सामग्रीं त्यजन्तु

तर्कसङ्ग्रहः — अनुमानपरिच्छेदः

अनुमितिकरणमनुमानम्।

दीपिका

अनुमानं लक्षयति– अनुमितिकरणमिति।

न्यायबोधिनी

अनुमानं लक्षयति– अनुमितीति। अनुमितौ व्याप्तिज्ञानं करणम्, परामर्शो व्यापारः, अनुमितिः फलं, कार्यमित्यर्थः। परामर्शस्य व्याप्तिज्ञानजन्यत्वाद् व्याप्तिज्ञानजन्यानुमितिजनकत्वात्तज्जन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारत्वमुपपन्नम्। अनुमितिकरणत्वमनुमानस्य लक्षणम्। अनुमानं व्याप्तिज्ञानम्। एतस्य परामर्शरूपव्यापारद्वारा अनुमितिं प्रत्यसाधारणकारणतयाऽनुमितिकरणत्वमुपपन्नम्।

पदकृत्यम्

प्रत्यक्षानुमानयोः कार्यकारणभावसङ्गतिमभिप्रेत्य प्रत्यक्षानन्तरमनुमानं निरूपयति– अनुमितीति। अनुमितेः करणमनुमानमित्यर्थः। तच्च लिङ्गपरामर्श एवेति निवेदयिष्यते। कुठारादावतिव्याप्तिवारणाय अनुमितीति। प्रत्यक्षादावतिव्याप्तिवारणाय अन्विति।

परामर्शजन्यं ज्ञानमनुमितिः।

दीपिका

अनुमितेर्लक्षणमाह– परामर्शेति। ननु संशयोत्तरप्रत्यक्षेऽतिव्याप्तिः, स्थाणुपुरुषसंशयानन्तरं, पुरुषत्वव्याप्यकरादिमानयमिति परामर्शे सति, पुरुष एवेति प्रत्यक्षजननात्। न च तत्रानुमितिरेवेति वाच्यम्, पुरुषं साक्षात्करोमि इत्यनुव्यवसायविरोधादिति चेत्– न, पक्षतासहकृतपरामर्शजन्यत्वस्य विवक्षितत्वात्। सिषाधयिषाविरहसहकृतसिद्ध्यभावः पक्षता। साध्यसिद्धिरनुमितिप्रतिबन्धिका सिद्धिसत्त्वेऽपि 'अनुमिनुयाम्' इतीच्छायामनुमितिदर्शनात् सिषाधयिषोत्तेजिका। ततश्चोत्तेजकाभावविशिष्टमण्यभावस्य दाहकारणत्ववत् सिषाधयिषाविरहसहकृतसिद्ध्यभावस्याप्यनुमितिकारणत्वम्।

न्यायबोधिनी

परामर्शजन्यमिति। परामर्शजन्यत्वविशिष्टज्ञानत्वमनुमितेर्लक्षणम्। अत्र ज्ञानत्वमात्रोपादाने प्रत्यक्षादावतिव्याप्तिः, अतस्तद्वारणाय परामर्शजन्यत्वे सतीति विशेषणोपादानम्। परामर्शजन्यत्वमात्रोक्तौ परामर्शध्वंसेऽतिव्याप्तिरतस्तद्वारणाय ज्ञानत्वोपादानम्।

पदकृत्यम्

नन्वनुमितेरेव दुर्निरूपत्वात्तद्घटितानुमानमपि दुर्निरूपमित्यत आह– परामर्शेति। प्रत्यक्षादावतिव्याप्तिवारणाय परामर्शजन्यमिति। परामर्शध्वंसवारणाय ज्ञानमिति। परामर्शप्रत्यक्षवारणाय हेत्वविषयकमित्यपि बोध्यम्।

व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः ।

दीपिका

परामर्शं लक्षयति– व्याप्तीति। व्याप्तिविषयकं यत्पक्षधर्मताज्ञानं स परामर्श इत्यर्थः।

न्यायबोधिनी

अनुमितिलक्षणघटकीभूतपरामर्शलक्षणमाचष्टे– व्याप्तिविशिष्टेति। व्याप्तिविशिष्टं च तत्पक्षधर्मताज्ञानं चेति कर्मधारये विशिष्टपदस्य प्रकारतानिरूपकत्वात् पक्षधर्मताज्ञानमित्यत्र षष्ठ्या विषयत्वबोधनात्, धर्मतापदस्य सम्बन्धार्थकत्वाच्च, कर्मधारयसमासे समस्यमानपदार्थयोरभेदसंसर्गलाभेन च 'व्याप्तिप्रकारकाभिन्नं यत्पक्षसम्बन्धविशेष्यकं ज्ञानं' तत्परामर्श इति लभ्यते। एवं सति 'धूमो वह्निव्याप्यः' 'आलोकवान्पर्वतः' इत्याकारकसमूहालम्बने परामर्शलक्षणमस्तीत्यतिव्याप्तिस्तद्वारणाय 'पक्षनिष्ठविशेष्यतानिरूपिता या हेतुनिष्ठा प्रकारता तन्निरूपिता या व्याप्तिनिष्ठा प्रकारता तच्छालि ज्ञानं परामर्शः' इति निष्कर्षः। एतादृशपरामर्शजन्यत्वे सति ज्ञानत्वमनुमितेर्लक्षणम्।

अनुमितिपरामर्शयोर्विशिष्य कार्यकारणभावश्चेत्थम्– 'पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितसंयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नविधेयताकानुमितित्वावच्छिन्नं प्रति वह्नित्वावच्छिन्नप्रकारतानिरूपिताव्याप्तित्वावच्छिन्नप्रकारतानिरूपिता या धूमत्वावच्छिन्नप्रकारता तन्निरूपिता या पर्वतत्वावच्छिन्ना विशेष्यता तच्छालिनिर्णयः कारणम्। (वह्नित्वावच्छिन्नप्रकारतानिरूपितव्याप्तित्वावच्छिन्नविशेष्यतायाः धूमत्वावच्छिन्नविशेष्यतानिरूपितव्याप्तित्वावच्छिन्नप्रकारतायाश्चाभेदाऽनङ्गीकर्तृमते तु वह्नित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नव्याप्तित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिनिर्णयः कारणं वक्तव्यम्।) स च निर्णयः 'वह्निव्याप्यधूमवान्पर्वतः' इत्याकारको बोध्यः।

पदकृत्यम्

व्याप्तिविशिष्टेति। विषयितासंबन्धेन व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्श इत्यर्थः। घटादिज्ञानवारणाय पक्षधर्मतेति। 'धूमवान् पर्वतः' इत्यादि ज्ञानवारणाय व्याप्तिविशिष्टेति।

यथा 'वह्निव्याप्यधूमवानयं पर्वतः' इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो वह्निमान् इति ज्ञानमनुमितिः।

