नव्यन्यायभाषाप्रदीपः — अध्यायः 1¶
धर्मः ध्रियते तिष्ठति वर्तते यः स धर्मः। ↗ आकाशादिकं विना सर्व एवं पदार्थाः यत्र कुत्रचिदपि वर्तन्त इति सर्व एव धर्मा इत्युच्यन्ते। यत्र यः वर्तते स तस्य धर्मः। यथा द्रव्ये जातिगुणकर्माणि तिष्ठन्तीति जातिगुणकर्माणि द्रव्यस्य धर्माः। सूत्रादौ अवयवे पटादि अवयविद्रव्यं तिष्ठति इति द्रव्यम् अपि पटादि सूत्रादेः धर्मः। पात्रे जलं वर्तते इति पात्रस्य धर्मः जलम्। आकाशादिकं तु न कुत्र अपि वर्तते इति आकाश न कस्य अपि धर्मः। अत एव आकाशम् अवृत्तिपदार्थ इति उच्चते ॥१॥
चित्रम्
block-beta
columns 8
t1["धर्मः"] space:2 t2["जातिः"] space t3["गुण"] space t4["कर्म"]
space:8
b1["धर्मी"] space:4 b2["द्रव्यम्"] space:2
t2 --- b2
t3 --- b2
t4 --- b2
t1 -.- b1
style t1 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
style t2 fill:#f4f9ff,stroke:#b1d1f0,stroke-width:2px
style t3 fill:#f4f9ff,stroke:#b1d1f0,stroke-width:2px
style t4 fill:#f4f9ff,stroke:#b1d1f0,stroke-width:2px
space:8
space:8
t11["<span>आधेयः<br><small><i>(धर्मः)</i></small></span>"] space:2 t21["पटः"] space:2 t31["जलम्"] space
space:8
b11["<span>आधारः<br><small><i>(धर्मी)</i></small></span>"] space:2 b21["सूत्रम्"] space:2 b31["पात्रम्"] space
t21 --- b21
t31 --- b31
t11 -.- b11
style t11 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
style t21 fill:#f4f9ff,stroke:#b1d1f0,stroke-width:2px
style t31 fill:#f4f9ff,stroke:#b1d1f0,stroke-width:2px
धर्मश्च प्रथमतः द्विविधः जातिरुपाधिश्चेति । येन परस्परं विभिन्नरूपाणामपि एकजातीयद्रव्याणामेकश्रेण्यान्तर्भावो भवति, स धर्मो जातिः। ↗ यथा विभिन्नदेशीया मनुष्या विभिन्नाकाररूपस्वभावा अपि एकया मनुष्यत्वजात्या एकश्रेण्यामन्तर्भाविताः। जातिश्च सामान्यं नाम कणादोक्तश्चतुर्थः पदार्थः ॥२॥
उपाधिरपि पुनः सखण्डोपाधिरखण्डोपाधिश्चेति द्विविधः। खण्डेन (अंशेन) सह वर्तते इति सखण्डः। यश्च अंशतो विभक्तुं शक्यते स सखण्डोपाधिधर्म इति यावत्। यथा पशुत्वम्। तद्धि लोमवल्लाङ्गूलवत्त्वम्। ततश्च तस्य लोमलाङ्गूलादय अंशः बहवो वर्तन्त इति द्रव्यरूपं पशुत्वं धर्मः सखण्डोपाधिः। एवं रूपवानयम् इत्यत्र गुणात्मकं रूपं धर्मः। स च सखण्डोपाधिः। रूपत्वजात्याश्रयो हि रूपम्। ततश्च रूपस्य रूपत्वजाति आश्रयश्चेति अंशद्वयमस्ति ॥३॥
flowchart LR
D["धर्मः"] --> J["जातिः"]
D --> U["उपाधिः"]
U --> A["अखण्डोपाधिः"]
U --> S["सखण्डोपाधिः"]
A -.- R["<span>रूपवान्<br><small><i>(गुणात्मकम्)</i></small></span>"]
S -.- P["<span>पशुत्वम्<br><small><i>(लोमवल्लाङ्गूलवत्त्वम्)</i></small></span>"]
%%slightly darkerblue
%%style B fill:#dbeafe,stroke:#3b82f6,stroke-width:2px,color:#1e40af
style R fill:#f0f9ff,stroke:#93c5fd,stroke-width:2px,color:#0369a1
style P fill:#f0f9ff,stroke:#93c5fd,stroke-width:2px,color:#0369a1
यस्यांशविशेषो नास्ति मनुष्यत्वद्रव्यत्वादिजातिवत् यस्तु अंशतो विभक्तं शक्यते अंशरहितत्वमेव यस्य स्वरूपमङ्गीक्रियते सः अखण्डोपाधिः । यथा भावत्वम्। तद्धि अभावत्वविरोधी कश्चन धर्म इति। पशुत्वादिवद्भावत्वम् अंशतो विभक्तुं न शक्यते ॥४॥
जातेरपि अंशविभागो नास्ति। किन्तु जातेः समवाय-सम्बन्धेन सत्त्वं नियतम्। अखण्डोपाधेस्तु न तथा। तस्य स्वरूपसम्बन्धेन सत्त्वमिति अनयोः पृथगुल्लेखः ॥५॥
