वेदान्तसङ्ग्रहः — १५. अद्वैतसिद्धिनिरूपणम्¶
दृश्यं द्विविधम् – जीवसृष्टम् ईश्वरसृष्टं च इति । उपलभ्यमानं घटपटादि जगत् ईश्वरसृष्टम् । "अहम् इदम्", "मम इदम्" इति शरीरादिगत-अहन्ता-ममता-रूप-अंशद्वयं भोग्यत्वरूपं जीवसृष्टम्। तत्र ईश्वरसृष्टं द्वैतं न बन्धहेतुः । सत्यपि तस्मिन् अहं-मम-अध्यास-अभावेन सुषुप्तौ बन्ध-अदर्शनात् । जाग्रत्यपि विक्रयात् पूर्वमिव विक्रयानन्तरं पश्वादीनां बन्धकत्व-अदर्शनात् ॥१॥
इदञ्च जीवसृष्टं द्वैतं, "न अहम् इदम्", "न मम इदम्" इति ज्ञानात् निवर्तते, न तु अन्यथा । दर्शित-ज्ञानं विना दर्शित-अध्यास-विरोधिनोऽन्यस्य अभावात्। अत एव उक्तं, "ज्ञानादेव तु कैवल्यम्" इति । ननु – "न अहम्" इति "न मम इदम्" इति ज्ञानात् जीवसृष्ट-द्वैत-निवृत्तावपि न ईश्वरसृष्टं द्वैतं निवर्तते । सुषुप्ति-मृति-मूर्च्छादिषु द्वैत-उपलम्भ-अभावेऽपि द्वैतसत्त्वात् । न हि निद्राणे पुरुषे तद्देहादिकं नश्यति। सति च एवम् ईश्वर-सृष्ट-द्वैते कथम् अद्वैतत्वं ब्रह्मणः? – इति चेत् ॥२॥
उच्यते – द्वैतमिदं व्यावहारिकमेव, न तु पारमार्थिकम् इत्युक्तं प्राक्। यथा व्यावहारिको घटादिः व्यावहारिकेण घटादिना सद्वितीयः, न तु प्रातिभासिकेन मरीचिकोदकरज्जुसर्पादिना । तथा पारमार्थिकं वस्तु पारमार्थिकेनैव सद्वितीयं भवितुम् अर्हति, न तु व्यावहारिकेण, नापि प्रातिभासिकेन । न हि गगनं गन्धर्वनगरेण साकारं भवति । पारमार्थिकञ्च वस्त्वन्तरं नास्त्येव इति सिद्धम् अद्वैतत्वं ब्रह्मणः। किञ्च यत्र यद्-अध्यस्तं स तत्कृतेन गुणेन दोषेण वा अणुमात्रेणापि न लिप्यते । न हि गगने अध्यस्तेन नीलिम्ना गगनं लिप्यते । रज्जौ अध्यस्त-सर्पगतेन विषवत्त्व-दोषेण रज्जुः न हि लिप्यते । तद्वद् ब्रह्मणि अध्यस्त-द्वैत-गुण-दोषाभ्यां ब्रह्मणो न लेपः इति न ब्रह्मणो जगता मायया वा सद्वितीयत्वम् । मायायाः अपि ब्रह्मणि अध्यस्तत्वात् ॥३॥
द्वैतं भेदः । स त्रिविधः – सजातीयः विजातीयः स्वगतश्च इति । वृक्षस्य वृक्षान्तरात् सजातीयः, घटाद्-विजातीयः, पत्र-पुष्पादिना स्वगतः । त्रिविधोऽपि अयं भेदः नास्ति ब्रह्मणः, चैतन्यस्य एकत्वेन सजातीयाभावात्। विजातीयस्य जगतो मिथ्यात्वात् । निरवयवत्वेन पूर्णत्वेन सदेकरूपत्वात् स्वगत-भेदाभावाच्च सिद्धम् अद्वैतत्वं ब्रह्मणः । न च "चेतनात् ईश्वरात् जीवाद्वा सजातीयभेदोऽस्ति" इति वाच्यम् । जीवेश्वरयोः चैतन्यैक-रूपत्वेन ब्रह्म-अनन्यत्वात् । निर्धर्मक-परमानन्द-बोध-स्वरूपौ हि जीवेश्वरौ। अन्तःकरणावच्छिन्नत्व-मायावच्छिन्नत्वे तु जीवेश्वरयोः कल्पितरूपे एव, व्यावहारिकत्वात् तयोः । न हि परमार्थतः उपाधिरस्ति, ब्रह्मणोऽन्यस्य सर्वस्यापि परमार्थतः अभावात् । व्यवहारतः ब्रह्मणः सद्वैतत्व-ज्ञानं तु भ्रान्तमेव, न तु प्रमा इति स्पष्टमेव । व्यवहारस्यैव भ्रान्ति-सिद्धत्वात् ॥४॥
भ्रान्तिर्नाम अध्यासः । स च दर्शित एव। तस्मात् कालत्रयेऽपि यथा रज्जुः रज्जुरेव, मरुः मरुरेव, गगनं गगनमेव, तथा अद्वैतं ब्रह्म अद्वैतमेव । कालत्रयं च अत्र अध्यस्त-सृष्टि-स्थिति-लयात्मकम् इति ज्ञेयम् । अत एव श्रीमत्-शङ्कर-भगवत्पाद-आचार्यैः गीताभाष्ये "सत्सदेव, असद्-असदेव, न हि सद्-असद्-भवति, नापि असत् सद्-भवति" इति उक्तम् । कालश्च अविद्यायाः शक्ति-विशेष एव न तु द्रव्यान्तरम् । कलनात्मिका शक्तिः कालः इति सिद्धान्तितत्वात् ॥५॥
अविद्यायाः एव परमार्थतोऽभावे का गतिः पुनः तच्छक्ति-विशेषस्य कालस्य? अविद्या माया शक्तिः इत्यादयः पर्यायशब्दाः। शुद्धसत्त्वप्रधाना माया, मलिनसत्त्वप्रधाना अविद्या इति केचित् अवान्तर-भेदमाहुः । स च भेदः वैपक्षिकः एव । तदेवम् अविद्या-कालादि-सर्वद्वैतस्य परमार्थतः असत्त्वात् व्यावहारिकद्वैतस्य परमार्थ-ब्रह्म-भेद-जनन-अशक्तत्वात् अद्वैतं ब्रह्म ॥६॥
अत एव ब्रह्मविदाम् अभयप्राप्तिः श्रूयते "अभयं वै जनक प्राप्तोऽसि" इति, "द्वितीयाद्वै भयं भवति" इति श्रुत्या द्वैत-ज्ञानस्य भय-हेतुत्वं प्रतिपादितम् । अतः तत् त्याज्यमेव । अद्वैत-ज्ञानमेव सम्पाद्यम् अभय-आकाङ्क्षिभिः इति सर्वम् अवदातम् ॥७॥
॥इति अद्वैतसिद्धि-निरूपणम् ॥
॥इति वेदान्तसङ्ग्रहः ॥