दीपिका

परामर्शमभिनीय दर्शयति– यथेति। अनुमितिमभिनयति– तज्जन्यमिति। परामर्शजन्यमित्यर्थः।

पदकृत्यम्

तदिति। परामर्शजन्यमित्यर्थः।

यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः ।

दीपिका

व्याप्तेर्लक्षणमाह– यत्रेति। यत्र धूमस्तत्राग्निरिति व्याप्तेरभिनयः। साहचर्यनियमः इति लक्षणम्। साहचर्यं सामानाधिकरण्यं, तस्य नियमः। हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिरित्यर्थः।

न्यायबोधिनी

यत्र यत्रेति। 'यत्र' पदवीप्सावशाद्धूमाधिकरणे यावति वह्निमत्त्वलाभाद् यावत्पदमहिम्ना वह्नेर्धूमव्यापकत्वं लब्धम्। तदेव स्पष्टयति– साहचर्यनियम इति। एतदर्थस्तु नियतसाहचर्यं व्याप्तिरिति। नियतत्वं व्यापकत्वम्। साहचर्यं नाम सामानाधिकरण्यम्। तथा च धूमनियतवह्निसामानाधिकरण्यं व्याप्तिरित्यर्थः। अत्र वह्नेर्धूमव्यापकत्वं नाम– धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम्। तथा हि धूमाधिकरणे पर्वत-चत्वर-महानसादौ वर्तमानो योऽभावः, घटत्वाद्यवच्छिन्नप्रतियोगिताकाभावः, न तु वह्नित्वावच्छिन्नप्रतियोगिताकाभावः, कुतः? पर्वतादौ वह्नेः सत्त्वात्। एवं सति धूमाधिकरणे पर्वत-चत्वरादौ वर्तमानस्य घटाद्यभावस्य प्रतियोगितावच्छेदकं घटत्वादिकमनवच्छेदकं वह्नित्वं, तद्वत्त्वं वह्नौ वर्ततेऽतो धूमव्यापकत्वं वह्नौ वर्तते। तथा च धूमव्यापकवह्निसामानाधिकरण्यं व्याप्तिरिति फलितम्। इयमन्वयव्याप्तिः सिद्धान्तानुसारेण।

पूर्वपक्षव्याप्तिस्तु साध्याभाववदवृत्तित्वम्, साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकप्रतियोगितावच्छेदकसंबन्धावच्छिन्नप्रतियोगितावच्छेदकावच्छिन्नवैयधिकरण्यावच्छिन्नाभाववन्निरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावो व्याप्तिरिति निष्कर्षः। तच्च केवलान्वयिन्यव्याप्तमिति सिद्धान्तानुसरणम्।

पदकृत्यम्

यत्र यत्रेति। 'यत्र यत्र धूमस्तत्र तत्राग्निः' इति व्याप्तेरभिनयः। साहचर्यनियम इति लक्षणम्। सह चरतीति सहचरस्तस्य भावः=साहचर्यं, सामानाधिकरण्यमिति यावत्। तस्य नियमो व्याप्तिरित्यर्थः। स चाव्यभिचरितत्वम्। तच्च व्यभिचाराभावः। व्यभिचारश्च साध्याभाववद्वृत्तित्वम्। तथा च– 'साध्याभाववदवृत्तित्वं' व्याप्तिरिति पर्यवसन्नम्। 'महानसं वह्निमत्, धूमाद्' इत्यादौ साध्यो वह्निः, तदभाववान् जलह्रदादिः, तद्वृत्तित्वं नौकादौ, अवृत्तित्वं प्रकृते हेतुभूते धूमे, इति कृत्वा लक्षणसमन्वयः। 'धूमवान् वह्नेः' इत्यादौ साध्यो धूमस्तदभाववदयोगोलकं, तद्वृत्तित्वमेव वह्न्यादाविति नातिव्याप्तिः।

व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ।

दीपिका

पक्षधर्मतास्वरूपमाह– व्याप्यस्येति।

पदकृत्यम्

ननु ज्ञातेयं व्याप्तिः, पक्षधर्मताज्ञानमित्यत्र का नाम पक्षधर्मता? इत्यपेक्षमाणं प्रति तत्स्वरूपं निरूपयति– व्याप्यस्येति। व्याप्यो नाम व्याप्त्याश्रयः। स च धूमादिरेव, तस्य पर्वतादिवृत्तित्वं पक्षधर्मतेत्यर्थः।

अनुमानं द्विविधम् – स्वार्थं परार्थं च ।

दीपिका

अनुमानं विभजते– अनुमानमिति।

न्यायबोधिनी

अनुमानं विभजते– स्वार्थमिति। स्वार्थानुमानं नाम न्यायाप्रयोज्यानुमानम्।

पदकृत्यम्

अथ कथमनुमानमनुमितिकरणं? कथं वा तस्मादनुमितेर्जनिरिति? जिज्ञासमानं प्रति लाघवादनुमानविभागमुखेनैव बुबोधयिषुरनुमानं विभजते– अनुमानमिति। द्वैविध्यं दर्शयति– स्वार्थं परार्थं चेति।

तत्र स्वार्थं स्वानुमितिहेतुः। तथाहि स्वयमेव भूयो दर्शनेन 'यत्र यत्र धूमस्तत्र तत्राग्निः' इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति 'यत्र यत्र धूमस्तत्र तत्राग्निः' इति । तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते। अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात् 'पर्वतो वह्निमान्' इति ज्ञानमनुमितिरुत्पद्यते। तदेतत् स्वार्थानुमानम्।

दीपिका

स्वार्थानुमितिं दर्शयति– स्वयमेवेति। भूयोदर्शनेनेति। धूमाग्न्योर्व्याप्तिग्रहे साध्यसाधनयोर्भूयः सहचारदर्शनेनेत्यर्थः। ननु पार्थिवत्वलोहलेख्यत्वादौ शतशः सहचारदर्शनेऽपि वज्रादौ व्यभिचारोपलब्धेर्भूयो दर्शनेन कथं व्याप्तिग्रहः? इति चेत्– न, व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्य व्याप्तिग्राहकत्वात्। व्यभिचारज्ञानं द्विविधं– निश्चयः शङ्का च। तद्विरहः क्वचित्तर्कात् क्वचित्स्वतः सिद्ध एव। धूमाग्न्योर्व्याप्तिग्रहे कार्यकारणभावभङ्गप्रसङ्गलक्षणस्तर्को व्यभिचारशङ्कानिवर्तकः। ननु सकलवह्निधूमयोरसंनिकर्षात्कथं व्याप्तिग्रहः? इति चेत्– न, धूमत्ववह्नित्वरूपसामान्यलक्षणप्रत्यासत्त्या सकलधूमवह्निज्ञानसम्भवात्। तस्मादिति। लिङ्गपरामर्शादित्यर्थः।

पदकृत्यम्

स्वस्यार्थः प्रयोजनं यस्मात् तत्स्वार्थमिति समासः। स्वप्रयोजनं च स्वस्यानुमेयप्रतिपत्तिः। एवं परार्थमित्यस्यापि। अयमिति। व्याप्तिबलेन लीनमर्थं गमयतीति लिङ्गम्। तच्च धूमादि। तस्य परामर्शो ज्ञानविशेष इत्यर्थः। तस्मादिति। लिङ्गपरामर्शादित्यर्थः। स्वार्थानुमानमुपसंहरति– तदेतदिति। यस्मादिदं स्वप्रतिपत्तिहेतुस्तस्मादेतत्स्वार्थानुमानमित्यर्थः।