जातेरखण्डोपाधेश्च प्रतीतावनुल्लेखे (शब्देनानुच्चारणे) निरवच्छिन्ना (तयो विशेषण-प्रतीति-रहिता) प्रतीतिः भवति । यथा 'पटो भाव' इति प्रतीतौ पटत्वं जातिः भावत्वम् अखण्डोपाधिश्च पटपदार्थ-भावपदार्थान्तर्भावेनैव प्रतीयेते न तु शब्देन ते उल्लिखिते इति न तयोः प्रतीतावत्र सविशेषणं भानं किन्तु पटत्वांशे भावत्वांशे च विशेषणभानरहितमेव निरवच्छिन्नं भानं जायते। यत्र तु तयोरुल्लेखः तत्र तयोः प्रतीतिरपि सावच्छिन्ना (विशेषण-प्रतीति-सहिता) भवति। यथा 'अस्मिन् द्रव्ये भावत्वं पटत्वं चास्ति' इत्यत्र पटत्वं भावत्वं च स्पष्टत एव शब्देनोल्लिखितमिति तयोरत्र यथाक्रमं पटत्वत्वेन भावत्वत्वेन च सावच्छिन्ना प्रतीतिः । अत एवं ‘अनुल्लिख्यमानजात्यखण्डोपाध्यतिरिक्तपदार्थानां निरवच्छिन्नभानानभ्युपगम' इति ग्रन्थकृद्भिः सिद्धान्तितम् ॥६॥
सम्बन्धः सन्निकर्षः। स च विभिन्नयोर्वस्तुनोः विशेषण-विशेष्य-भावप्रयोजकः। यथा दण्डी पुरूष इति विशेष्य-विशेषणभावप्रयोजकः संयोगसम्बन्धः। दण्ड पुरूषयोरन्तरा संयोगं विना दण्डी पुरुष इति विशेषण-विशेष्य-भाव-प्रतीतिरेव न स्यात् ॥७॥
सम्बन्धश्च द्विविधः। साक्षात्परम्पराभेदात् । सम्बन्धान्तराघटितः सम्बन्धः साक्षात्सम्बन्धः। स च समवाय-संयोग-स्वरूपादिभेदाद् बहुविधः। रूपवान् पुरूषः, पात्रे जलमस्ति, गृहे पटो नास्तीत्यादौ पुरूषे रूपस्य पात्रे जलस्य गृहे च पटाभावस्य यथाक्रमं समवाय-संयोग-स्वरूप-नामानः सम्बन्धाः प्रतीयन्ते ॥८॥
समवायश्च षष्ठपदार्थतया कणादेनोक्तः नित्यः सम्बन्धः। यथारूपवान् ब्राह्मणोऽयं चलति इत्यादौ ब्राह्मणत्वजातेः रूपगुणस्य चलनक्रियायाश्च ब्राह्मणे समवायः सम्बन्धः। यावदाधारं यावदाधेयं वा समवायस्तिष्ठतीति 'समवायो नित्यसम्बन्ध' इत्युच्यते। समवायस्यैव 'अयुतसम्बन्ध' इति नामान्तरम्। संयोगादिकन्तु नैवम्। सतोरपि आधाराधेययोः (दण्डपुरुषयोः) संयोगादेरपायदर्शनात् ॥९॥
संयोगश्च कणादोक्तगुणविशेषः। अभावादेः सम्बन्धः स्वरूपसम्बन्धः। यथा 'भूतले पटो नास्ती' त्यादौ भूतले पटाभावस्य स्वरूपसम्बन्धः प्रतीयते। स्वरूपसम्बन्धस्यैव विशेषणता इति नामान्तरम् ॥१०॥
सम्बन्धान्तरघटितः (यस्य सम्बन्धस्य निर्माणे सम्बन्धान्तरापेक्षा विद्यते तादृशः) सम्बन्धः परम्परा-सम्बन्धः। यथा स्व-समवायि-समवेतत्वरूपेण सामानाधिकरण्यनामकेन परम्परा-सम्बन्धेन पटे तन्तोरपि रूपमस्ति । अयञ्च सम्बन्धः समवायघटितः । एवं दण्डकमण्डलुधारिणि पुरूषे गृहे तिष्ठति सति स्व-संयोगि-संयोगित्वरुपेण स्वाश्रयाश्रयत्वेन परम्परासम्बन्धेन दण्डकमण्डलू अपि गृहे स्त इति । अयञ्च सम्बन्धः संयोगघटितः ॥११॥
समवायादि-साक्षात्सम्बन्धवत् परम्परासम्बन्धो न नियतसङ्ख्यकः नापि च नियतपरिमाणः यथेच्छं सम्बन्धि सम्वन्धादिकमादाय दीर्घ-दीर्घतर-दीर्घतमा असङ्ख्या एव ते कल्पयितुं शक्यन्ते । सर्वतोऽसंसृष्टावपि पदार्थौ परम्परासम्बन्धेन सम्बन्धौ भवतः। तत्र च दूरत्वादि न प्रतिबन्धकम् । तथा हि स्वसम्राडधिकृतराज्यत्वसम्बन्धेन भारतवर्षीयाः सर्व एव आर्या अनार्य्याश्च इड्ग्लण्डे सन्ति । इड्लण्डीयाश्च तत्र स्थिता अपि स्व-राज्येश्वरी-साम्राज्यत्व-सम्बन्धेन भारतवर्षे तिष्ठन्तीति ॥१२॥
परम्परासम्बन्धस्य गूढं रहस्यमिदम् – स्वशब्देन यमभिप्रेत्य यस्य परम्परासम्बन्धस्यारम्भो, यस्मिंश्च पर्यवसानं तत् तेन परम्परासम्बन्धेन तस्मिन् तिष्ठति । यथा पूर्वोक्ते उदाहरणे स्वशब्देन भारतवर्षीयानभिप्रेत्य स्वसम्राडधिकृत-राज्यत्व-सम्बन्धस्यारम्भः, तच्च राज्यत्वम् इङ्ग्लण्डे वर्तत इति तस्य इङ्ग्लण्डे पर्यवसानम्, अतः तेन सम्बन्धेन भारतवर्षीया इड्ग्लण्डे तिष्ठन्ति ॥१३॥
पुनश सम्बन्धो द्विविधः वृत्तिनियामकः वृत्त्यनियामकश्चेति । यस्मिंश्च सम्बन्धे सति एकस्मिन् अपरस्य वृत्तिता, आधाराधेयभावः आश्रयाश्रयिभावो वा प्रतीयते स सम्बन्धः वृत्तिनियामकः । वृत्तिनियामकसम्बन्धस्थले आधारे सप्तमी विभक्तिः प्रयुज्यते। यथा भूतले घटः। आधेये च मतुबादयः प्रत्ययाः भवन्ति । यथा भूतलं घटवत् ॥१४॥
