मुखपृष्ठम् · ⬆ वेदान्तसङ्ग्रहः · ← · →
वेदान्तसङ्ग्रहः — १०. ज्ञाननिरूपणम्¶
ज्ञानं द्विविधम् – नित्यज्ञानं, वृत्तिज्ञानं च इति । वृत्तिज्ञानमेव जन्य-ज्ञानम् आहुः । नैयायिकास्तु वृत्ति-ज्ञानातिरिक्तं ज्ञानम् अविद्वांसः, वृत्तिमेव ज्ञानम् आहुः। आत्मानं तु ज्ञानवद्-द्रव्यमाहुः । तदयुक्तं, तन्मते अविद्यावृत्ति-अनङ्गीकारात् । सुषुप्तौ अन्तःकरणस्य लयेन अन्तःकरणवृत्त्यभावात् सुषुप्तिः असाक्षिका स्यात्। वृत्त्यभावदशायाम् आत्मनः पृथिव्यादिवत् द्रव्यत्वेन जडत्वात् जडस्य च घटादेः असाक्षित्व-दर्शनात् । असाक्षिक-पदार्थ-अङ्गीकारस्य अयुक्तत्वात् असाक्षिका इयं सुषुप्तिः असम्भविनी एव स्यात् । तच्च महानिष्टम् । सुषुप्तेः सर्वानुभव-सिद्धायाः अपलपितुम् अशक्यत्वात् । अतः नित्यज्ञानमेव आत्मा ॥१॥
वृत्तिः द्विविधा – अविद्यावृत्तिः, अन्तःकरणवृत्तिश्च इति । रज्जु-सर्पादयः स्वप्न-रथादयः सौषुप्तिक-सुख-अज्ञाने च अविद्यावृत्ति-विषयाः। घटादयस्तु अन्तःकरणवृत्ति-विषयाः इति विवेकः । अन्तःकरण-वृत्तिश्च आन्तर-सुखादि-विषया तन्निरपेक्षा च इति । इदं वृत्तिज्ञानं विषय-भेदात् बहुविधम् – घट-ज्ञानं पट-ज्ञानं कुड्य-ज्ञानं कुसूल-ज्ञानम् इत्यादि । वृत्तेः जडायाः अपि चैतन्य-प्रतिफलनवशात् ज्ञानत्वम् औपचारिकम् । नित्य-ज्ञानं तु एकमेव । तदविरोधि-अज्ञानस्य आत्मन्येव कल्पितत्वात् । न हि कल्पित-सर्पस्य रज्जुः विरोधिनी । अधिष्ठान-विषयं वृत्तिज्ञानं तु कल्पित-विरोधी, कल्पित-सर्पस्य अधिष्ठान-रज्जु-ज्ञानं विरोधी हि, रज्जु-ज्ञाने सर्प-बुद्धेः नाश-अनुभवात् ॥२॥
अदाहकोऽपि सूर्यालोको यथा दर्पण-विशेषे सङ्क्रान्तः सन् दाहकः भवति, तथा अज्ञान-अनाशकोऽपि आत्मा वृत्तिप्रतिफलितः सन् अज्ञान-नाशकः भवत्येव। वृत्तेः अज्ञान-नाशकत्वं च घटादिषु प्रत्यक्षम्। तथा हि वृत्ति-उदयात् पूर्वं "न मया घटो ज्ञातः" इति, घट-अज्ञान-अनुभवः सार्वजनीनः। न च घटज्ञानाभाव एव अयम् इति निस्तारः । तथा सति "घटज्ञानं मे नास्ति" इत्येव अनुभवस्य ज्ञातुम् अर्हत्वात्। वृत्त्युदयानन्तरं तु "मया घटो ज्ञातः" इति अनुभवः। अयम् अनुभवः घट-अज्ञानस्य नाशं विना न उदीयात् इति वृत्तिज्ञान-नाश्यत्वम् अज्ञानस्य सुस्थम् । या वृत्तिः यद्विषया तद्विषय-आवरक-अज्ञानं तद्-वृत्ति-नाश्यम् । घट-विषयायाः घटाकार-वृत्तेः घट-आवरक-अज्ञान-नाशकत्व-दर्शनात् ॥३॥
प्रकृते च महावाक्यार्थ-विचारात् ब्रह्माकारा वृत्तिः उदेति । तया च वृत्त्या ब्रह्म-आवरकम् अज्ञानं नश्यति यदज्ञानवशात् अस्माकं "न अहं ब्रह्म" इति, "ब्रह्म न जानामि" इति च अनुभवः । नष्टे च तदज्ञाने ब्रह्मसाक्षात्कारः भवति। अप्रमेयत्वेऽपि ब्रह्मणः सर्वेषां वेदान्त-वाक्यानां ब्रह्माकारवृत्तिजनने विनियोगः ॥४॥
॥इति ज्ञाननिरूपणम् ॥