वेदान्तसङ्ग्रहः — १. दृश्यप्रपञ्चः¶
नत्वा लक्ष्मीहयग्रीवचरणाम्भोरुहद्वयम् ।
वेदान्तसङ्ग्रहोऽस्माभिः क्रियते बालबुद्धये ॥
दृक् दृश्यं च इति द्वौ पदार्थौ । इमौ एव चिदचिद् इति, ज्ञानं जडम् इति च व्यवहरन्ति । स्वप्रकाशत्वे सति स्वेतर-सर्व-अवभासकत्वं दृशो लक्षणम् । ज्ञेयत्वं दृश्यस्य लक्षणम् ॥१॥
दृक्-पदार्थः चतुर्विधः – ब्रह्म-ईश्वर-कूटस्थ-जीव-भेदात् । औपाधिकोऽयं भेदः, न तात्त्विकः। मायोपहिता दृक् ब्रह्म । मायावच्छिन्ना तु ईश्वरः। अविद्योपहिता दृक् कूटस्थः। अविद्यावच्छिन्ना तु जीवः । अविद्यामेव अन्तःकरणम् इति, बुद्धिः इति च, व्यवहरन्ति । तत्र ब्रह्म एकमेव । ईश्वरश्च तथा । तदुपाधेः मायायाः प्रकृति-अज्ञानादि-पर्यायायाः एकत्वात् । जीव-कूटस्थौ तु नाना, तदुपाधीनाम् आनन्त्यात् । केचित् कूटस्थम् एकमेव ब्रुवते, उपाधिभेदस्य अप्रयोजकत्वात् ॥२॥
सच्चिदानन्दं सर्वजगदधिष्ठानं च ब्रह्म । सर्वज्ञः सर्वशक्तिः सर्वनियन्ता सर्वजगत्-सृष्ट्यादिहेतुः नित्यमुक्तः ईश्वरः । सच्चिदानन्दं तत्तद्देहाद्यधिष्ठानचैतन्यं कूटस्थः। किञ्चिज्ज्ञः स्वल्पशक्तिः परतन्त्रः बद्धः जीवः। अयमेव कर्ता भोक्ता प्रमाता च ॥३॥
अथ दृश्यं द्विविधं कार्य-कारण-भेदात् । कारणं मायाख्यम् एकविधमेव । इदमेव आभासेन ईश्वरं करोतीति ईश्वरोपाधिः । आभासो नाम चित्प्रतिफलनम्। कार्यं तावद् द्विविधं मूर्तामूर्त-भेदात् । साकारं मूर्तं, निराकारम् अमूर्तम् । इन्द्रिय-अन्तःकरण-भूत-विषयभेदात् अमूर्तं चतुर्विधम् ॥४॥
तत्र इन्द्रियं द्विविधं, ज्ञानकर्म-भेदात् । ज्ञानेन्द्रियाणि पञ्च – त्वक्-चक्षुः-श्रोत्र-जिह्वा-घ्राणानि इति । कर्मेन्द्रियाण्यपि पञ्च – वाक्-पाणि-पाद-पायूपस्थानि इति। अन्तःकरणं चतुर्धा, मनो-बुद्धि-चित्त-अहङ्कार-भेदात् ॥५॥
भूते द्वे आकाश-वायू । विषयः पञ्चधा शब्द-स्पर्श-रूपरसगन्ध-भेदात् । तत्र ज्ञानसाधनत्वं ज्ञानेन्द्रियस्य लक्षणम्। कर्मसाधनत्वं कर्मेन्द्रियस्य लक्षणम् । शब्दज्ञानकरणं श्रोत्रम्। स्पर्शज्ञानकरणं त्वक्। रूपज्ञानकरणं चक्षुः । रसज्ञानकरणं जिह्वा । गन्धज्ञानकरणं घ्राणम्। वचनक्रियाकरणं वाक् । आदानक्रियाकरणं पाणिः। गमनक्रियाकरणं पादः । विसर्जनक्रियाकरणं पायुः । मैथुनक्रियाकरणम् उपस्थम् । अन्तर्व्यवहारकरणम् अन्तःकरणम् । संशयात्मकं मनः । निश्चयात्मिका बुद्धिः । स्मरणात्मकं चित्तम्। गर्वात्मकोऽहङ्कारः ॥६॥