वृत्तिनियामकसम्बन्धाश्च समवाय-संयोग-स्वरूप-प्रभृतय एव केचन । तेषु सम्बन्धेषु सत्सु – पृथिव्यां रूपम्; कुण्डे बदरम् ; भूतले घटो नास्तीत्यादिप्रयोगात् । समसूत्रपातेन स्थितयोरुभयोः संयोगोऽपि न वृत्तिनियामकः । अत एव अञ्जलिरूपतया समसूत्रपातेन स्थितयोर्हस्तयोः संयोगो न वृत्तिनियामक इति तत्र न ‘हस्ते हस्त' इति प्रयोगः । तयोरेव हस्तयोः उपर्यधोभावेन स्थितयोः पुनः संयोगो वृत्तिनियामक इति तत्र ‘हस्ते हस्त' इति प्रयोगोऽपि भवति ॥१५॥
यस्मिंश्च सम्बन्धे पूर्वोक्तरूपा वृत्तिता आधाराधेयभावश्च न प्रतीयते केवलं सम्बन्धितामात्रम्, सवृत्त्यनियामकः सम्बन्धः । तत्रसप्तमीविभक्तेः मतुबादिप्रत्ययस्य च प्रयोगो न भवति । किन्तु सम्बन्धित्वबोधकाः इन्-ईय-प्रभृतयः प्रत्ययाः प्रयुज्यन्ते। यथा स्वत्वसम्बन्धो न वृत्तिनियामक इति मन्त्रिणि सत्यपि स्वत्वसम्बन्धे [मन्त्री राजवान्'इति किंवा 'मन्त्रिणि राजा'इति न प्रयोगः,] 'राजामन्त्रिवान्' किंवा 'राज्ञि मन्त्री' इति न प्रयोगः किन्तु ‘राजकीयो मन्त्री' इति प्रयोगः ॥१६॥
परम्परासम्बन्धाः प्रायशः सर्व एव वृत्यनियामकाः। अत एव शिखिनि पुरुषे गृहे तिष्ठति सति स्वाश्रय-पुरुषाश्रयत्व-सम्बन्धेन ‘शिखावद् गृहम्' इति न प्रयोगः ॥१७॥
कालिकनामकः सम्बन्धः कश्चित् वृत्तिनियामकः कश्चित् वृत्त्यनियामकोऽस्ति। वृत्तिनियामकेन कालिकसम्बन्धेन काले सर्वं वर्तते । स च कालः महाकालरूपः, खण्डकालरूपश्च । ‘काले सर्वम्' इति महाकालविषयिणी प्रतीतिः ॥१८॥
‘अयं न द्वौ किन्तु द्वित्ववान्' इति प्रतीतेः 'द्वौ' ‘द्वित्ववान्' इति पदयोः अर्थविशेषावधारणाय नवीनैः कश्चित् पर्याप्तिनामकः सम्बन्धःस्वीक्रियते। पर्याप्तिः पर्यवसानम्, साकल्येन सम्बन्धः। अर्थात् यस्य यावन्तः आश्रयाः सन्ति तावत्स्वेवाश्रयेषु मिलितेष्वेव सम्बन्धः। पर्याप्तिसम्बन्धेन द्वित्वसङ्ख्या मिलितयोरेव द्वयोर्वर्तते न त्वेकैकस्मिन् द्वयोर्वा। अत एव द्वित्वादयः सङ्ख्याः व्यासज्यवृत्तयः (व्यासज्य सर्वमेवाधारमधिकृत्य वर्तन्त) इत्युच्यते । द्विशब्दस्य पर्याप्तिसम्बन्धेन द्वित्वाधारताप्रतीतेः एकस्य च पर्याप्तिसम्बन्धेन द्वित्वाधारत्वाभावात् ‘अयं न द्वौ' इति प्रतीतिः भवति। समवायसम्बन्धेन पुनः द्वित्व-सङ्ख्या द्वयोरेकस्मिन्नपि तिष्ठतीति समवायसम्बन्धेन द्वित्वाश्रय इत्यर्थमभिप्रेत्य ‘द्वित्ववान्' इति प्रयोगः। ततश्च ‘अयं न द्वौ किन्तु द्वित्ववान्' इति वाक्यस्य, ‘अयं न पर्याप्तिसम्बन्धेन द्वित्ववान्, किन्तु समवायसम्बन्धेन द्वित्ववान्' इत्यर्थः ॥१९॥
सङ्ख्यादीनामिव वक्ष्यमाणाया अवच्छेदकताया अपि पर्याप्तिसम्बन्धोऽङ्गीक्रियते ॥२०॥
विषयता विषयिता चेति अपरौ द्वौ वृत्त्यनियामको सम्बन्धौ स्तः। तत्र विषयाः घटपटादयो ज्ञानेच्छादौ विषयितासम्बन्धेन वर्तन्ते । विषयतासम्बन्धेन च ज्ञानेच्छादयो घटपटादौ विषये तिष्ठन्तीति ॥२१॥
सम्बन्धो यद्यपि उभयनिष्ठः, यथा कुण्डबदरयोः सम्बन्धः कुण्डे बदरे च अस्ति, तथापि केनचित् सम्बन्धेन कश्चिदेव कुत्रचिदेव तिष्ठति। यथा-संयोगेन सम्बन्धेन कुण्डे एव बदरं तिष्ठति न तु बदरे कुण्डम् । एवं भूतले एव घटः वर्तते न तु घटे भूतलमिति। अत्र कारणमेतत् – सम्बन्धस्य एकं प्रतियोगि अपरञ्च अनुयोगि भवति । यस्य सम्बन्धस्य यत प्रतियोगि भवति तेन सम्बन्धेन तदेव तिष्ठति। यच्च यस्य सम्बन्धस्य अनुयोगि भवति, तेन सम्बन्धेन तत्र प्रतियोगि तिष्ठति । यथा - कुण्ड-बदरयोः संयोगे बदरं प्रतियोगि कुण्डञ्चानुयोगीति कुण्डे बदरं वर्तते । धर्म-धर्मिणोः सम्बन्धस्य धर्मः प्रतियोगी धर्मी चानुयोगी, अत एव धर्म एव धर्मिणि वर्तते न तु धर्मी धर्मे ॥२२॥