यत्तु स्वयं धूमादग्निमनुमाय परं प्रति बोधयितुं पञ्चावयववाक्यं प्रयुङ्क्ते तत्परार्थानुमानम्। यथा पर्वतो वह्निमान् धूमवत्त्वात्, यो यो धूमवान् स स वह्निमान् यथा महानसम्, तथा चायम्, तस्मात् तथा इति ।

दीपिका

परार्थानुमानमाह– यत्त्विति। यच्छब्दस्य तत्परार्थानुमानमिति तच्छब्देनान्वयः।

पञ्चावयववाक्यमुदाहरति– यथेति।

न्यायबोधिनी

न्यायप्रयोज्यानुमानं परार्थानुमानम्। न्यायत्वं च प्रतिज्ञाद्यवयवपञ्चकसमुदायत्वम्। अवयवत्वं च प्रतिज्ञाद्यन्यतमत्वम्।

पदकृत्यम्

क्रमप्राप्तं परार्थानुमानमाह– यत्त्विति। यत्पञ्चावयववाक्यं प्रयुज्यते तत्परार्थानुमानमिति सम्बन्धः। पञ्चावयवेति। अथावयवत्वं नाम द्रव्यसमवायिकारणत्वम्। प्रतिज्ञादिषु तदसंभवात्कथमेतेऽवयवाः स्युरिति चेत्– अनुमानवाक्यैकदेशत्वात्तु अवयवा इत्युपचर्यन्ते इति गृहाण। नन्वेवमपि पञ्चावयववाक्यस्यानुमानत्वमेव न विचारसहं, तस्य लिङ्गपरामर्शत्वाभावादिति चेत्– मैवम्। लिङ्गपरामर्शप्रयोजकलिङ्गे अनुमानमित्युपचारमात्रत्वात्। तदुदाहरति– यथेति। तथा चायमिति। अयं च पर्वतस्तथा=वह्निव्याप्यधूमवानित्यर्थः। तस्मात्तथेति। वह्निव्याप्यधूमवत्त्वाद्वह्निमानित्यर्थः।

अनेन प्रतिपादिताल्लिङ्गात् परोऽग्निं प्रतिपद्यते ।

पदकृत्यम्

अनेनेति। अनेन पञ्चावयववाक्येनेत्यर्थः।

प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः ।

दीपिका

अवयवस्वरूपमाह– प्रतिज्ञेति।

पदकृत्यम्

ननु पञ्चावयववाक्यमित्यत्र के ते पञ्चावयवाः? अतस्तान्दर्शयति– प्रतिज्ञेति। प्रतिज्ञाद्यन्यतमत्वमवयवत्वम्। साध्यविशिष्टपक्षबोधकवचनं प्रतिज्ञा। पञ्चम्यन्तं तृतीयान्तं वा लिङ्गवचनं हेतुः। व्याप्तिप्रतिपादकदृष्टान्तवचनमुदाहरणम्। उदाहृतव्याप्तिविशिष्टत्वेन हेतोः पक्षधर्मताप्रतिपादकवचनमुपनयः। पक्षे साध्यस्याऽबाधितत्वप्रतिपादकवचनं निगमनम्।

पर्वतो वह्निमान् इति प्रतिज्ञा । धूमवत्त्वादिति हेतुः । यो यो धूमवान् स सोऽग्निमान् यथा महानसम् इत्युदाहरणम्। तथा चायमित्युपनयः । तस्मात्तथा इति निगमनम्।

दीपिका

उदाहृतवाक्ये प्रतिज्ञादिविभागमाह– पर्वतो वह्निमानिति। साध्यवत्तया पक्षवचनं प्रतिज्ञा। पञ्चम्यन्तं लिङ्गप्रतिपादकं वचनं हेतुः। व्याप्तिप्रतिपादकमुदाहरणम्। पक्षधर्मताज्ञानार्थमुपनयः। अबाधितत्वादिकं निगमनप्रयोजनम्।

पदकृत्यम्

इदमेव लक्षणं हृदि निधाय प्रतिज्ञादीन्विशिष्य दर्शयति– पर्वतो वह्निमानित्यादिना।

स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव करणम् । तस्माल्लिङ्गपरामर्शोऽनुमानम्।

दीपिका

अनुमितिकरणमाह– स्वार्थेति। ननु व्याप्तिस्मृतिपक्षधर्मताज्ञानाभ्यामेवानुमितिसंभवे व्याप्तिविशिष्टलिङ्गपरामर्शः किमर्थमङ्गीकर्तव्यः? इति चेत्– न, वह्निव्याप्यधूमवानयमिति शाब्दपरामर्शस्थले विशिष्टपरामर्शस्यावश्यकतया लाघवेन सर्वत्र परामर्शस्यैव करणत्वात्। लिङ्गं न करणम्, अतीतादौ व्यभिचारात्। 'व्यापारवत्कारणं करणम्' इति मते परामर्शद्वारा व्याप्तिज्ञानं करणम्। तज्जन्यत्वे सति तज्जन्यजनको व्यापारः। अनुमानमुपसंहरति– तस्मादिति।

पदकृत्यम्

लिङ्गेति। ज्ञायमानं लिङ्गमनुमितिकरणमिति वृद्धोक्तं न युक्तम्, 'इयं यज्ञशाला वह्निमती अतीतधूमाद्' इत्यादौ लिङ्गाभावेऽप्यनुमितिदर्शनादित्यभिप्रायवान् लिङ्गपरामर्श एव करणमित्याचष्टे लिङ्गपरामर्श एवेति। अनुमानमुपसंहरति– तस्मादिति। अनुमितिकरणत्वादित्यर्थः। अयमेव तृतीयज्ञानमित्युच्यते। तथा हि महानसादौ धूमाग्न्योर्व्याप्तौ गृह्यमाणायां यद्धूमज्ञानं तदादिमम्, पक्षे यद्धूमज्ञानं तद्द्वितीयम्। अत्रैव वह्निव्याप्यत्वेन यद्धूमज्ञानं तत्तृतीयम्। इदमेव लिङ्गपरामर्श इत्युच्यते। अनुमानमिति। व्यापारवत्कारणं करणमिति मते व्याप्तिज्ञानमेवानुमानम्, लिङ्गपरामर्शो व्यापार, इत्यवसेयम्।

