सामग्रीं त्यजन्तु

तत्त्वबोधः

वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् ।
मुमुक्षूणां हितार्थाय तत्त्वबोधोऽभिधीयते ॥

अधिकारिप्रकरणम्

साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं तत्त्वविवेकप्रकारं वक्ष्यामः॥
साधनचतुष्टयं किम् ? नित्यानित्यवस्तुविवेकः । इहामुत्रार्थफलभोगविरागः । शमादिषट्कसम्पत्तिः । मुमुक्षुत्वं चेति॥

नित्यानित्यवस्तुविवेकः कः ? नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् । अयमेव नित्यानित्यवस्तुविवेकः ॥

विरागः कः ? इहस्वर्गभोगेष्विच्छाराहित्यम् ॥

शमादिसाधनसम्पत्तिः का ? शमो दम उपरतिस्तितिक्षा श्रद्धा समाधानं चेति ॥

शमः कः ? मनोनिग्रहः ॥

दमः कः ? चक्षुरादिबाह्येन्द्रियनिग्रहः ॥

उपरमः कः ? स्वधर्मानुष्ठानमेव ॥

तितिक्षा का ? शीतोष्णसुखदुःखादिसहिष्णुत्वम् ॥

श्रद्धा कीदृशी ? गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा ॥

समाधानं किम् ? चित्तैकाग्रता ॥

मुमुक्षुत्वं किम् ? मोक्षो मे भूयादितीच्छा ॥

एतत् साधनचतुष्टयम् । ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति ॥

व्यष्टिप्रकरणम्

तत्त्वविवेकः कः ? आत्मा सत्यं तदन्यत्सर्वं मिथ्येति ॥ आत्मा कः ? स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः सन्नवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन् यस्तिष्ठति स आत्मा ॥

स्थूलशरीरं किम् ? पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगायतनं शरीरम् अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति षड्विकारवदेतत् स्थूलशरीरम् ॥

सूक्ष्मशरीरं किम् ? अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यम् सुखदुःखादिभोगसाधनं पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः मनश्चैकं बुद्धिश्चैका एवं सप्तदशकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् ॥ श्रोत्रं त्वक् चक्षुः रसना घ्राणमिति पञ्चज्ञानेन्द्रियाणि । श्रोत्रस्य दिग्देवता । त्वचो वायुः । चक्षुषः सूर्यः । रसनाया वरुणः । घ्राणस्य अश्विनौ। इति ज्ञानेन्द्रियदेवताः । श्रोत्रस्य विषयः शब्दग्रहणम् । त्वचो विषयः स्पर्शग्रहणम् । चक्षुषो विषयः रूपग्रहणम् । रसनाया विषयः रसग्रहणम्। घ्राणस्य विषयः गन्धग्रहणम् इति ॥ वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि । वाचो देवता वह्निः। हस्तयोरिन्द्रः । पादयोर्विष्णुः । पायोर्मृत्युः । उपस्थस्य प्रजापतिः । इति कर्मेन्द्रियदेवताः । वाचो विषयो भाषणम् । पाण्योर्विषयो वस्तुग्रहणम् । पादयोर्विषयो गमनम् । पायोर्विषयो मलत्यागः । उपस्थस्य विषय आनन्द इति ॥

कारणशरीरं किम् ? अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं सत्स्वरूपाज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् ॥

अवस्थात्रयं किम् ? जाग्रत्स्वप्नसुषुप्त्यवस्थाः ॥

जाग्रदवस्था का ? श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायत इति या सा जाग्रदवस्था । स्थूलशरीराभिमान्यात्मा विश्व इत्युच्यते ॥

स्वप्नावस्था केति चेद् जाग्रदवस्थायां यद्दृष्टं यच्छ्रुतं तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा स्वप्नावस्था । सूक्ष्मशरीराभिमान्यात्मा तैजस इत्युच्यते ॥

अथ सुषुप्त्यवस्था का ? अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति सुषुप्त्यवस्था । कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ॥

पञ्चकोशाः के ? अन्नमयः प्राणमयो मनोमयो विज्ञानमय आनन्दमयश्चेति॥

अन्नमयः कः ? अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्यान्नरूपपृथिव्यां यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् ॥

प्राणमयः कः ? प्राणाद्याः पञ्चवायवो वागादीन्द्रियपञ्चकं प्राणमयः कोशः॥

मनोमयः कोशः कः ? मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः॥

विज्ञानमयः कः ? बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः॥

आनन्दमयः कः ? एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं प्रियादिवृत्तिसहितं सदानन्दमयः कोशः। एतत् कोशपञ्चकम् ॥

मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिर्मदीयम् अज्ञानमिति स्वेनैव ज्ञायते तद्यथा मदीयत्वेन ज्ञातं कटककुण्डलगृहादिकं स्वस्माद्भिन्नं तथा पञ्चकोशादिकं स्वस्माद्भिन्नं मदीयत्वेन ज्ञातमात्मा न भवति ॥