यच्च यत्र वर्तते तत् तस्य आधेयम् आश्रितं तद्वृत्ति इति चोच्यते। यत्र तु यद् वर्तते तत् तस्य अधिकरणम् आधार आश्रय इति च उच्यते । यथा कुण्डे बदरं वर्तते गृहे पटो वर्तते इति । बदरं पटश्च आधेयं कुण्डं गृहश्च आधार इति। यच्च यस्य आधेयं तस्मिन् तन्निरूपिता वृत्तिता तिष्ठति। एवं यच्च यस्य अधिकरणं तस्मिन् तन्निरूपिता अधिकरणता वर्तते । यथा – पूर्वोक्तयोरुदाहरणयोः कुण्डनिरूपिता वृत्तिता बदरे गृहनिरूपिता आधेयता च पटे वर्तते। एकस्य वृत्तितायाम् अपरस्य अधिकरणता अवश्यम्भाविनी ॥२३॥
एवञ्च एकस्य अधिकरणतायाम् अपरस्य वृत्तिता नियता। अत एव वृत्तिताधिकरणतयोः परस्परनियतसापेक्षतया वृत्तिताधिकरणतयोश्च परस्पर निरूप्यनिरूपकभावोऽस्ति। वृत्तितानिरूपिता अधिकरणता अधिकरणतानिरूपिता च वृत्तितेति। ततश्च ‘कुण्डे बदरम्' इति वाक्यस्य ‘कुण्ड-निरूपित-वृत्तितावद् बदरम्' किंवा ‘कुण्डनिष्ठ-अधिकरणता-निरूपित-आधेयता-वद् बदरम्' इत्यर्थः प्रतीयते । एवं 'बदरवत् कुण्डम्' इत्यस्य प्रयोगस्य ‘कुण्डं बदर-निरूपित अधिकरणतावत्' इति किंवा बदरनिष्ठवृत्तिता-निरूपित-अधिकरणतावत्' इत्यर्थः पर्यवसीयते ॥२४॥
सम्बन्धवद् अभावस्यापि एकं प्रतियोगि अपरञ्च अनुयोगि अस्ति। यः अभावः यस्य विरोधी प्रतिपक्षः यश्चाभावो यस्य,घटस्य अभावः, पटस्य अभावः इत्यादिरीत्या यत्सम्बन्धितया अभावः प्रतीयते, तत् तस्य अभावस्य प्रतियोगि भवति। यथा यत्र घटाभावोऽस्ति तत्र घटो नैव तिष्ठतीति घटाभावो घटस्य विरोधी। एवमयम् अभावो घटस्येति घटाभावस्य घटः प्रतियोगी, रूपाभावस्य रूपं प्रतियोगि। यत्र अभावो वर्तते तद् अभावस्य अनुयोगि भवति। यथा वायुः रूपाभावस्य अनुयोगि। घटादिः जडपदार्थः ज्ञानाभावस्य। प्रतियोगिनि प्रतियोगिता, अनुयोगिनि च अनुयोगिता वर्तते ॥२५॥
एकत्र एकेन सम्बन्धेन वर्तमानस्यापि सम्बन्धान्तरेण अभावो वर्तते। यथा - भूतले संयोगेन सम्बन्धेन वर्तमानस्यापि घटस्य समवायसम्बन्धेनाभावः। एवम् एकेन रूपेण वर्तमानस्यापि रूपान्तरेणाभावो भवति। यथा शुक्लपटवति गृहे पटत्वरूपेण सामान्यधर्मेण वर्तमानस्यापि नीलपटत्वरूपेण विशेषधर्मेण बहिर्वृत्तित्वरूपेण वा विशिष्टधर्मेण पटघटोभयत्वरूपेण वा उभयत्वपुरस्कारेण अभावो भवति। न हि शुक्लपटस्य विद्यमानत्वेनैव नीलपटस्यापि वृत्तिता भवति। एवं गृहे केवलस्य पटस्य सत्वेऽपि घटस्याभावेन पटघटोभयस्यापि अभावोऽस्त्येव एकाभावेन उभयाभावस्य अवश्यंभावित्वात् । इत्येवम् अभावस्य सम्बन्धविशेषकृतं धर्मविशेषकृतञ्च वैलक्षण्यं भवति ॥२६॥
तच्च अभावस्य वैलक्षण्यं प्रतियोगितावैलक्षण्य-निबन्धनमिति तदेव उच्यते अभावस्य प्रतियोगिता केनचित् सम्बन्धेन केनचिद् धर्मेण च अवच्छिन्ना भवति। येन सम्बन्धेन येन वा धर्मेण अवच्छिन्ना भवति स सम्बन्धः स च धर्मः तस्याः प्रतियोगितायाः अवच्छेदको भवति। यथा 'भूतले समवायसम्बन्धेन घटो नास्ति' इत्यादौ घटाभावस्य प्रतियोगिता समवायेन सम्बन्धेन घटत्वेन च धर्मेण अवच्छिन्ना । ततश्च तस्याः प्रतियोगितायाः समवायः सम्बन्धः , घटत्वश्च धर्मः अवच्छेदकः। अत एव समवायेन घटो नास्तीत्यस्य समवाय-सम्बन्धावच्छिन्न प्रतियोगिताकोऽभावो वर्तत इत्यर्थः ॥२७॥
सम्बन्धस्य प्रतियोगितावच्छेदकत्वस्वीकारे युक्तिरियम्-सामान्यतः कस्यापि कुत्रापि प्रायशः अभावो नास्ति। अन्ततः कालिकसम्बन्धेन सर्वस्य सर्वत्र विद्यमानत्वात्। ततश्च अभावस्य अन्तरा कश्चित् सम्बन्धोऽस्तीति अवश्यमङ्गीकार्यम्। अभावस्यान्तरा प्रविशन् सम्बन्धः प्रतियोगितामेवावच्छिन्दन् (विशेषयन्) सम्भवति नान्यथा । येन सम्बन्धेन यत्र यन्नास्ति , स एव सम्बन्धस्तत्र तदभावस्य प्रतियोगितामवच्छिनत्ति (विशेषयति)। अत एव स एव सम्बन्धस्तस्याः अवच्छेदको भवति। प्रतियोगिता च तेन सम्बन्धेनावच्छिन्ना भवति। यथा भूतले समवायसम्बन्धेन घटो नास्तीत्यत्र समवायसम्बन्धः भूतले घटाभावस्य प्रतियोगितां विशेषयतीति घटाभावस्य प्रतियोगिता समवायसम्बन्धावच्छिन्ना । समवायसम्बन्धश्च तस्याः प्रतियोगिताया अवच्छेदकः। तथा च सम्बन्धस्य अवच्छेदकत्वं विशेषकत्वरूपमिति फलितम् ॥२८॥