लिङ्गं त्रिविधम् – अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति ।

दीपिका

लिङ्गं विभजते– लिङ्गमिति।

अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् ।

दीपिका

अन्वयव्यतिरेकि लक्षयति– अन्वयेनेति।

न्यायबोधिनी

अन्वयेनेति। व्यापकसामानाधिकरण्यरूपव्याप्तिमदित्यर्थः। व्यतिरेकेणेति। व्यतिरेको नाम अभावः। तथा च साध्याभावहेत्वभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः। इयं च व्याप्तिः 'यत्र यत्र वह्न्यभावस्तत्र तत्र धूमाभाव' इति। यत्रपदवीप्सया वह्न्यभाववति यावति धूमाभावग्रहणे यावत्पदस्य व्यापकत्वपरतया धूमाभावे वह्न्यभावव्यापकत्वं लभ्यते। एवञ्च वह्न्यभावनिष्ठव्याप्तेः स्वाश्रयीभूतवह्न्यभावव्यापकीभूताभावप्रतियोगित्वसम्बन्धेन धूमनिष्ठतया व्यतिरेकव्याप्तिमत्त्वेन धूमवत्त्वं व्यतिरेकित्वेन, धूमव्यापकवह्निसामानाधिकरण्यरूपान्वयव्याप्तिमत्त्वेनान्वयित्वेन च गीयते। व्यतिरेकपरामर्शस्तु वह्न्यभावव्यापकीभूताभावप्रतियोगिधूमवान्पर्वत इत्याकारकः।

पदकृत्यम्

अन्वयव्यतिरेकिणो लक्षणमाह– अन्वयेति। तृतीयायाः प्रयोज्यत्वमर्थः। साध्यसाधनयोः साहचर्यमन्वयः। तदभावयोः साहचर्यं व्यतिरेकः। तथा चान्वयप्रयोज्यव्याप्तिमद्व्यतिरेकप्रयोज्यव्याप्तिमदन्वयव्यतिरेकीत्यर्थः। केवलव्यतिरेकिण्यतिव्याप्तिवारणाय अन्वयेनेति। केवलान्वयिनि व्यभिचारवारणाय व्यतिरेकेणेति। तथा चान्वयव्याप्तिरुपदर्शितैव। व्यतिरेकव्याप्तिश्च साध्याभावव्यापकीभूताभावप्रतियोगित्वमित्यर्थः। तदुक्तम्–

व्याप्यव्यापकभावो हि भावयोर्यादृगिष्यते।
तयोरभावयोस्तस्माद्विपरीतः प्रतीयते॥
अन्वये साधनं व्याप्यं, साध्यं व्यापकमिष्यते।
साध्याभावोऽन्यथा व्याप्यो व्यापकः साधनात्ययः॥ इति।

यत्र धूमस्तत्राग्निर्यथा महानसमित्यन्वयव्याप्तिः ।

दीपिका

हेतुसाध्ययोर्व्याप्तिरन्वयव्याप्तिः।

यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति, यथा महाह्रद इति व्यतिरेकव्याप्तिः ।

दीपिका

तदभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः।

अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटोऽभिधेयः, प्रमेयत्वात्, पटवदिति ।

दीपिका

केवलान्वयिनो लक्षणमाह– अन्वयेति। केवलान्वयिसाध्यकं केवलान्वयि। अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्। केवलान्वयि उदाहरति– यथा घटोऽभिधेयः प्रमेयत्वादिति।

न्यायबोधिनी

केवलान्वयिनो लक्षणमाह अन्वयेति। व्यतिरेकव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत्त्वं केवलान्वयित्वम्। अथवा केवलान्वयिसाधकत्वं हेतोः केवलान्वयित्वम्, साध्ये केवलान्वयित्वं चात्यन्ताभावाप्रतियोगित्वम्। तथा च अभावाप्रतियोगिसाध्यकत्वं केवलान्वयिहेतोर्लक्षणम्। एतच्च लक्षणं हेतोर्व्यतिरेकित्वेऽपि संगच्छते। साध्यस्य केवलान्वयित्वादेव व्यतिरेकव्याप्तेरभावादन्वयमात्रव्याप्तिकं केवलान्वयीति मूलकारोक्तं लक्षणमुपपन्नम्। न चात्यन्ताभावाप्रतियोगित्वरूपकेवलान्वयित्वमाकाशाभावे संयोगाभावे चाव्याप्तमिति वाच्यम्, स्वविरोधिवृत्तिमदत्यन्ताभावाप्रतियोगित्वस्यैव तदर्थत्वात्। तथा चानयोरेकजातीयसम्बन्धेन सर्वत्र विद्यमानत्वं केवलान्वयित्वमिति नव्याः।

पदकृत्यम्

केवलान्वयिनो लक्षणमाह– अन्वयेति। अन्वयेनैव व्याप्तिर्यस्मिन् स तथा।

अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च ।

दीपिका

ईश्वरप्रमाविषयत्वं सर्वपदाभिधेयत्वं च सर्वत्रास्तीति व्यतिरेकाभावः।

पदकृत्यम्

प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिं निराकरोति– अत्रेति। अभिधेयत्वसाध्यकानुमाने इत्यर्थः। कुतस्तन्निषेधोऽतस्तत्र हेतुमाह– सर्वस्येति। पदार्थमात्रस्येत्यर्थः। तथा च सकलपदाभिधेयत्वस्येश्वरप्रमाविषयत्वस्य चात्यन्ताभावाप्रतियोगित्वरूपकेवलान्वयित्वेन तदभावाप्रसिद्ध्या तद्घटितव्यतिरेकव्याप्तिर्न सम्भवत्येवेति भावः।

व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा – पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्। यदितरेभ्यो न भिद्यते न तद् गन्धवत्, यथा जलम्। न चेयं तथा। तस्मान्न तथेति ।

दीपिका

केवलव्यतिरेकिणो लक्षणमाह– व्यतिरेकेति। केवलव्यतिरेकि उदाहरति– पृथिवीति। नन्वितरभेदः प्रसिद्धो वा न वा? आद्ये यत्र प्रसिद्धस्तत्र हेतुसत्त्वेऽन्वयित्वम्, असत्त्वेऽसाधारण्यम्। द्वितीये साध्यज्ञानाभावात्कथं तद्विशिष्टानुमितिः? विशेषणज्ञानाभावे विशिष्टज्ञानानुदयात्। प्रतियोगिज्ञानाभावाद् व्यतिरेकव्याप्तिज्ञानमपि न स्यादिति चेत्– न, जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां मेलनं पृथिव्यां साध्यते। तत्र त्रयोदशत्वावच्छिन्नसाध्यस्यैकाधिकरणवृत्तित्वाभावान्नान्वयित्वासाधारण्ये। प्रत्येकाधिकरणप्रसिद्ध्या साध्यविशिष्टानुमितिः। साध्याभावव्यापकीभूताभावप्रतियोगित्वमिति व्यतिरेकव्याप्तिनिरूपणं च– यदितरेति।

