सामग्रीं त्यजन्तु

तर्कसङ्ग्रहः — लक्षणप्रकरणम्

तत्र गन्धवती पृथिवी ।

दीपिका

तत्रोद्देशादिक्रमानुसारात् पृथिव्या लक्षणमाह– गन्धवतीति। नाम्ना पदार्थसंकीर्तनमुद्देशः। उद्देशक्रमे च सर्वत्रेच्छैव नियामिका। ननु सुरभ्यसुरभ्यवयवारब्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादादव्याप्तिः। न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम्, अवयवगन्धस्यैव तत्र प्रतीतिसम्भवेन चित्रगन्धानङ्गीकारात्। किञ्चोत्पन्नविनष्टघटादावव्याप्तिरिति चेत्– न, गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्यैव विवक्षितत्वात्। ननु जलादावपि गन्धप्रतीतेरतिव्याप्तिरिति चेत्– न, अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात्। ननु तथापि कालस्य सर्वाधारतया सर्वेषां लक्षणानां तत्रातिव्याप्तिरिति चेत्– न, सर्वाधारताप्रयोजकसम्बन्धभिन्नसम्बन्धेन लक्षणस्याभिमतत्वात्।

न्यायबोधिनी

गन्धवतीति। गन्धवत्त्वं पृथिव्या लक्षणम्। लक्ष्या पृथिवी। पृथिवीत्वं लक्ष्यतावच्छेदकम्। यद्धर्मावच्छिन्नं लक्ष्यं स धर्मो लक्ष्यतावच्छेदकः। यो धर्मो यस्याऽवच्छेदकः, स तद्धर्मावच्छिन्नः। तथा च लक्ष्यतावच्छेदकं पृथिवीत्वं चेल्लक्ष्यता पृथिवीत्वावच्छिन्ना। गन्धसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं पृथिव्या लक्षणम्। एवं शीतस्पर्शवत्त्वादिलक्षणेषु जलादीनां लक्ष्यता, जलत्वादीनां लक्ष्यतावच्छेदकत्वं च बोध्यम्।

सा द्विविधा । नित्या अनित्या च । नित्या परमाणुरूपा, अनित्या कार्यरूपा ।

दीपिका

पृथिवीं विभजते– सा द्विविधेति। नित्यत्वं ध्वंसाप्रतियोगित्वम्। ध्वंसप्रतियोगित्वमनित्यत्वम्।

पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्। शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृत्पाषाणादिः ।

दीपिका

प्रकारान्तरेण विभजते– पुनरिति। आत्मनो भोगायतनं शरीरम्। यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम्। सुखदुःखान्यतरसाक्षात्कारो भोगः। शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वमिन्द्रियत्वम्। शरीरेन्द्रियभिन्नो विषयः। एवं च गन्धवच्छरीरं पार्थिवशरीरम्। गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषय इति तत्तल्लक्षणं बोध्यम्। पार्थिवशरीरं दर्शयति– शरीरमिति। पार्थिवेन्द्रियं दर्शयति– इन्द्रियमिति। गन्धग्राहकमिति प्रयोजनकथनम्। घ्राणमिति संज्ञा। नासाग्रेत्याश्रयोक्तिः। एवमुत्तरत्रापि ज्ञेयम्। पार्थिवविषयं दर्शयति– विषयेति।

पदकृत्यम्

शरीरेति। यद्भोगायतनं तदेव शरीरं, चेष्टाश्रयो वा। इन्द्रियमिति। चक्षुरादावतिव्याप्तिवारणाय गन्धग्राहकमिति। कालादावतिप्रसक्तिवारणाय इन्द्रियमिति। विषय इति। शरीरेन्द्रियभिन्नत्वे सत्युपभोगसाधनं विषयः। शरीरावतिव्याप्तिनिरासाय सत्यन्तम्। परमाण्वादावतिव्याप्तिवारणाय विशेष्यदलम्। कालादिवारणाय जन्यत्वे सतीत्यपि बोध्यम्।

शीतस्पर्शवत्य आपः ।

दीपिका

अपां लक्षणमाह– शीतेति। उत्पन्नविनष्टजलेऽव्याप्तिवारणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्त्वे तात्पर्यम्। शीतं शिलातलम् इत्यादौ जलसम्बन्धादेव शीतस्पर्शभानमिति नातिव्याप्तिः। अन्यत्सर्वं पूर्वरीत्या व्याख्येयम्।

पदकृत्यम्

शीतेति। तेज-आदावतिव्याप्तिवारणाय शीतेति। आकाशवारणाय स्पर्शेति। कालादावतिप्रसक्तिवारणाय समवायसम्बन्धेनेति पदं देयम्।

ताश्च द्विविधाः – नित्या अनित्याश्च । नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः ।

