सामग्रीं त्यजन्तु

वेदान्तसङ्ग्रहः — ५. अपवादः

दर्शित-सृष्टि-क्रम-विपर्ययेण लय-प्रतिपादनम् अपवादः । तथा हि – कार्यस्य घटादेः स्वकारण-मृदादौ लय-दर्शनात् भूत-कार्याणां भौतिकानां पञ्चीकृत-भूतेषु लयः । कारण-व्यतिरेकेण कार्यं नास्तीति अनुचिन्तनमेव लयत्वेन विवक्षितम्। मृद्-व्यतिरेकेण घटस्य इव, तन्तु-व्यतिरेकेण पटस्य इव, भूत-व्यतिरेकेण भौतिक-जातस्य असत्त्वात् ॥१॥

पञ्चीकृतानां च तेषाम् अपञ्चीकृतेषु लयः । अपञ्चीकृतानां च तेषां मध्ये तावत् पृथिव्याः जले लयः, जलस्य च अग्नौ, तेजसश्च वायौ, वायोश्च आकाशे तस्य आकाशस्य च मायायां लयः। एवम् आकाशादि-भौतिकान्त-सर्वप्रपञ्च-विलये माया स्वयमेव नश्यति, प्रपञ्चरूप-कार्य-गम्यत्वात् तस्याः । "निस्तत्त्वा कार्य-गम्या अस्य शक्तिः माया अग्निशक्तिवत्" इति उक्तत्वात् विद्यारण्य-गुरुभिः । यद्वा मायायाः ब्रह्मणि लयः ब्रह्म-सत्ताधीन-सत्ताकत्वेन मायायाः, ब्रह्म-व्यतिरेकेण असत्त्वानुचिन्तनम् एव मायायाः लयः। एवं "नाहं ब्रह्म" इति; "ब्रह्म न जानामि" इति च प्रतीत्योः हेतुभूतायां मायायां नष्टायां स्वप्रकाश-चैतन्यं ब्रह्मैव अवशिष्यते । तच्च ब्रह्म स्वात्मैव । जीवब्रह्म-भेदक-उपाधेः अन्तःकरणस्य समूलस्य नष्टत्वात् ॥२॥

न च दर्पण-भङ्गात् प्रतिबिम्ब-नाश इव, अन्तःकरण-नाशात् जीव-नाशः इति वाच्यम् । दर्पण-नाशात् प्रतिबिम्ब-नाशस्यापि अस्माकम् अनिष्टत्वात्। किन्तु दर्पणे नष्टे सति प्रतिबिम्बं बिम्बेन ऐक्यं प्राप्नोति इत्येव। यद्वा घटाकाशस्य घट-नाशात् महाकाशत्वम् एव । अन्तःकरणावच्छिन्नचैतन्यस्य तन्नाशात् शुद्धचैतन्यत्वम् इति न दोषः । तदेवं व्यवहारतः एव जीवस्य जीवत्वम् । वस्तुतस्तु ब्रह्मत्वमेव इति, सर्वजगन्निषेधेन ब्रह्मस्वरूपज्ञानम् अध्यारोप-अपवादन्यायेन ब्रह्मज्ञानम् इति उच्यते। अत्र च "नेति नेति" इति श्रुतयः प्रमाणम् ॥३॥

॥इति अपवादवर्णनम् ॥