मुखपृष्ठम् · ⬆ वेदान्तसङ्ग्रहः · ← · →
वेदान्तसङ्ग्रहः — ६. लक्ष्यज्ञानम्¶
अथ लक्षणया ब्रह्म-प्रतिपादन-प्रकारः उच्यते। तथा हि – तिस्रः शब्द-वृत्तयः, अभिधा लक्षणा व्यञ्जना च इति । अस्मात् पदात् अयमर्थो बोद्धव्यः इति ईश्वर-सङ्केत-रूपा शब्द-शक्तिः अभिधा । अनया प्रतिपाद्यमानः योऽर्थः सः मुख्यार्थः । अमुमेव वाच्यार्थम् अभिधेयम् इति च वदन्ति । मुख्यार्थस्य बाधे सति तत्सम्बन्ध्यर्थ-प्रतिपादिका लक्षणा । अनया प्रतिपाद्यमानः योऽर्थः तं लक्ष्यार्थं गौणार्थम् औपचारिकम् इति च आहुः । तात्पर्य-वृत्तिः व्यञ्जना । अनया प्रतिपाद्यमानः योऽर्थः तं व्यङ्ग्यार्थं तात्पर्यार्थम् इति च ब्रुवन्ति ॥१॥
लक्षणा त्रिविधा, जहत्स्वार्था अजहत्स्वार्था, जहद्-अजहत्स्वार्था च इति। स्वार्थ-परित्याग-पूर्वकं तत्सम्बन्धि-अन्यार्थ-प्रतिपादिका जहत्स्वार्था यथा "गङ्गायां घोषः"। अत्र मुख्यार्थस्य प्रवाहस्य घोषाधिकरणत्व-अनुपपत्तौ प्रवाह-सम्बन्धिनि तीरे लक्षणा । स्वार्थ-अपरित्याग-पूर्वकं तत्सम्बन्धि-अन्यार्थ-प्रतिपादिका अजहत्स्वार्था, यथा "छत्रिणो गच्छन्ति"। अत्र छत्र-पदं छत्री-अच्छत्री-उभयार्थ-बोधकम्। स्वार्थैकदेश-परित्यागः स्वार्थैकदेश-अपरित्यागश्च यत्र सा जहद्-अजहत्स्वार्था यथा "सोऽयं देवदत्तः"। अत्र तच्छब्दस्य तद्देश-तत्काल-विशिष्टे शक्तिः । इदं-शब्दस्य एतद्देश-एतत्काल-विशिष्टे शक्तिः । उभयोः अर्थयोः ऐक्य-असम्भवात् तद्देश-तत्काल-एतद्देश-एतत्काल-त्यागपूर्वकं शुद्ध-देवदत्ते लक्षणा । अथ सच्चिदानन्दं ब्रह्म। "सत्यं ज्ञानम् अनन्तं ब्रह्म", "आनन्दो ब्रह्म" इत्यादि श्रुतयः जहद्-अजहल्लक्षणया ब्रह्म प्रतिपादयन्ति । निर्धर्मके ब्रह्मणि सत्यत्वादि-धर्मायोगात् सच्चिदादि-पदानां शुद्धचैतन्ये लक्षणा । एवं चैतन्य-पदस्यापि शुद्धचैतन्ये लक्षणैव, चित्-ज्ञान-चैतन्य-पदानां पर्यायत्वात्, तथा ब्रह्म-शब्दस्यापि चैतन्ये लक्षणैव, बृहत्त्वरूप-धर्मस्य तत्र अयोगात् । यद्यपि इदं सदादिपद-लक्ष्यत्वम् अपि निर्धर्मके ब्रह्मणि अयुक्तं, तथापि शास्त्र-व्यवहाराय कल्पितं, तदपि तत्र मायया, परमार्थतस्तु शब्दानामेव अभावात् कुतः तल्लक्ष्यता, तथा तत्त्वमस्यादि-महावाक्यानि अपि लक्षणया जहद्-अजहत्स्वार्थया शुद्धचैतन्यं बोधयन्ति ॥२॥
तथा हि – तत्पदस्य सर्वज्ञत्व-सर्वान्तर्यामित्वादि-गुणके ईश्वरे शक्तिः, त्वम्पदस्य किञ्चिज्ज्ञादि-गुणके जीवे शक्तिः, उभयोः ऐक्ये असि-पदस्य शक्तिः, इदं च ऐक्यं न सम्भवति, उभयोः विरुद्धत्वात् । अतः तत्पदस्य शुद्धचैतन्ये लक्षणा, त्वम्पदस्य च तत्रैव, असि-पदस्य च तत्रैव । चैतन्यस्य चैतन्यस्य च अभेदः, इत्यर्थस्य अयुक्तत्वात् । न हि चैतन्य-द्वयम् अस्ति। एतस्य च चैतन्य-लक्षक-तदादि-पदत्रयवतः वाक्यस्य चैतन्ये लक्षणा । पदार्थ-अनुपपत्तौ पदानामिव, वाक्यार्थ-अनुपपत्तौ वाक्यस्यापि लक्षणावृत्ति-उपगमात् । अमुमेव महावाक्यस्य लक्ष्यार्थम् अखण्डार्थम् आहुः । एवं "अहं ब्रह्मास्मि", "अयम् आत्मा ब्रह्म", "प्रज्ञानं ब्रह्म" इत्यादि-वाक्यानामपि शुद्ध-चैतन्ये लक्षणा ऊह्या ॥३॥
॥इति लक्षणया ब्रह्म-प्रतिपादन-प्रकारः ॥