मुखपृष्ठम् · ⬆ वेदान्तसङ्ग्रहः · ← · →
वेदान्तसङ्ग्रहः — ८. साधननिरूपणम्¶
"दशमोऽहम् अस्मि" इति दशम-आपरोक्ष्यं, "दशमः त्वम् असि" इति आप्तवाक्यार्थ-ज्ञानाधीनं यथा, तथा "ब्रह्माहम् अस्मि" इति आत्मापरोक्ष्यं, "तत् त्वम् असि" इति महावाक्यार्थ-ज्ञानाधीनम्। अनेन च आत्मापरोक्ष्येण, "नास्ति ब्रह्म", "न अहं ब्रह्म" इति द्विविधम् अज्ञानं नश्यति । एतदज्ञानपूर्वक एव "मनुष्योऽहं, स्थूलोऽहं काणोऽहं, रुग्णोऽहं सुखी अहं, दुःखी अहम्" इत्यादि सर्वसंसारः। आत्मानात्म-तादात्म्य-अध्यास-मूलकत्वात् दर्शित-संसारस्य तदध्यासस्य च अज्ञानकार्यत्वात् ॥१॥
तस्मात् ज्ञानादेव संसारनिवृत्तिः । "नान्यः पन्था विद्यते अयनाय" इति श्रुतिश्च अत्र मानम् । अधिष्ठानभूत-रज्जुज्ञानात् आरोप्य-सर्प-निवृत्तिः अत्र निदर्शनम्। देहेन्द्रियादि-प्रपञ्चस्य च आत्मनि अध्यस्तत्वात् तदधिष्ठानभूत-ब्रह्मात्मज्ञानात् आरोपित-तन्निवृत्तिः भवति। न तु अन्यथा ॥२॥
न च कर्मणा मुक्तिः, "नास्ति अकृतः कृतेन" इति श्रुतेः, ब्राह्मणत्वादि-अध्यास-पूर्वकत्वात् च यज्ञादि कर्मणाम्। परन्तु कर्मणां सात्त्विकानां चित्तशुद्धौ विनियोगः । अनभिसंहित-फलत्वं कर्मणां सात्त्विकत्वम् । तानि कर्माणि त्रिविधानि मानसिक-वाचिक-कायिकभेदात् । मानसिकानि द्विविधानि सगुण-निर्गुणभेदात्। "ॐ" इति उपासनं, "अहं ब्रह्मास्मि" इति उपासनं च निर्गुणम् । शङ्खचक्रादिधारि-श्रीनारायणमूर्त्यादि-उपासनं सगुणम् । नियमेन रामकृष्णादि-शब्दोच्चारणं वाचिकम् । स्नान-दान-तर्पण-होमादिक-कर्म कायिकम् । तत्र कायिकापेक्षया वाचिकं, तदुभयापेक्षया मानसिकं च मुख्यं, ज्ञानं प्रति मानसिकस्य सन्निहितत्वात् । तत्रापि सगुणापेक्षया निर्गुणं मुख्यं, ज्ञानस्य अतीव-सन्निहितत्वात्। निर्गुण-उपासनया ब्रह्मात्मैक्यज्ञानं, ततो मुक्तिः इति सिद्धान्तात् ॥३॥
प्रतिबन्धादिना निर्गुणोपासनस्य इहजन्मनि अपक्वत्वे तु जन्मान्तरे तु, ब्रह्मलोके वा तत्पक्वत्वं भवति । पक्वत्वं च तस्य ज्ञान-जनकत्वम् । ब्रह्मलोकमेव सगुणमुक्ति-क्षेत्रम् आहुः । यत्र हिरण्यगर्भ-शङ्कर-नारायणाख्य-त्रिमूर्ति-परिपालितं लोकत्रयम् अस्ति, तत्र गतः न पुनरावर्तते । अर्चिरादिमार्गः तत्प्रापकः। "अग्निज्योतिरहः शुक्लः षण्मासाः उत्तरायणम्" इत्यादि-शास्त्र-प्रतिपादित-अग्न्यादि-अभिमान-देवताः अत्र आतिवाहिकाः। सगुणब्रह्म-उपासकाः अपि ब्रह्मलोकं गच्छन्त्येव । अनयोः अयं विशेषः। निर्गुणोपासकाः उपासनस्य अपक्वत्वे एव ब्रह्मलोकं यान्ति । पक्वत्वे तु साक्षात् मोक्षमेव । सगुणोपासकास्तु अवश्यं ब्रह्मलोकं यान्ति इति यदि तु सगुणोपासकाः अपि इहैव जन्मनि निर्गुणोपासनद्वारा महावाक्य-उपदेशद्वारा वा ज्ञानं लभेरन् तर्हि साक्षात् मोक्षमेव यान्ति । कायिक-वाचिक-कर्मवशात् तु इह जन्मनि जन्मान्तरे वा चित्तशुद्धिः एव फलम् । चित्ते शुद्धे सति ततः सगुणब्रह्म-उपासनादिषु क्षमते पुरुषः ॥४॥
अथ ये तु फलाभिसन्धिपूर्वकं यज्ञादि-कर्माणि कुर्वन्ति, ते कर्मजडाः स्वकर्मानुसारेण धूमादि-मार्गद्वारा चन्द्रलोकादीन् गत्वा, तत्र भोगान् भुक्त्वा सुकृतक्षयवशात् पुनः आवर्तन्ते, "क्षीणे पुण्ये मर्त्यलोकं विशन्ति" इति गीतावचनात् । धूमादिमार्गे च "धूमो रात्रिः तथा कृष्णः षण्मासा दक्षिणायनम्" इत्यादि-शास्त्रात् । धूमादि-अभिमानि-लोकाः क्रमात् विद्यन्ते । अथ ये पुनः कलञ्ज-भक्षणादि-निषिद्ध-कर्मकराः ज्ञानं विनापि विहित-सन्ध्यादि-कर्मत्यागिनः ते नास्तिकाः पापिनः अधोमार्गेण यमपुरीं गत्वा वैतरण्यादि-महायातनाः अनुभवन्ति; एषां प्रागुक्त-कर्मजडानां च अवर्जनीयः जन्ममरणादि-लक्षणः संसारः ॥५॥
॥इति साधननिरूपणम् ॥