ताः पुनस्त्रिविधाः । शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ।

पदकृत्यम्

इन्द्रियमिति। त्वगादावतिव्याप्तिवारणाय रसग्राहकमिति। रसनेन्द्रियरसन्निकर्षादावतिव्याप्तिनिरासाय इन्द्रियमिति। सरिदिति। आदिना तडागहिमकरकादीनां संग्रहः।

उष्णस्पर्शवत्तेजः ।

दीपिका

तेजसो लक्षणमाह– उष्णस्पर्शवदिति। उष्णं जलम् इति प्रतीतेस्तेजःसम्बन्धानुविधायित्वान्नातिव्याप्तिः।

पदकृत्यम्

उष्णेति। जलादावतिव्याप्तिनिरासाय उष्णेति। कालादावतिप्रसङ्गवारणाय समवायसम्बन्धेनेति पदं देयम्।

तच्च द्विविधं नित्यमनित्यं च । नित्यं परमाणुरूपम्। अनित्यं कार्यरूपम्।

पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात्। शरीरमादित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति ।

पदकृत्यम्

इन्द्रियमिति। घ्राणादावतिव्याप्तिवारणाय रूपग्राहकमिति। कालादावतिव्याप्तिनिरसनाय इन्द्रियमिति।

विषयश्चतुर्विधः – भौमदिव्योदर्याकरजभेदात् । भौमं वह्न्यादिकम्। अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरुदर्यम्। आकरजं सुवर्णादि ।

दीपिका

विषयं विभजते– भौमेति। ननु सुवर्णं पार्थिवं, पीतत्वाद् गुरुत्वाद्धरिद्रादिवदिति चेत्– न, अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृतादौ द्रवत्वनाशादर्शनेन असति प्रतिबन्धके पार्थिवद्रव्यद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात्। सुवर्णस्यात्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्वानुपपत्तेः। तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः, रूपवत्तया वाय्वादिष्वन्तर्भावात्, तैजसत्वसिद्धिः। तत्रोष्णस्पर्शभास्वररूपयोरुपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः। तस्मात् सुवर्णं तैजसमिति सिद्धम्।

पदकृत्यम्

भेदादिति पदं प्रत्येकमभिसम्बध्यते। भौममिति। आदिपदेन खद्योतगततेजःप्रभृतेः परिग्रहः। विद्युदादीति। आदिना अर्कचन्द्रादीनां परिग्रहः। भुक्तेति। भुक्तस्याऽन्नादेः, पीतस्य जलस्य परिणामो जीर्णता, तस्य हेतुरुदर्यमित्यर्थः। सुवर्णेति। आदिना रजतादिपरिग्रहः।

रूपरहितस्पर्शवान् वायुः ।

दीपिका

वायुं लक्षयति– रूपरहितेति। आकाशादावतिव्याप्तिवारणाय स्पर्शवानिति। पृथिव्यादावतिव्याप्तिवारणाय रूपरहितेति।

न्यायबोधिनी

एवं पृथिव्यादित्रिकं निरूप्य वायुं निरूपयति– रूपरहित इति। रूपरहितत्वे सति स्पर्शवत्त्वं वायोर्लक्षणम्। 'सति' सप्तम्या विशिष्टार्थकतया रूपरहितत्वविशिष्टस्पर्शवत्त्वं वायोर्लक्षणम्। विशेषणांशाऽनुपादाने स्पर्शवत्त्वमात्रस्य लक्षणत्वे पृथिव्यादित्रिकेऽतिव्याप्तिः, तद्वारणाय विशेषणोपादानम्। तावन्मात्रोपादाने आकाशादावतिव्याप्तिः, तद्वारणाय विशेष्योपादानम्।

अतिव्याप्तिर्नाम– अलक्ष्ये लक्षणसत्त्वम्। यथा– गोः 'शृङ्गित्वं' लक्षणं कृतं चेल्लक्ष्यभूतगोभिन्नमहिष्यादावतिव्याप्तिस्तत्रापि शृङ्गित्वस्य विद्यमानत्वात्। अव्याप्तिर्नाम– लक्ष्यैकदेशाऽवृत्तित्वम्। लक्ष्यैकदेशे=लक्ष्यतावच्छेदकाश्रयीभूते क्वचिल्लक्ष्ये लक्षणाऽसत्त्वमव्याप्तिरित्यर्थः। यथा– गोर्नीलरूपवत्त्वं लक्षणं कृतं चेल्लक्ष्यतावच्छेदकाश्रयीभूतश्वेतगवि अव्याप्तिस्तत्र नीलरूपाभावात्। असम्भवो नाम– लक्ष्यमात्रे कुत्रापि लक्षणासत्त्वम्। यथा– गोरेकशफवत्त्वं (लक्षणं कृतं चेत्) गोसामान्यस्य द्विशफवत्त्वेन एकशफवत्त्वस्य कुत्राप्यसत्त्वात्।

अतिव्याप्त्यव्याप्त्यसम्भवानां निष्कृष्टलक्षणानि– लक्ष्यतावच्छेदकसामानाधिकरण्ये सति लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यम् अतिव्याप्तिः। अव्याप्तिस्तु– लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वम्। असम्भवस्तु– लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम्।