न्यायबोधिनी

केवलव्यतिरेकिणो लक्षणमाह– व्यतिरेकेति। अन्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकित्वम्, यथा– पृथिवीति। अत्र पृथिवीत्वावच्छिन्नं पक्षः, पृथिवीतरजलाद्यष्टभेदः साध्यः, गन्धवत्त्वं हेतुः। अत्र यद्गन्धवत्तदितरभेदवद् इत्यन्वयदृष्टान्ताभावाद् गन्धव्यापकेतरभेदसामानाधिकरण्यरूपान्वयव्याप्तिग्रहासम्भवः। किन्तु 'यत्र यत्र पृथिवीतरभेदाभावस्तत्र तत्र गन्धाभावो यथा जलादिकम्' इति व्यतिरेकदृष्टान्ते जलादावितरभेदाभावरूपसाध्याभावव्यापकता गन्धाभावे गृह्यते। इममेवार्थं मनसि निधाय यदितरेभ्यो न भिद्यते, न तद् गन्धवद्, यथा जलमिति ग्रन्थेन मूलकारो व्याप्तिमेव प्रदर्शितवान्। एवंप्रकारेण व्यतिरेकव्याप्तिग्रहानन्तरम्– 'इतरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती पृथिवी'त्याकारकव्यतिरेकिपरामर्शात् पृथिवीत्वावच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वावच्छिन्नविधेयताका– 'पृथिवी इतरभेदवती'त्याकारिकानुमितिर्जायते इति तत्त्वम्।

यथाश्रुतमूलार्थस्तु यथा जलमिति। यज्जलमितरेभ्यो न भिद्यते, इतरभेदाभाववत्, न तद्गन्धवत्, जलमितरभेदाभावव्यापकगन्धाभाववत्, इत्येवंप्रकारेण गन्धाभावनिरूपिता व्याप्यता इतरभेदाभावे गृह्यत इत्यर्थः। न चेयं तथा। इयं=पृथिवी, तथा=इतरभेदाभावव्यापकगन्धाभाववती न, किन्तु तदभावात्मकगन्धवतीति। तस्मान्न तथेति। तस्मात्=गन्धाभावाभाववत्त्वात्। तच्छब्देन गन्धाभावाभावरूपस्य गन्धस्य परामर्शेन तस्मादिति पञ्चम्यन्ताद् गन्धाभावाभाववत्त्वादित्यर्थोपलब्धिः। न तथा=इतरभेदाभाववती न, किन्तु इतरभेदाभावाभाववती=इतरभेदवतीत्यर्थः पर्यवसन्नः।

पदकृत्यम्

केवलव्यतिरेकिणो लक्षणमाह– व्यतिरेकेति। व्यतिरेकेणैव व्याप्तिर्यस्मिंस्तत्तथा। अन्वयव्यतिरेकिण्यतिव्याप्तिवारणाय मात्रेति। न चेयं तथेति। इयं=पृथिवी, न तथा=न गन्धाभाववतीत्यर्थः। तस्मान्न तथेति। गन्धाभाववत्त्वाभावादितरभेदाभाववती नेत्यर्थः।

अत्र 'यद्गन्धवत्तदितरभिन्नम्' इत्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ।

पदकृत्यम्

नन्वत्र किमिति नान्वयव्याप्तिरित्याशंक्य परिहरति– अत्रेति। इतरभेदसाधकानुमान इत्यर्थः। इदमुपलक्षणम्। 'जीवच्छरीरं सात्मकं प्राणादिमत्त्वात्, यन्नैवं तन्नैवं, यथा घटः'। 'प्रत्यक्षादिकं प्रमाणमिति व्यवहर्तव्यं, प्रमाकरणत्वात्, यन्नैवं तन्नैवं, यथा प्रत्यक्षाभासः'। 'विवादास्पदम् आकाशमिति व्यवहर्तव्यं, शब्दवत्त्वाद्' इत्यादिकमपि केवलव्यतिरेकीति द्रष्टव्यम्।

अत्रेदं बोध्यम्– अन्वयव्यतिरेकि तु पञ्चरूपोपपन्नं स्वसाध्यं साधयितुं क्षमते। तानि कानि? इति चेत्, श्रूयताम्। पक्षधर्मत्वं, सपक्षसत्त्वं, विपक्षाद्व्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति। अबाधितः साध्यरूपो विषयो यस्य तत्तथोक्तं, तस्य भावस्तत्त्वम्। एवं साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्ष इत्युच्यते, स नास्ति यस्य सोऽसत्प्रतिपक्षः, तस्य भावस्तत्त्वमिति बोध्यम्। केवलान्वयि तु चतूरूपोपपन्नमेव स्वसाध्यं साधयितुं क्षमते, तस्य विपक्षविपर्ययेण तद्व्यावृत्तिविपर्ययात्। केवलव्यतिरेक्यपि तथा, तस्य सपक्षविपर्ययेण तत्सत्त्वविपर्ययादिति। उपदर्शितरूपाणां मध्ये कतिपयरूपोपपन्नत्वात्।

सन्दिग्धसाध्यवान् पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः ।

दीपिका

पक्षलक्षणमाह– सन्दिग्धेति। ननु श्रवणानन्तरभाविमननस्थलेऽव्याप्तिः। तत्र वेदवाक्यैरात्मनो निश्चितत्वेन संदेहाभावात्। किं च प्रत्यक्षेऽपि वह्नौ यत्रेच्छयानुमितिस्तत्राप्यव्याप्तिरिति चेत्– न, उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात्।

न्यायबोधिनी

पक्षलक्षणमाह– सन्दिग्धेति। साध्यप्रकारकसन्देहविशेष्यत्वं पक्षत्वम्। सन्देहश्च पर्वतो वह्निमान्न वेत्याकारः। इदञ्च लक्षणम्– अनुमितेः पूर्वं साध्यसन्देहो नियमेन जायते, इत्यभिप्रायेण प्राचीनैः कृतम्। गगनविशेष्यकमेघप्रकारकसन्देहाभावदशायामपि गृहमध्यस्थपुरुषस्य घनगर्जितश्रवणेन 'गगनं मेघवदि'त्याकारिकाया गगनत्वावच्छिन्नोद्देश्यतानिरूपितमेघत्वावच्छिन्नविधेयताकाया अनुमितेर्दर्शनात्प्राचीनलक्षणं विहाय नवीनैरनुमित्युद्देश्यत्वं पक्षत्वमिति स्थिरीकृतम्।

पदकृत्यम्

अथ पृथिवीमात्रस्य पक्षत्वादित्यत्र किन्नाम पक्षतेत्यपेक्षायां तां निर्वक्ति– सन्दिग्धेति। सपक्षवारणाय सन्दिग्धेति।

निश्चितसाध्यवान् सपक्षः, यथा तत्रैव महानसम्।

दीपिका

सपक्षलक्षणमाह– निश्चितेति।

न्यायबोधिनी

सपक्षलक्षणमाह– निश्चितेति। साध्यप्रकारकनिश्चयविशेष्यत्वं सपक्षत्वम्, निश्चयश्च 'महानसं वह्निमदि'त्याकारकः।

पदकृत्यम्

निश्चितेति। पक्षेऽतिव्याप्तिवारणाय निश्चितेति। तत्रैवेति। धूमवत्त्वे हेतावेवेत्यर्थः।

निश्चितसाध्याभाववान् विपक्षः, यथा तत्रैव महाह्रदः ।

दीपिका

विपक्षलक्षणमाह– निश्चितेति।

न्यायबोधिनी

विपक्षलक्षणमाह– निश्चितसाध्याभावेति। साध्याभावप्रकारकनिश्चयविशेष्यत्वं विपक्षत्वम्। निश्चयश्च 'ह्रदो वह्न्यभाववानि'त्याकारकः।