शब्द-गुणकम् आकाशम्। शब्द-स्पर्श-गुणको वायुः । श्रोत्र-ग्राह्यो गुणः शब्दः। त्वग्-ग्राह्यो गुणः स्पर्शः । चक्षुर्ग्राह्यो गुणो रूपम् । जिह्वाग्राह्यो गुणो रसः । घ्राण-ग्राह्यो गुणो गन्धः ॥७॥
मूर्तं द्विधा, भूत-भौतिक-भेदात् । भूतानि त्रीणि। पृथिवी-अप्-तेजांसि । शब्द-स्पर्श-रूप-गुणकं तेजः । शब्द-स्पर्श-रूप-रस-गुणकाः आपः । शब्द-स्पर्श-रूप-रस-गन्ध-गुणका पृथिवी। पूर्वोक्ताभ्याम् आकाश-वायुभ्यां सह पञ्च भूतानि । तेषां च आकाश-वायु-तेजो-जल-पृथिव्याख्यानां प्रत्येकं शब्द-स्पर्श-रूप-रस-गन्धाः असाधारणगुणाः । अन्ये तु कारणगुणाः, सङ्क्रमणलब्धाः। तथा हि – "आत्मनः आकाशः सम्भूतः । आकाशाद् वायुः, वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी" इति सृष्टिक्रम-श्रुतिः । तत्र आकाश-असाधारण-गुणस्य शब्दस्य वायौ सङ्क्रमः । आकाश-वायु-गुणयोः शब्द-स्पर्शयोः तेजसि । आकाश-वायु-तेजो-गुणानां शब्द-स्पर्श-रूपाणां जले । आकाश-वायु-तेजो-जलानां गुणाः शब्द-स्पर्श-रूप-रसाः पृथिव्यां सङ्क्रान्ताः इति ॥८॥
इमानि भूतानि पञ्चापि पञ्चीकृत-अपञ्चीकृत-भेदात् द्विविधानि । तत्र अपञ्चीकृतानि अन्तःकरणादीनि सृष्ट्युपादानानि । पञ्चीकृतानि तु प्रकृतम् उपलभ्यमानानि भौतिकसृष्टि-हेतूनि। भूतजन्यत्वं भौतिक-लक्षणम् । भौतिकानि तावद् द्विविधानि सचेतनानि अचेतनानि इति । सजीवानि निर्जीवानि च इत्यर्थः । सप्राणत्वं सचेतन-लक्षणम् । अप्राणत्वम् अचेतन-लक्षणम् ॥९॥
सचेतनं द्विधा, स्थावर-जङ्गम-भेदात् । गमनरहितं स्थावरं तरु-गुल्म-लतादि । जङ्गमं त्रिविधं, स्थलीयं जलीयं नाभसं च इति । स्थलचरं स्थलीयं मनुष्यपश्वादि । जलचरं जलीयं मत्स्यकमठादि । नभश्चरं नाभसं, देव-पक्ष्यादि । इमानि सचेतनानि भौतिकानि स्थूलशरीराणि इत्याहुः । आत्मनो भोगायतनं शरीरम् । अस्ति जायते वर्धते विपरिणमते क्षीयते नश्यति च इति षड्विकारवत्त्वं हि शरीरलक्षणम्। मूर्तामूर्तात्मकः सर्वोऽपि अयं समष्टि-कार्यप्रपञ्चः विराडिति उच्यते ॥१०॥
॥एतावता दृश्यप्रपञ्चो वर्णितः ॥