥

दीपिका

विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम्।
टीकां शिशुहितां कुर्वे तर्कसङ्ग्रहदीपिकाम्॥

चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकमिष्टदेवतानमस्कारलक्षणं मङ्गलं शिष्यशिक्षार्थं निबध्नंश्चिकीर्षितं ग्रन्थादौ प्रतिजानीते– निधायेति।

ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति; मङ्गले कृतेऽपि किरणावल्यादौ समाप्त्यदर्शनात्, मङ्गलाभावेऽपि कादम्बर्यादौ समाप्तिदर्शनादन्वयव्यतिरेकव्यभिचारादिति चेत्– न, किरणावल्यादौ विघ्नबाहुल्यात्समाप्त्यभावः। कादम्बर्यादौ तु ग्रन्थाद् बहिरेव मङ्गलं कृतमतो न व्यभिचारः। ननु मङ्गलस्य कर्तव्यत्वे किं प्रमाणमिति चेत्– न, शिष्टाचारानुमितश्रुतेरेव प्रमाणत्वात्। तथाहि– मङ्गलं वेदबोधितकर्तव्यताकम्, अलौकिकाविगीतशिष्टाचारविषयत्वाद्, दर्शादिवत्। भोजनादौ व्यभिचारवारणाय अलौकिकेति। रात्रिश्राद्धादौ व्यभिचारवारणाय अविगीतेति। शिष्टपदं स्पष्टार्थम्। न कुर्यान्निष्फलं कर्म इति जलताडनादेरपि निषिद्धत्वादिति।

तर्कसङ्ग्रह इति। तर्क्यन्ते=प्रतिपाद्यन्त इति तर्काः=द्रव्यादिसप्तपदार्थाः, तेषां संग्रहः=संक्षेपेण स्वरूपकथनं क्रियत इत्यर्थः। कस्मै प्रयोजनायेत्यत आह– सुखबोधायेति। सुखेनानायासेन बोधः=पदार्थज्ञानं तस्मा इत्यर्थः।

ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थमपूर्वग्रन्थः क्रियत इत्यत आह– बालानामिति। तेषामतिविस्तृतत्वाद् बालानां बोधो न भवतीत्यर्थः। ग्रहणधारणपटुर्बालः; न तु स्तनन्धयः। किं कृत्वा क्रियत इत्यत आह–

निधायेति। विश्वेशं जगन्नियन्तारं शिवं हृदि निधाय नितरां स्थापयित्वा, सर्वदा तद्ध्यानपरो भूत्वेत्यर्थः। गुरूणां विद्यागुरूणां वन्दनं नमस्कारं विधाय कृत्वेत्यर्थः।

न्यायबोधिनी

अखिलागमसञ्चारि श्रीकृष्णाख्यं परं महः।
ध्यात्वा गोवर्धनसुधीस्तनुते न्यायबोधिनीम्॥

चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमिष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति– निधायेति।

पदकृत्यम्

श्रीगणेशं नमस्कृत्य पार्वतीशङ्करं परम्।
मया चन्द्रजसिंहेन क्रियते पदकृत्यकम्॥१॥
यस्मादिदमहं मन्ये बालानामुपकारकम्।
तस्माद्धितकरं वाक्यं वक्तव्यं विदुषा सदा॥२॥

विश्वेशं=जगत्कर्तारं श्रीसाम्बमूर्तिं हृदि=मनसि, निधाय=नितरां धारयित्वा, गुरुवन्दनं च विधाय=कृत्वेत्यर्थः। बालेति। अत्राऽधीतव्याकरणकाव्यकोशोऽनधीतन्यायशास्त्रो बालः। व्यासादावतिव्याप्तिवारणाय अनधीतन्यायेति। स्तनन्धयेऽतिप्रसक्तिवारणाय अधीतव्याकरणेति। सुखेति। सुखेन=अनायासेन, बोधाय=पदार्थतत्त्वज्ञानायेत्यर्थः। तर्क्यन्ते=प्रमितिविषयीक्रियन्त इति तर्काः=द्रव्यादिसप्तपदार्थास्तेषां संग्रहः=संक्षेपेणोद्देशलक्षणपरीक्षा यस्मिन् स ग्रन्थः। नाममात्रेण वस्तुसंकीर्तनमुद्देशः, यथा द्रव्यं गुणा इति। असाधारणधर्मो लक्षणम्, यथा 'गन्धवत्त्वं पृथिव्याः'। लक्षितस्य लक्षणं सम्भवति न वेति विचारः परीक्षा। अत्रोद्देशस्य पक्षज्ञानं फलम्, लक्षणस्येतरभेदज्ञानं, परीक्षाया लक्षणे दोषपरिहारः, इति मन्तव्यम्।