पदकृत्यम्

निश्चितसाध्याभावेति। सपक्षेऽतिव्याप्तिवारणाय साध्येति। पक्षेऽतिव्याप्तिवारणाय निश्चितेति। तत्रैव धूमवत्त्वे एव।

सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः।

दीपिका

एवं सद्धेतुं निरूप्यासद्धेतुं निरूपयितुं विभजते– सव्यभिचारेति। अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभासत्वम्।

न्यायबोधिनी

एवं सद्धेतून्निरूप्य हेत्वाभासान्निरूपयति– सव्यभिचारेति। हेतुवदाभासन्ते इति हेत्वाभासाः, दुष्टहेतव इत्यर्थः। दोषाश्च सव्यभिचार-विरोध-सत्प्रतिपक्षाऽसिद्धि-बाधाः। एकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्सम्बन्धेन एतद्विशिष्टा हेतवो दुष्टहेतव इत्यर्थः। यद्विषयकत्वेन ज्ञानस्यानुमिति-तत्करणान्यतरप्रतिबन्धकत्वं तत्त्वं दोषसामान्यस्य लक्षणम्। हेतौ दोषज्ञाने सत्यनुमितिप्रतिबन्धो जायते, व्याप्तिज्ञानप्रतिबन्धो वा। अतो वादिनिग्रहाय वादिनोद्भाविते हेतौ दोषोद्भावनार्थं दुष्टहेतुनिरूपणमित्यर्थः।

पदकृत्यम्

हेतून्निरूप्य प्रसङ्गाद्धेत्वाभासानाह– सव्यभिचारेति। हेतुवदाभासन्ते इति हेत्वाभासाः। तत्त्वं चानुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वम्। बाधस्थले 'वह्निरनुष्ण' इत्यनुमितिप्रतिबन्धकं यज्ज्ञानम्='उष्णत्ववद्वह्नावनुष्णत्वसाधकं द्रव्यत्वम्' इत्याकारकं तद्विषयत्वस्य विषयतासम्बन्धेन द्रव्यत्वरूपहेत्वाभासे सत्त्वाल्लक्षणसमन्वयः। सद्धेतुवारणाय यथार्थेति। घटादिवारणाय अनुमितितत्करणान्यतरप्रतिबन्धकेति। व्यभिचारिणि अव्याप्तिवारणाय तत्करणान्यतरेति।

सव्यभिचारोऽनैकान्तिकः । स त्रिविधः – साधारणासाधारणानुपसंहारिभेदात्।

दीपिका

सव्यभिचारं विभजते– स त्रिविध इति।

न्यायबोधिनी

सव्यभिचारं विभज्य दर्शयति– साधारणेति। साधारणाद्यन्यतमत्वं सव्यभिचारसामान्यलक्षणम्।

तत्र साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः। यथा पर्वतो वह्निमान् प्रमेयत्वाद् इति। अत्र प्रमेयत्वस्य वह्न्यभाववति (साध्याभाववति) ह्रदे विद्यमानत्वात् ।

दीपिका

साधारणं लक्षयति– तत्रेति। उदाहरति– यथेति।

न्यायबोधिनी

साधारणत्वं च साध्याभाववद्वृत्तित्वम्। 'पर्वतो वह्निमान्, प्रमेयत्वादि'त्यत्र प्रमेयत्वहेतौ वह्न्यभाववद्वृत्तित्वरूपव्यभिचारे ज्ञाते वह्न्यभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्।

पदकृत्यम्

तत्रेति। साधारणादित्रितयमध्य इत्यर्थः। अथ विरुद्धेऽतिप्रसक्तिरिति मास्म दूष्यः, सपक्षवृत्तित्वस्यापि निवेशात्। अथैवमपि स्वरूपासिद्धेर्दूषणं जागर्तीति मा वह गर्वम्, पक्षवृत्तित्वस्यापि तथात्वात्।

सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः यथा शब्दो नित्यः शब्दत्वादिति। शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति ।

दीपिका

असाधारणं लक्षयति– सर्वेति। उदाहरति– यथेति।

न्यायबोधिनी

असाधारण इति। सर्वसपक्षव्यावृत्तत्वं=निश्चितसाध्यवदवृत्तित्वम्। साध्यवदवृत्तित्वं च=साध्यासामानाधिकरण्यम्। हेतौ साध्यासामानाधिकरण्ये निश्चिते साध्यसामानाधिकरण्यरूपव्याप्तिज्ञानप्रतिबन्धः फलम्।

पदकृत्यम्

पक्षमात्रेति। सर्वे ये सपक्षा विपक्षास्तेभ्यो व्यावर्तत इति सर्वसपक्षविपक्षव्यावृत्तः। केवलव्यतिरेकिवारणाय तद्भिन्न इत्यपि देयम्।

अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी। यथा सर्वमनित्यं प्रमेयत्वादिति।

दीपिका

अनुपसंहारिणो लक्षणमाह– अन्वयेति।

न्यायबोधिनी

अनुपसंहारिणं लक्षयति– अन्वयेति। उभयत्र दृष्टान्ताभावादन्वयव्याप्तिज्ञानव्यतिरेकव्याप्तिज्ञानोभयसामग्री नास्तीत्यर्थः। सर्वस्यैव पक्षत्वात्पक्षातिरिक्ताप्रसिद्धेरिति भावः। किञ्चिद्विशेष्यकनिश्चयाऽविषयसाध्यकत्वे सति किञ्चिद्विशेष्यकनिश्चयाऽविषयसाध्याभावकत्वमेवाऽनुपसंहारित्वम्। एतदीयज्ञानस्य व्याप्तिसंशयजननद्वारा व्याप्तिज्ञानप्रतिबन्धः फलम्। वस्तुतस्तु अत्यन्ताभावाऽप्रतियोगिसाध्यादिकमेवाऽनुपसंहारित्वमिति बोध्यम्।

पदकृत्यम्

अन्वयेति। केवलान्वयिन्यतिव्याप्तिवारणाय अन्वयेति। केवलव्यतिरेकिण्यतिव्याप्तिवारणाय व्यतिरेकेति।

अत्र सर्वस्यापि पक्षत्वाद् दृष्टान्तो नास्ति ।

पदकृत्यम्

अत्रेति। उपदर्शितानुमाने इत्यर्थः।

साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतकत्वाद्, घटवदिति। (अत्र) कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम्।

दीपिका

विरुद्धं लक्षयति– साध्येति।

न्यायबोधिनी

विरुद्धं लक्षयति– साध्याभावव्याप्त इति। साध्याभावव्याप्तिः=साध्याभावनिरूपितव्यतिरेकव्याप्तिः=साध्यव्यापकीभूताभावप्रतियोगित्वम्। तथा च पक्षविशेष्यकसाध्याभावव्याप्यहेतुप्रकारकज्ञानात् पक्षविशेष्यकसाध्यप्रकारकानुमितिप्रतिबन्धः फलम्। एवं सत्प्रतिपक्षेऽपि। विरुद्धसत्प्रतिपक्षयोर्विशेषस्तु विरुद्धहेतोरेकत्वेन सत्प्रतिपक्षहेतोर्द्वित्वेन च ज्ञातव्यः।