धर्मस्य प्रतियोगितावच्छेदकत्वे युक्तिरियम् – अभावस्य प्रतियोगिता कुत्र वर्तते कुत्र वा न वर्तते इति निर्णयाय प्रतियोगितानियामकः कश्चिदस्तीति अवश्यमङ्गीकार्यम् । सर्वेषु प्रतियोगिषु वर्तमानः, तदन्यत्र अवर्तमानः प्रतियोगिगतः कश्चन असाधारणो धर्म एव प्रतियोगिताया नियामको भवति। य एव नियमितः स अवच्छिन्न इति। तथाहि – घटाभावस्य घटगता प्रतियोगिता कुत्र कुत्र वर्तते, कुत्र कुत्र वा न वर्तते , इति प्रश्नस्य उत्तरमिदमेव भवति, यत्र यत्र घटत्वं वर्तते , तत्र सर्वत्रैव घटाभावस्य घटगता प्रतियोगिता वर्तते। नान्यत्र कुत्रचित् घटत्वशून्ये; नापि च कस्मिन्नपि घटे तस्या अभाव इति घटत्वमेव घटगताया घटाभावप्रतियोगितायाः स्थितिनियामकम् । घटत्वेनैव घटाभाव-प्रतियोगिता नियमितेति नियामकत्वमेवावच्छेदकत्वम् । नियमितत्वमेवावच्छिन्नत्वमिति । यश्च प्रतियोगी भवति तत्र विशेषणतया प्रतीयमानोऽसाधारणो धर्मः। तद्गतप्रतियोगिताया अवच्छेदको भवतीति फलितार्थः ॥२९॥
अथवा स्थूलत एवंरीत्या बोध्यम् – प्रतियोगिबोधक-विशेष्यपदोत्तरं ‘त्व', 'तल् (ता)' प्रभृतिभावप्रत्ययनिष्पन्नो (निष्पन्नपदवाच्यः ) धर्मः प्रतियोगितावच्छेदको भवति। यथा – घटाभावस्य घटः प्रतियोगीति प्रतियोगिवाचकं घटपदं, तदुत्तर 'त्व' प्रत्ययेन (घट + त्व) निष्पन्नो धर्मः (घटत्वं जातिः) घटगतप्रतियोगिताया अवच्छेदक इति। एवं रूपाभावस्य प्रतियोगिवाचकं रूपपदं तत्र त्वप्रत्ययनिष्पन्नपदस्यार्थः रूपत्वं जातिः रूपाभावस्य प्रतियोगिताया अवच्छेदिकेति। यद्यपि अवच्छेदकत्व-नियामकत्वयोरैक्यं तथापि ग्रन्थकृद्भिरवच्छेदकपदस्यैव प्रयोगात् अवच्छेदकशब्द एव प्रयोक्तव्यः न तु नियामकशब्दोऽपि; तथात्वे अप्रयुक्ततादोषः स्यात् ॥३०॥
वृत्तितावत् प्रतियोगितापि अभावेन निरूपिता भवति, अभावश्च प्रतियोगिताया निरूपकः (नियामकः(?))। एवं अवच्छेदकता-प्रतियोगितयोरपि परस्परं निरूप्यनिरूपकभावोऽस्ति। अवच्छेदकतानिरूपिता प्रतियोगिता, प्रतियोगितानिरूपिता च अवच्छेदकता भवति। ततश्च समवायेन घटो नास्तीत्यस्य समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रतियोगितानिरूपकोऽयमभावः इत्यर्थः ॥३१॥
एकस्य अभावस्य बहूनि प्रतियोगीनि सन्ति । सुतरां प्रतियोगिताः तदवच्छेदकसम्बन्धाश्चापि बहवो भवन्ति। तथा हि द्वितीयाभावः (घटाभावाभावः) प्रतियोगि-(घट) स्वरूपः। तृतीयाभावः (घटाभावाभावाभावः) प्रथमाभाव-(घटाभाव) स्वरूप इति प्रथमाभावस्य (घटाभावस्य) घट इव द्वितीयाभावोऽपि (घटा भावाभावोऽपि ) प्रतियोगी । तस्मिंश्च एका अपरा प्रतियोगिता वर्तते । तस्याश्च प्रतियोगिताया अवच्छेदको धर्मः द्वितीयाभावत्वम् (घटाभावाभावत्वम्)। अवच्छेदकसम्बन्धश्च स्वरूपम् । एवमन्यदपि प्रतियोगि ऊह्यम् ॥३२॥
भावपदार्थवत् अभावोऽपि व्याप्यवृत्तिरव्याप्यवृत्तिश्च भवति। 'व्याप्य' सर्वमेव आधारस्यांशं कालं देशं वा अवलम्ब्य वर्तते यः स व्याप्यवृत्तिः। कस्मिन्नपि अंशे कालविशेषे देशविशेषे वा यस्याधिकरणे अभावो नास्ति, स व्याप्यवृत्तिः। यथा मनुष्ये मनुष्यत्वं जातिः, आकाशे रूपाभावः, शशे विषाणाभावः। स्वाधारेऽपि यस्याभावो वर्तते , सः अव्याप्यवृत्तिः। यथा वृक्षे कपिसंयोगः कपिसंयोगाभावश्च अव्याप्यवृत्तिः ॥३३॥
अव्याप्यवृत्तिपदार्थस्य वृत्तितायाः कश्चित् सीमापरिच्छेदकः अस्ति। परिच्छेदक एवात्र अवच्छेदकनाम्ना व्यवह्रियते । स च क्वचित् आधारस्य अंशविशेषः, क्वचित् कालविशेषः, क्वचिच्च देशविशेष इति । तथा 'शाखायां वृक्षः कपिसंयोगी, न मूले' इत्यत्र वृक्षे कपिसंयोगस्य वृत्तितायाः सीमापरिच्छेदकतया शाखा अवच्छेदिका। कपिसंयोगाभावस्य तु मूलम् अवच्छेदकम्। ‘उत्पत्तिकाले पुष्पं न गन्धवत् किन्तु तदुत्तरम्' इत्यत्र पुष्पे गन्धाभावस्य वृत्तितायाम् उत्पत्तिकालः अवच्छेदकः। 'वसन्ते यवाः मगधे तिष्ठन्ति, न तु गिरौ' इत्यत्र वसन्ते यववृत्तितायाः मगधदेशः अवच्छेदकः, यवाभावस्य वृत्तितायां गिरिप्रदेशः अवच्छेदकः ॥३४॥
