मुखपृष्ठम् · ⬆ वेदान्तसङ्ग्रहः · ← · →
वेदान्तसङ्ग्रहः — ३. प्रमाणनिरूपणम्¶
दृक्पदार्थ-चैतन्यं पुनः चतुर्विधम् — प्रमातृ-प्रमाण-प्रमेय-प्रमिति-भेदात् । अहङ्कारनामक-अहं-वृत्तिमदन्तःकरण-तादात्म्य-अध्यासवत् तत्प्रतिबिम्बितं च चैतन्यं प्रमाता। विषयाकार-परिणत-अन्तःकरण-प्रतिफलितं चैतन्यं प्रमाणम् । विषयावच्छिन्न-चैतन्यं प्रमेयम् । अबाधित-घटादि-पदार्थ-विषयकं ज्ञानं प्रमितिः। ज्ञानं चैतन्यम् इति अनन्यार्थः । अध्यासो नाम स्मृति-सदृशः परत्र पूर्व-दृष्टावभासः। अतस्मिन् तद्बुद्धिः इति यावत् । अमुमेव अयथार्थानुभवं वदन्ति तार्किकाः ॥१॥
अयं च अध्यासः द्विविधः, अर्थाध्यासो ज्ञानाध्यासश्च इति । अर्थाध्यासो नाम दोष-संप्रयोग-संस्कारवशात् अतस्मिन् तस्य उदयः, यथा शुक्त्यादौ रजतादिः। ज्ञानाध्यासो नाम दोषादिवशात् अतस्मिन्-उदिते तद्बुद्धिः, यथा रज्ज्वादौ उदिते सर्पादौ सर्पादि-बुद्धिः । स च अर्थाध्यासः द्विविधः, प्रातिभासिको व्यावहारिकश्च इति । प्रतिभास-समय-नियत-सत्ताकः प्रातिभासिकः, रज्जुसर्पादिः स्वप्नगजादिश्च । व्यवहार-समय-नियत-सत्ताकः व्यावहारिकः, घटादिः। सोऽपि अध्यासः पुनः द्विविधः, कार्याध्यासः कारणाध्यासश्च इति । कार्याध्यासो देहेन्द्रियादिः । कारणाध्यासो माया ॥२॥
ननु एवं सर्वस्यापि जगतो व्यावहारिकत्वेन अध्यस्तत्वात् घटादिविषयक-प्रमितेरेव असम्भवः इति चेत् मैवम् । अबाधितपदेन व्यवहारकालिक-बाधाभावस्य विवक्षितत्वात् ॥३॥
अथ अन्तःकरणस्य वृत्तिः द्विविधा, घटादि-विषयाकारा घटादि-ज्ञानाकारा च इति । तत्र घटादि-ज्ञानाकारां वृत्तिमेव प्रमितिम् अवोचाम । विषयाकारवृत्तिस्तु सचैतन्य-प्रतिफलन-ज्ञानाकारायाः वृत्तेः करणं भवति इति कृत्वा, वृत्तिप्रतिफलितचैतन्यं प्रमाणम् इत्युक्तम् । प्रमाकरणं प्रमाणम्। असाधारणकारणं करणम्। इमामेव प्रमापर-पर्यायां प्रमितिं यथार्थानुभवं वदन्ति तार्किकाः ॥४॥
सा च प्रमितिः द्विविधा, व्यावहारिकी पारमार्थिकी च इति । व्यवहारसत्य-घटादि-विषया व्यावहारिकी, यथा "अयं घटः" इत्यादिः । परमार्थसत्य-परमात्मविषया पारमार्थिकी, यथा "अयमात्मा ब्रह्म" इत्यादिः। इमामेव पारमार्थिकीं प्रमां विद्याम् आहुः, यया जातमात्रया समूलम् अविद्या-अध्यासादि-निवृत्तिः। अस्याश्च विद्यायाः करणं तत्त्वमस्यादि-महावाक्यार्थ-विचारात्मक-अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यम् । अप्रतिबन्ध-महावाक्यार्थ-विचार-जन्यत्वात् ब्रह्मात्मैक्यज्ञानस्य । यद्वा, विचारित-महावाक्यानि एव करणं, "शास्त्रयोनित्वात्" इति सूत्रात्। "औपनिषदं पुरुषम्" इति श्रुतेश्च ॥५॥
तच्च प्रमाणं षड्विधम् । प्रत्यक्ष-अनुमान-उपमान-शब्द-अर्थापत्ति-अनुपलब्धि-भेदात्। प्रत्यक्ष-प्रमितिकरणं प्रत्यक्ष-प्रमाणम् । तच्च मनः चक्षुरादिकम्। अनुमिति-करणम् अनुमानं, व्याप्ति-ज्ञानम् । सादृश्य-प्रमा-करणम् उपमानं, तच्च सादृश्य-ज्ञानमेव । शाब्द-प्रमा-करणम् आप्तवाक्यम्। तच्च आकाङ्क्षा-योग्यता-आसत्तयः तात्पर्यञ्च इति चतुष्टयात्मकम्। उपपाद्यज्ञानेन उपपादक-कल्पनम् अर्थापत्तिः तत्र उपपाद्यज्ञानं करणम् । ज्ञानकरणाजन्य-अभावानुभव-असाधारण-कारणम् अनुपलब्धि-प्रमाणम् ॥६॥
तत्र ब्रह्मणः अविषयत्वात् अद्वितीयत्वात् पूर्णत्वात् नित्यत्वाच्च प्रत्यक्षादि-असम्भवाच्च शब्दाः एव प्रमाणम्। ते च शब्दाः लौकिकाः वैदिकाः इति द्विविधाः। लौकिकानां न अत्र अवकाशः। वैदिकाश्च विधिपराः निषेधपराः ब्रह्मपराश्च इति त्रिविधाः । तत्र विधि-निषेधपराणां पूर्ववेदस्थानां न अत्र उपयोगः । परिशेषात् वेदान्त-वाक्यानामेव इह उपयोगः । तानि च वेदान्तवाक्यानि निर्धर्मक-परमानन्द-बोध-स्वरूपं परमात्मानं साक्षात् बोधयितुम् अशक्नुवानानि सन्ति । अध्यारोप-अपवाद-न्यायेन कानिचित् लक्षणया कानिचित् च बोधयामासुः ॥७॥
॥इति प्रमाण-निरूपणम् ॥