पदकृत्यम्

विरुद्धं लक्षयति– साध्येति। सद्धेतुवारणाय साध्याभावव्याप्त इति। असम्भववारणाय व्याप्तेति। सत्प्रतिपक्षवारणाय सत्प्रतिपक्षभिन्न इत्यपि बोध्यम्। कृतकत्वादिति। कार्यत्वादित्यर्थः। कृतकत्वमिति। अनित्यत्वेन व्याप्तमिति। यद्यत्कृतकं तत्तदनित्यमिति व्याप्तिर्भवत्येव तथेति भावः।

यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववदिति, शब्दोऽनित्यः कार्यत्वाद् घटवदिति ।

दीपिका

सत्प्रतिपक्षं लक्षयति– यस्येति।

न्यायबोधिनी

सत्प्रतिपक्षे द्वौ हेतू, विरुद्धे एको हेतुरिति भावः। साध्याभावप्रतिहेतुमत्पक्षः सत्प्रतिपक्ष इति यावत्। साध्याभावसाधकहेतुः साध्यसाधकत्वेनोपन्यस्त इत्यसामर्थ्यसूचनमपि।

पदकृत्यम्

सत्प्रतिपक्षं लक्षयति– साध्येति। यस्य=हेतोः, साध्याभावसाधकं=साध्याभावस्यानुमापकं, हेत्वन्तरं=प्रतिपक्षो हेतुर्विद्यते स हेतुः 'सत्प्रतिपक्ष' इत्यर्थः। अयमेव 'प्रकरणसम' इत्युच्यते। विरुद्धवारणाय हेत्वन्तरं यस्येति। वह्न्यादिवारणाय साध्याभावेति।

असिद्धस्त्रिविधः – आश्रयासिद्धः, स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति।

दीपिका

असिद्धं विभजते– असिद्ध इति।

पदकृत्यम्

असिद्धं विभजते– असिद्ध इति। आश्रयासिद्धाद्यन्यतमत्वमसिद्धत्वम्।

आश्रयासिद्धो यथा – गगनारविन्दं सुरभ्यरविन्दत्वात् सरोजारविन्दवत्। अत्र गगनारविन्दमाश्रयः, स च नास्त्येव ।

दीपिका

आश्रयासिद्धमुदाहरति– गगनेति।

न्यायबोधिनी

आश्रयासिद्ध इति। आश्रयासिद्धिर्नाम पक्षतावच्छेदकविशिष्टपक्षाप्रसिद्धिः। यथेति। अत्रारविन्दे गगनीयत्वाभावे निश्चिते गगनीयत्वविशिष्टारविन्दे सौरभ्यानुमितिप्रतिबन्धः फलम्।

पदकृत्यम्

आश्रयासिद्धत्वं च पक्षतावच्छेदकाभाववत्पक्षकत्वम्। भवति हि अरविन्दत्वे गगनीयत्वरूपपक्षतावच्छेदकाभाववत्पक्षकत्वम्, अरविन्दरूपपक्षे गगनीयत्वविरहात्। ननु कथमरविन्दे गगनीयत्वविरहोऽत आह– अत्रेति। उपदर्शितानुमान इत्यर्थः।

स्वरूपासिद्धो यथा – शब्दो गुणश्चाक्षुषत्वाद्रूपवत् । अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात् ।

दीपिका

स्वरूपासिद्धमुदाहरति– शब्देति।

न्यायबोधिनी

स्वरूपासिद्ध इति। स्वरूपासिद्धिर्नाम पक्षे हेत्वभावः। तथा च हेत्वभावविशिष्टपक्षज्ञानात्पक्षविशेष्यकहेतुप्रकारकपरामर्शानुपपत्त्या परामर्शप्रतिबन्धः फलम्।

पदकृत्यम्

पक्षे हेत्वभावः स्वरूपासिद्धिः। सद्धेत्वभावेऽतिव्याप्तिवारणाय पक्षे इति। घटाद्यभाववारणाय हेत्विति। सोऽयं स्वरूपासिद्धः– शुद्धासिद्ध-भागासिद्ध-विशेषणासिद्ध-विशेष्यासिद्धभेदेन चतुर्विधः। तत्राद्यस्तु उपदर्शित एव। द्वितीयो यथा 'उद्भूतरूपादिचतुष्टयं गुणः, रूपत्वाद्' इत्यत्र रूपत्वहेतोः पक्षैकदेशावृत्तित्वेन तस्य भागे स्वरूपासिद्धत्वम्। तृतीयो यथा– 'वायुः प्रत्यक्षः, रूपवत्त्वे सति स्पर्शवत्त्वाद्' इत्यत्र रूपवत्त्वविशेषणस्य वायाववृत्तेस्तद्विशिष्टस्पर्शवत्त्वस्यापि तथात्वेन तस्य स्वरूपासिद्धत्वं निर्वहति, विशेषणाऽभावे विशिष्टस्याप्यभावात्। तुरीयो यथा– अत्रैव विशेषणविशेष्यवैपरीत्येन हेतुः, तस्य स्वरूपासिद्धत्वं तु विशेष्याभावप्रयुक्तविशिष्टाभावादिति बोध्यम्।

सोपाधिको हेतुर्व्याप्यत्वासिद्धः ।

दीपिका

व्याप्यत्वासिद्धस्य लक्षणमाह– सोपाधिक इति।

न्यायबोधिनी

व्याप्यत्वासिद्ध इति। प्रकृते धूमव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेद् धूमे आर्द्रेन्धनसंयोगव्याप्यत्वं गृहीतम्, एवं वह्नेरव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेद्वह्नौ तदव्याप्यत्वं गृहीतम्, तदेव व्यभिचरितत्वम्। तथा चोपाधिव्यभिचरितत्वं साधने गृहीतं चेदुपाधिभूतार्द्रेन्धनसंयोगव्याप्यधूमव्यभिचारित्वं गृहीतमेव।

अनुमानप्रकारश्च पूर्वानुमानस्थहेतुं पक्षीकृत्य 'वह्निर्धूमव्यभिचारी, धूमव्यापकार्द्रेन्धनसंयोगव्यभिचारित्वात् घटत्वादिवत्। यो यत्साध्यव्यापकव्यभिचारी स सर्वोऽपि साध्यव्यभिचारी'ति रीत्या बोध्यः। एवं प्रकारेण प्रकृतानुमानहेतुभूते पक्षे साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम्। तथा च 'धूमाभाववद्वृत्तित्व'रूपधूमव्यभिचारे गृहीते, वह्नौ 'धूमाभाववदवृत्तित्व'रूपव्याप्तिज्ञानप्रतिबन्धः फलम्।

न च व्याप्यत्वासिद्धेः व्यभिचाराभेद इति वाच्यम्, धूमाभाववद्वृत्तित्वाभावाभावत्वेन व्याप्यत्वासिद्धत्वं, धूमाभाववद्वृत्तित्वेन व्यभिचारित्वमिति भेदात्।