अव्याप्यवृत्तिताया अवच्छेदकवाचकपदे प्रायशः सप्तमी भवति। यथा ‘अग्रे वृक्षः कपिसंयोगी न मूले' इति प्रयोगः। अव्याप्यवृत्तिरभावः प्रतियोगिसमानाधिकरणो भवति । यथा वृक्षे कपिसंयोगाभावः, वृक्षे कपिसंयोगः कपिसंयोगाभावश्च अस्ति। व्याप्यवृत्तिस्तु प्रतियोगिव्यधिकरणः, यथा -- आकाशे रूपाभावः। आकाशे रूपाभाव एवास्ति, न तु रूपमिति ॥३५॥
अभावश्च पुनर्द्विविधः। अन्योन्याभावः संसर्गाभावश्च। तादात्म्यं (तत्स्वरूपता, ऐक्यम्, अभेदः) नाम कश्चित् सम्बन्धोऽस्ति । तेन सम्बन्धेन तस्य प्रतियोग्यनुयोगिनोरभेदः प्रतीयते । यथा ‘सुन्दरो नर' इत्यत्र नरसुन्दरयोरैक्यं प्रतीयते । तादात्म्यसम्बन्धेनाभावः (भेदः) अन्योन्याभावः। यस्य अभावस्य प्रतियोगिता तादात्म्यसम्बन्धेनावच्छिन्ना सः अन्योन्याभावः इति । यथा – ‘घटो न पट' इति। ततश्च न्यायभाषायाम् – अन्योन्याभावस्य ‘तादात्म्यसम्बन्धावच्छिन्न-प्रतियोगिता-निरूपकाभावत्वम् अन्योन्याभावत्वम्' इति लक्षणं पर्यवसितं भवति । अन्योन्याभाव एव भेदः। अन्योन्याभावभिन्नः अभावः संसर्गाभावः। नञा अभावबोधने यत्र प्रतियोगिपदे अनुयोगिपदे च प्रथमा भवति, तत्र अन्योन्याभावः प्रतीयते। यथा – 'घटो न पट' इति । यत्र पुनः प्रतियोगिपदे प्रथमा, अनुयोगिपदे च सप्तमी भवति, तत्र नञा संसर्गाभावः प्रतीयते । यथा – 'भूतले घटो नास्ति' ॥३६॥
स्थूलत इदमत्रावधेयम् – अन्योन्यस्मिन् अन्योन्यस्य अभावः (तादात्म्याभावः भेद इति यावत् ) अन्योन्याभावः । संसर्गस्य प्रतियोगिनः सम्बन्धस्य अनुयोगिनि अभावः संसर्गाभावः। अन्योन्याभावस्थले प्रतियोग्यनुयोगिनोः घटपटयोः परस्परम् अभेदाभावः (भेदः) प्रतीयते। संसर्गाभावस्थले तु प्रतियोग्यनुयोगिनोः घटभूतलयोः सम्बन्धो नास्तीति पर्यवसाने प्रतीतिः । अतएव प्रतियोग्यनुयोगिनोरभेदेऽपि ‘घटे घटो नास्ति' इति संसर्गाभावप्रतीतिः ॥३७॥
प्रतियोगितावत् अवच्छेदकता साध्यता-कार्यता-विधेयता-हेतुता-कारणता-प्रकारतादयोऽपि धर्मगताः सापेक्षधर्माः केनचिद्धर्मेण केनचिच्च सम्बन्धेन अवच्छिन्ना भवन्ति । अत्र वृत्तिता-प्रतियोगितास्थलीया युक्तिरिव युक्तिः स्वयम् उद्भावनीया । तत्र कियन्ती उदाहरणानि दर्शयामि ॥३८॥
अवच्छेदके विशेषणीभूतः धर्मः अवच्छेदकताया अवच्छेदको भवति । अवच्छेदके विशेषणीभूतः धर्मः येन सम्बन्धेन तिष्ठति स सम्बन्धः अवच्छेदकतावच्छेदकसम्बन्धो भवति । यथा ‘दण्डी नास्ति' इत्यत्र दण्डिनि प्रतियोगिनि विशेषणतया उपस्थितो दण्डो दण्डिगत-प्रतियोगिताया अवच्छेदकः। दण्डश्च दण्डिनि संयोगसम्बन्धेन तिष्ठतीति दण्डगता प्रतियोगितावच्छेदकता संयोगसम्बन्धावच्छिन्ना । दण्डे च दण्डत्वं विशेपणतया उपस्थितमिति दण्डगतायाः प्रतियोगितावच्छेदकताया अवच्छेदकं दण्डत्वम् । दण्डत्वं च दण्डे समवायसम्बन्धेन तिष्ठतीति दण्डत्वगता अवच्छेदकता समवाय-सम्बन्धावच्छिन्ना । दण्डत्वे च किमपि विशेषणतया न प्रतीयत इति दण्डत्वगता अवच्छेदकतावच्छेदकता निरवच्छिन्ना । ततश्च ‘दण्डी नास्ति' इत्यस्य नैयायिकभाषायामयमर्थः – समवायसम्बन्धावच्छिन्न-दण्डत्व-निष्ठ-अवच्छेदकता-निरूपित-संयोग-सम्बन्धावच्छिन्न-दण्डनिष्ठ-अवच्छेदकता-निरूपित- संयोगसम्बन्धावच्छिन्न-दण्डिनिष्ठ-प्रतियोगितानिरूपकः अभावः ॥३९॥
येन सम्बन्धेन यत् साध्यते , यत् क्रियते, यत् विधीयते, यो हेतुः, यत्कारणम्, यश्चप्रकारो भवति स सम्बन्धः तन्निष्ठ-साध्यता-कार्यता-विधेयता-हेतुता-कारणता-प्रकारतानामवच्छेदको भवति । 'सुन्दरो नर' इत्यादौ नरस्य केवलं विशेष्यतयैव प्रतीतिः, तस्य सम्बन्धो न कुत्रापि बोध्यते इति धर्मिगता अधिकरणता-अनुयोगिता विशेष्यता-पक्षतादयः सापेक्षधर्माः न केनापि सम्बन्धेन अवच्छिन्नाः, केवलं धर्मेणैव ते अवच्छिन्ना इति ॥४०॥