आत्मा तर्हि कः ? सच्चिदानन्दस्वरूपः ॥

सत् किम् ? कालत्रयेऽपि तिष्ठतीति सत् ॥

चित् किम् ? ज्ञानस्वरूपः ॥

आनन्दः कः ? सुखस्वरूपः । एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् ॥

समष्टिप्रकरणम्

अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः ॥

ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति ॥

तत आकाशः संभूतः। आकाशाद् वायुः। वायोस्तेजः। तेजस आपः। अद्भ्यः पृथिवी ॥

एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य सात्त्विकांशात् श्रोत्रेन्द्रियं संभूतम् । वायोः सात्त्विकांशात् त्वगिन्द्रियं संभूतम्। अग्नेः सात्त्विकांशात् चक्षुरिन्द्रियं संभूतम्। जलस्य सात्त्विकांशात् रसनेन्द्रियं संभूतम्। पृथिव्याः सात्त्विकांशात् घ्राणेन्द्रियं संभूतम् ॥

एतेषां पञ्चतत्त्वानां समष्टिसात्त्विकांशात् मनोबुद्ध्यहङ्कारचित्तान्तःकरणानि संभूतानि। संकल्पविकल्पात्मकं मनः। निश्चयात्मिका बुद्धिः। अहङ्कर्ता अहङ्कारः। चिन्तनकर्तृ चित्तम्॥

मनसो देवता चन्द्रमाः। बुद्धेः ब्रह्मा। अहङ्कारस्य रुद्रः। चित्तस्य वासुदेवः॥

एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य राजसांशात् वागिन्द्रियं संभूतम्। वायोः राजसांशात् पाणीन्द्रियं संभूतम्। वह्नेः राजसांशात् पादेन्द्रियं संभूतम्। जलस्य राजसांशात् उपस्थेन्द्रियं संभूतम्। पृथिव्या राजसांशात् गुदेन्द्रियं संभूतम्। एतेषां समष्टिराजसांशात् पञ्चप्राणाः संभूताः ॥

एतेषां पञ्चतत्त्वानां तामसांशात् पञ्चीकृतपञ्चतत्त्वानि भवन्ति। पञ्चीकरणं कथम् इति चेत् । एतेषां पञ्चमहाभूतानां तामसांशस्वरूपम् एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक् तूष्णीं व्यवस्थाप्यापरमपरमर्धं चतुर्धा विभज्य स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम्। तदा पञ्चीकरणं भवति। एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति ॥

जीवब्रह्मैक्यप्रकरणम्

एवं पिण्डब्रह्माण्डयोरैक्यं संभूतम् ॥

स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिम्बं भवति । स एव जीवः प्रकृत्या स्वस्मादीश्वरं भिन्नत्वेन जानाति । अविद्योपाधिः सन्नात्मा जीवः इत्युच्यते । मायोपाधिः सन् ईश्वर इत्युच्यते । एवमुपाधिभेदाद् जीवेश्वरभेददृष्टिः यावत् पर्यन्तं तिष्ठति तावत् पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते । तस्मात्कारणाद् न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या ॥

ननु साहङ्कारस्य किञ्चिज्ज्ञस्य जीवस्य निरहङ्कारस्य सर्वज्ञस्येश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः विरुद्धधर्माक्रान्तत्वात्॥

इति चेन्न । स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः । उपाधिविनिर्मुक्तं समाधिदशासंपन्नं शुद्धं चैतन्यं त्वंपदलक्ष्यार्थः । एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः । उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः । एवं च जीवेश्वरयोः चैतन्यरूपेणाभेदे बाधकाभावः ॥

एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि भूतेषु येषां ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः ॥

जीवन्मुक्तप्रकरणम्

ननु जीवन्मुक्तः कः ? यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहम् अस्मीति दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्त्वसङ्गः सच्चिदानन्दस्वरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चयरूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥

ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः स्यात् ॥

कर्माणि कतिविधानि सन्तीति चेदागामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति॥

ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म यदस्ति तद् आगामि इत्यभिधीयते ॥

सञ्चितं कर्म किम् ? अनन्तकोटिजन्मनां बीजभूतं सद् यत्कर्मजातं पूर्वार्जितं तिष्ठति तत् सञ्चितं ज्ञेयम् ॥

प्रारब्धं कर्म किमिति चेत् । इदं शरीरमुत्पाद्य इह लोके एव सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धं भोगेन नष्टं भवति प्रारब्धकर्मणां भोगाद् एव क्षय इति ॥

सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति ॥

आगामि कर्मापि ज्ञानेन नश्यति किञ्च आगामिकर्मणां नलिनीदलगतजलवद् ज्ञानिनां सम्बन्धो नास्ति ॥

किञ्च ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति ज्ञानिकृतमागामि पुण्यं गच्छति॥ ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म पापात्मकं तद्गच्छति । सुहृदः पुण्यकृत्यं दुर्हृदः पापकृत्यं गृह्णन्ति ॥

तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति । तरति शोकमात्मवित् इति श्रुतेः । तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा । ज्ञानसंप्राप्तिसमये मुक्तोऽसौ विगताशयः । इति स्मृतेश्च ॥

॥ इति तत्त्वबोधः ॥