पदकृत्यम्

व्याप्यत्वासिद्धं निरूपयति– सोपाधिक इति।

साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः।

दीपिका

उपाधिलक्षणमाह– साध्येति। उपाधिश्चतुर्विधः– केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति। आद्य आर्द्रेन्धनसंयोगः। द्वितीयो यथा– 'वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात्' इत्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्त्वम्। तृतीयो यथा– 'प्रागभावो विनाशी जन्यत्वात्' इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम्। चतुर्थो यथा– 'प्रागभावो विनाशी प्रमेयत्वात्' इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम्।

पदकृत्यम्

ननु कोऽयमुपाधिरत आह– साध्येति। 'साधनाव्यापक उपाधि'रित्युक्ते 'शब्दोऽनित्यः, कृतकत्वाद्' इत्यत्र 'सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्रहणार्हत्वम्' अप्युपाधिः स्यात्, तदर्थं साध्यव्यापकत्वमुक्तम्। तावत्युक्ते सामान्यवत्त्वादिनाऽनित्यत्वसाधने 'कृतकत्व'मुपाधिः स्यात्तदर्थं साधनाव्यापकत्वमुक्तम्। उपाधिभेदमादायासम्भववारणाय व्यापकत्वशरीरेऽप्यत्यन्तपदमादेयम्। साधनभेदमादाय साधनस्योपाधित्ववारणायाव्यापकत्वशरीरेऽप्यत्यन्तपदमवश्यं देयम्। सोऽयमुपाधिस्त्रिविधः– केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकश्चेति। तत्राद्य उपदर्शितः। एवं 'क्रत्वन्तर्वर्तिनी हिंसा अधर्मजनिका, हिंसात्वात्, क्रतुबाह्यहिंसावद्' इत्यत्र निषिद्धत्वमुपाधिः, तस्य 'यत्राधर्मजनकत्वं तत्र निषिद्धत्वम्' इति साध्यव्यापकता। यत्र हिंसात्वं तत्र न निषिद्धत्वमिति निषिद्धत्वमुपाधिः साधनाऽव्यापकः, क्रतुहिंसायां निषिद्धत्वस्याभावात्। 'न हिंस्यात्सर्वभूतानि' इति सामान्यवाक्यतः 'पशुना यजेत्' इत्यादिविशेषवाक्यस्य बलीयस्त्वात्। अतो हिंसात्वं नाधर्मजनकत्वे प्रयोजकमपि तु निषिद्धत्वमेवेत्यादिकमपि द्रष्टव्यम्। द्वितीयो यथा– 'वायुः प्रत्यक्षः, प्रत्यक्षस्पर्शाश्रयत्वाद्' इत्यत्रोद्भूतरूपवत्त्वमुपाधिः। तस्य 'यत्र प्रत्यक्षत्वं तत्रोद्भूतरूपवत्त्वम्' इति न केवलसाध्यव्यापकत्वं, रूपे व्यभिचारात्, किन्तु द्रव्यत्वलक्षणो यः पक्षधर्मस्तदवच्छिन्नबहिःप्रत्यक्षत्वं यत्र, तत्रोद्भूतरूपवत्त्वमिति पक्षधर्मावच्छिन्नसाध्यव्यापकत्वमेव। आत्मनि व्यभिचारवारणाय बहिःपदम्। यत्र प्रत्यक्षस्पर्शाश्रयत्वं यत्र नोद्भूतरूपवत्त्वमिति साधनाव्यापकत्वं च वायौ, तत्रोद्भूतरूपविरहात्। तृतीयो यथा– 'ध्वंसो विनाशी जन्यत्वाद्' इत्यत्र भावत्वमुपाधिस्तस्य 'यत्र विनाशित्वं तत्र भावत्वम्' इति न केवलसाध्यव्यापकत्वं, प्रागभावे भावत्वविरहात्, किन्तु जन्यत्वरूपसाधनावच्छिन्नविनाशित्वं यत्र, तत्र भावत्वमिति साधनावच्छिन्नसाध्यव्यापकत्वमेव। यत्र जन्यत्वं तत्र भावत्वमिति साधनाव्यापकत्वं च ध्वंसे, तत्र भावत्वविरहात्। एवं 'स श्यामो मित्रातनयत्वाद्' इत्यत्र शाकपाकजन्यत्वमुपाधिः, श्यामत्वस्य नीलघटेऽपि सत्त्वान्न केवलसाध्यव्यापकत्वं, किन्तु साधनावच्छिन्नसाध्यव्यापकत्वमेव। अष्टमे पुत्रे शाकपाकजन्यत्वविरहेण साधनाव्यापकत्वं चेत्यादिकमपि द्रष्टव्यम्।

साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् ।

यथा – पर्वतो धूमवान् वह्निमत्त्वाद् इत्यत्र आर्द्रेन्धनसंयोग उपाधिः । तथाहि यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकत्वम्। यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति, अयोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकत्वम् । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वाद् आर्द्रेन्धनसंयोग उपाधिः ।

सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम्।

यस्य साध्याभावः प्रमाणान्तरेण पक्षे निश्चितः, स बाधितः। यथा वह्निरनुष्णो द्रव्यत्वादिति। अत्रानुष्णत्वं साध्यम्, तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति बाधितत्वम् ।

दीपिका

बाधितस्य लक्षणमाह– यस्येति। अत्र बाधस्य ग्राह्याभावनिश्चयत्वेन सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षादनुमितिप्रतिबन्धकत्वम्। इतरेषां तु परामर्शप्रतिबन्धकत्वम्। तत्रापि साधारणस्याव्यभिचाराभावतया, विरुद्धस्य सामानाधिकरण्याभावतया, व्याप्यत्वासिद्धस्य विशिष्टव्याप्त्यभावतयाऽसाधारणानुपसंहारिणोर्व्याप्तिसंशयाधायकत्वेन च व्याप्तिज्ञानप्रतिबन्धकत्वम्। आश्रयासिद्धस्वरूपासिद्धयोः पक्षधर्मताज्ञानप्रतिबन्धकत्वम्। उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकः। सिद्धसाधनं तु पक्षताविघटकतया आश्रयासिद्धेऽन्तर्भवतीति प्राञ्चः। निग्रहस्थानान्तरमिति नवीनाः।

इति तर्कसङ्ग्रहदीपिकायामनुमानपरिच्छेदः॥

न्यायबोधिनी

यस्येति। यस्य=हेतोः, साध्यस्याभावः साध्याभावः=साध्यबाधः (स च) प्रमाणान्तरेण=प्रत्यक्षादिप्रमाणेन, पक्षे निश्चितः स बाधित इत्यर्थः। तथा च प्रात्यक्षिकसाध्यबाधितनिश्चये जाते साध्यानुमितिप्रतिबन्धः फलम्। बाधितसाध्यकत्वाद् बाधितहेतुरित्युच्यते।

इति न्यायबोधिन्यामनुमानपरिच्छेदः।

पदकृत्यम्

यस्येति। सद्धेतुवारणाय प्रमाणान्तरेणेति। घटादिवारणाय साध्येति।

इति पदकृत्यकेऽनुमानपरिच्छेदः।