यो धर्मः साध्यादौ विशेषणतया प्रतीयते, स धर्मः साध्यतादीनामवच्छेदको भवति । यथा 'पर्वतो वह्निमान्, धूमात्' इत्यत्रानुमाने पर्वते पक्षे धूमेन हेतुना वह्निः संयोगसम्बन्धेन साध्यते इति यथाक्रमं पर्वतत्वं पक्षतावच्छेदकम्, धूमत्वं हेतुता-अवच्छेदकम्, वह्नित्वं साध्यतावच्छेदकं संयोगश्च साध्यतावच्छेदकः सम्बन्धः हेतुरपि संयोग-सम्बन्धेनैव कृत इति हेतुतावच्छेदक-सम्बन्धोऽपि संयोग एव ॥४१॥
यत्र साध्यतावच्छेदको धर्मः सखण्डः तत्र साध्यता-अवच्छेदक-अवच्छेदकोऽपि अस्ति , यथा – ‘शतायुरपि अयं वृद्धः मरिष्यति, मनुष्यत्वात्', इत्यनुमाने मरणं साध्यम्, मरणत्वश्च साध्यतावच्छेदकम् । मरणञ्च श्वास-प्रश्वास-विरामत्वरूपम् , मरणत्वं सखण्डोपाधिः धर्मः । ततश्च मरणत्वत्वेन धर्मेण मरणत्वमत्र विशेषणीभूतमिति मरणत्वत्वं साध्यता-अवच्छेदकता-अवच्छेदकम्। एवमन्यदपि ज्ञेयम् ॥४२॥
अवच्छेदकपदस्य क्वचिद् विशेषणमित्यर्थः। अवच्छिन्नपदस्य च विशिष्टम्, आश्रय इत्यर्थोऽपि भवति । 'अवच्छेदकत्वमात्रेणान्वयः' इत्यत्र अवच्छेदकत्वपदस्य विशेषणत्वमर्थः । 'वह्नित्वावच्छिन्नस्य यस्य कस्यापि' इत्यत्र 'वह्नित्वाश्रयस्य इत्यर्थो बोध्यते' ॥४३॥
ज्ञानं द्विविधम् निर्विकल्पकं सविकल्पकं च । 'निः' नास्ति विकल्पः विशेष्य-विशेषणभावः, विशेष्यविशेषणयोः सम्बन्धो वा यस्मिन्तत्निर्विकल्पकम् । निर्विकल्पके हि ज्ञाने केवलं धर्मधर्मिणोः पटत्वपट्योः परस्परम् असंसृष्टयोः (पट-पटत्वे इत्याकारकं) भानं (प्रकाशः) भवति। न तु तयोः सम्बन्धस्यापि भानम्। विषय-इन्द्रिय-सन्निकर्षे सति जायमानं प्राथमिकं प्रत्यक्षं निर्विकल्पकं भवति ॥४४॥
तत्रेदं कारणम् – 'विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य हेतुत्वम् । न हि अज्ञातशुक्लरूपस्य जनस्य ‘इदं शुक्लं वस्त्रम्' इति प्रतीतिर्भवति । ततश्च पटे चक्षुःसंयोगात् पूर्वं तत्समकालं वा पटत्वज्ञानस्य नियतमसम्भवात् पटत्वज्ञानं विना पटत्वस्य विशेषणतया पटे ज्ञानासम्भव इति, पटे चक्षुःसंयोगानन्तरं प्रथमं पटत्वस्य ज्ञाने जाते ततो द्वितीयेन ज्ञानेन 'अयं पट' इति पटत्व विशिष्टबुद्धिर्भवति ॥४५॥
विशेष्य-विशेषण-भाव-अवगाहि-ज्ञानं सविकल्पकं (विकल्पेन सहित ) ज्ञानम्। 'अयं घटः' , 'सुन्दरो नरः' इत्यादि विशिष्टज्ञानं सर्वमेव सविकल्पकम्। द्वितीयप्रत्यक्षं सर्वमेव विशिष्टज्ञानमेव भवति । प्राथमिकेन निर्विकल्पकेन प्रत्यक्षेण अवगतस्य घटत्वादि-सामान्यस्य घटादौ विशेषणतया प्रतीतौ बाधाभावात्। ‘तृतीयन्तु प्रत्यक्षं प्रायशो विशिष्ट-वैशिष्ट्यावगाहि भवति' । यथा ‘कृष्णपशुपूर्णा पशुशाला' इति । अत्र कृष्णरूपविशिष्टस्य पशोः पशुशालायां सम्बन्धो भासते। 'दण्डिपूर्णो मठ' इति ज्ञाने दण्डविशिष्टस्य पुरूषस्य वैशिष्ट्यं (सम्बन्धः) मठे प्रतीयते ॥४६॥
विशिष्टज्ञाने एकं विशेष्यम् अपरं विशेषणं भवति । विशेष्यस्यैव उद्देश्यमिति नामान्तरम् । विशेषणस्य प्रकार इति । यथा ‘सुन्दरो नरः' इत्यत्र नरः विशेष्यः, सौन्दर्यं प्रकारः, विशेष्ये प्रकारे च यद् विशेषणतया प्रतीयते तद् यथाक्रमं विशेष्यतावच्छेदकं प्रकारतावच्छेदकं च भवति । यथा, ‘मृन्मयोऽयं गिरिः, आश्विने मासि मनोहर-पुष्प-समृध्दो भवति' इत्यादौ गिरौ विशेष्ये मृत्तिका गिरित्वञ्च विशेष्यतावच्छेदकम् , मृत्तिकात्वं तु विशेष्यतावच्छेदकतावच्छेदकम् । एवं मनोहर-पुष्प-समृध्दौ प्रकारे मनोहरपुष्पं विशेषणं तत्र च मनोहरत्वं पुष्पत्वं च विशेषणतया प्रतीयते इति । पुष्पं प्रकारतावच्छेदकं मनोहरत्वं पुष्पत्वञ्च उभयमेव प्रकारतावच्छेदकतावच्छेदकम् ॥४७॥
विशेष्ये विशेष्यता प्रकारे च प्रकारता वर्तते । ते च परस्परं निरूप्य-निरूपक-भावापन्ने । विशेष्यता-निरूपिता प्रकारता भवति, प्रकारता-निरूपिता च विशेष्यतेति, एवं प्रकारता विशेष्यनिरूपिता भवति, विशेष्यता च प्रकार-निरूपिता भवति । एतत् सर्व वृत्तितावर्णनास्थले उक्तप्रायमेव ॥४८॥
विशेषणं द्विविधम् – सिद्धं साध्यञ्च । सिद्धं पूर्वावगतं विशेषणम् , विशेष्यस्य इतरेभ्यो व्यावर्तनाय विशेष्यान्तरा प्रयुज्यते । साध्यञ्च पूर्वमप्राप्तं प्राधान्येन विधीयते । साध्यस्य विधेयमिति नाम । यथा – ‘दया-दाक्षिण्यादिगुणैरलङ्कृतो जनकानुरक्तोऽयं रामः सर्वैः नमस्य' इत्यत्र विशेष्यस्य रामस्य दया-दाक्षिण्यादिगुणैरलङ्कृतत्वं जनकानुरक्तत्वञ्च पूर्वावगतमिति सिद्धं विशेषणम् इतरव्यावर्तनाय विशेष्यमध्ये प्रयुक्तम् । नमस्यत्वन्तु पूर्वमसिद्धमिति विधीयते ॥४९॥
विधेयस्य विधानं च क्वचित् विशेष्यतावच्छेदक-सामानाधिकरण्येन, क्वचिच्च विशेष्यतावच्छेदकावच्छेदेन भवति । यस्मिन् कस्मिन्नपि विशेष्ये यद् विधानं तत् विशेष्यतावच्छेदक-सामानाधिकरण्येन (विशेष्यता-अवच्छेदकस्य समाने एकस्मिन् अधिकरणे) वृत्तितया विधानम् । यथा - ‘ब्राह्मणो विद्वान् भवति' इत्यनेन न सर्व एव ब्राह्मणाः विद्वांसो भवन्तीति विधीयते , किन्तु यत्र यत्र ब्राह्मण्यं वर्तते तेषां मध्ये केषुचित् विद्या वर्तत इति । यत्र यत्र विशेष्यतावच्छेदकं वर्तते , तत्र सर्वत्रैव (अर्थात् सर्वस्मिन्नेव विशेष्ये) विधेयस्य विधानं विशेष्यतावच्छेदकावच्छेदेन (विशेष्यतावच्छेदकस्य अवच्छेदेन व्याप्त्या) विधानम्। यथा – ‘मनुष्यो मरणशीलः' इत्यनेन न केषुचित् मनुष्येषु मरणशीलत्वं विधीयते , किन्तु सर्वेष्वेव मनुष्येषु । मनुष्यत्वं व्याप्य सर्वेष्वेव मनुष्येषु मरणशीलत्वं विधीयते इति ॥५०॥
विधेये मुख्यप्रकारता तिष्ठति । मुख्यप्रकारता-निरूपिता विशेष्यता च मुख्यविशेष्यता भवति । विधेयभिन्ने या प्रकारता सा न मुख्या । एवं या च विशेष्यता मुख्यप्रकारता-निरूपिता न भवति सापि न मुख्यविशेष्यता । अत एव 'जनकानुरक्तोऽयं रामः पूज्यः' इत्यत्र पूज्यत्वरूपविधेयनिष्ठा प्रकारता मुख्या, तन्निरूपितैव च रामनिष्ठा विशेष्यता मुख्या । जनकानुरक्तत्वरूपविशेषण-निष्ठा च प्रकारता न मुख्या, सुतरां तन्निरूपिता रामनिष्ठा विशेष्यतापि न मुख्या ॥५१॥
पुनश्च ज्ञानं द्विविधम् , निश्चयः संशयश्चेति । यत्रज्ञाने एकमेव तदेव तदभाव एव वा प्रकारतया भासते स निश्चयः । यस्मिंस्तु पुनः तद तदभावश्च उभयमेव भासते स संशयः । यथा ‘अयं मानुषः' इति निश्चयः, ‘दीर्घोऽयं मानुषो न वा' इति संशयः। पूर्वत्र एकमेव मनुष्यत्वं प्रकारः, परत्र मनुष्यत्वं तदभावश्च उभयमेव प्रकारः । संशये हि एकस्मिन् विशेष्ये प्रतियोगी तदभावश्च परस्परविरूद्धावपि उभौ प्रकारतया भासेते इति नियमः । तत्र भावाभावो भय-प्रकारतानिरूपिता एकैव विशेष्यता भवति । यथा उक्ते उदाहरणे मनुष्यत्वनिष्ठा या प्रकारता या च मनुष्यत्वाभावनिष्ठा प्रकारता एतदुभयनिरूपिता एकैव विशेष्यता अस्मिन् दीर्धे विशेष्ये वर्तते । समूहालम्बनस्थले तु प्रत्येकप्रकारता-निरूपिता पृथक् पृथक् विशेष्यता भवति इति संशयात् समूहालम्बनस्य भेदः । संशये प्रकारस्य कोटिरिति नाम । ‘अयं स्थाणुर्वा पुरुषो वा' इत्यादौ संशये कोटिचतुष्टयमस्ति। स्थाणुत्वं स्थाणुत्वाभावः पुरुषत्वं पुरुषत्वाभावश्चेति । अत एवायं संशयः चतुष्कोटिक इत्युच्यते । केचित्तु वदन्ति – अत्रापि कोटिद्वयमेवास्ति स्थाणुत्वं; स्थाणुत्वविरूद्धपुरुषत्वचेति ॥५२॥
संशये च क्वचित् कोटिद्वय समानं भवति । क्वचिच्च काचिदेका कोटिरुत्कटा भवति । 'आश्विने मासि वृष्टिरधिका भवति न वा' इति सन्देहे अधिकवृष्टेः तदभावस्य वा बोधकं किमपि चिह्नमधुना नास्तीति नैकापि कोटिरुत्कटा । परन्तु, 'भाद्रे मासि वृष्टिर्भवति न वा' इति संशये भाद्रमासस्य वर्षाकालतया वृष्टिकोटिरुत्कटा इत्ययं संशयः उत्कटैककोटिकः । उत्कटैककोटिकः संशय एव ‘सम्भावना' इत्युच्यते । अत एव, 'भाद्रे मासि वृष्टिर्भवति न वा' इति ज्ञानं सम्भावना इत्यलम् ॥५३॥