पदकृत्यम्

रूपेति। घटादिवारणाय विशेषणम्। आकाशादिवारणाय विशेष्यम्।

स द्विविधो नित्योऽनित्यश्च । नित्यः परमाणुरूपः। अनित्यः कार्यरूपः ।

पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः।

पदकृत्यम्

इन्द्रियमिति। चक्षुरादिवारणाय स्पर्शग्राहकमिति। कालादावतिव्याप्तिवारणाय इन्द्रियमिति। वृक्षेति। आदिपदेन जलादिपरिग्रहः।

शरीरान्तः सञ्चारी वायुः प्राणः, स चैकोऽप्युपाधिभेदात् प्राणापानादिसंज्ञां लभते ।

दीपिका

ननु प्राणस्य कुत्रान्तर्भाव इत्यत आह– शरीरेति। स चेति। एक एव प्राणः स्थानभेदात् प्राणापानादिशब्दैर्व्यवह्रियत इत्यर्थः। स्पर्शानुमेयो वायुः। तथाहि– योऽयं वायौ वाति सत्यनुष्णाशीतस्पर्शो भासते स स्पर्शः क्वचिदाश्रितो गुणत्वाद्रूपवत्। न चास्य पृथिव्याश्रय उद्भूतस्पर्शवतः पार्थिवस्योद्भूतरूपवत्त्वनियमात्। न जलतेजसी, अनुष्णाशीतस्पर्शवत्त्वात्। न विभुचतुष्टयम्, सर्वत्रोपलब्धिप्रसङ्गात्। न मनः, परमाणुस्पर्शस्यातीन्द्रियत्वात्। तस्माद्यः प्रतीयमानस्पर्शाश्रयः स वायुः। ननु वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वाद् घटवदिति चेत्– न, उद्भूतरूपवत्त्वस्योपाधित्वात्। यत्र द्रव्यत्वे सति बहिरिन्द्रियजन्यप्रत्यक्षत्वं तत्रोद्भूतरूपवत्त्वमिति घटादौ साध्यव्यापकत्वम्। न चैवं तप्तवारिस्थतेजसोऽप्यप्रत्यक्षत्वापत्तिः, इष्टत्वात्। तस्माद्रूपरहितत्वाद्वायुरप्रत्यक्षः।

इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः कथ्यते। ईश्वरस्य चिकीर्षावशात्परमाणुषु क्रिया जायते। ततः परमाणुद्वयसंयोगे सति द्व्यणुकमुत्पद्यते। त्रिभिर्द्व्यणुकैस्त्र्यणुकम्। एवं चतुरणुकादिक्रमेण महती पृथिवी महत्यापो महत्तेजो महान्वायुरुत्पद्यते। एवमुत्पन्नस्य कार्यद्रव्यस्य सञ्जिहीर्षावशात्परमाणुषु क्रिया। क्रियया परमाणुद्वयविभागे सति द्व्यणुकनाशः। ततस्त्र्यणुकनाशः। ततश्चतुरणुकस्येत्येवं महापृथिव्यादिनाशः। असमवायिकारणनाशाद् द्व्यणुकनाशः; समवायिकारणनाशात्त्र्यणुकनाश इति संप्रदायः। सर्वत्रासमवायिकारणनाशाद् द्रव्यनाशः इति नवीनाः। किं पुनः परमाणुसद्भावे प्रमाणम्? उच्यते, जालसूर्यमरीचिस्थं सूक्ष्मतमं यद्रज उपलभ्यते तत्सावयवम्, चाक्षुषद्रव्यत्वात्पटवत्। त्र्यणुकावयवोऽपि सावयवः; महदारम्भकत्वात्तन्तुवत्। यो द्व्यणुकावयवः, स परमाणुः। स च नित्यः। तस्यापि कार्यत्वेऽनवस्थाप्रसङ्गात्। तथा च मेरुसर्षपयोरपि समानपरिमाणत्वापत्तिः। सृष्टिप्रलयसद्भावे 'धाता यथा पूर्वमकल्पयत्' इत्यादिश्रुतिः प्रमाणम्। सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलयः। सर्वभावकार्यध्वंसो महाप्रलय इति विवेकः।

पदकृत्यम्

शरीरान्तरिति। महावाय्वादावतिव्याप्तिवारणाय विशेषणम्। मन-आदिवारणाय विशेष्यम्। धनञ्जयवारणाय संचारीति। उपाधीति। मुखनासिकाभ्यां निर्गमनप्रवेशनात्प्राणः, जलादेरधोनयनादपानः, भुक्तपरिणामाय जाठरानलस्य समुन्नयनात्समानः। अन्नादेरूर्ध्वनयनादुदानः। नाडीमुखेषु वितननाद् व्यानः, इति क्रियारूपोपाधिभेदात्तथा व्यवह्रियत इत्यर्थः।

शब्दगुणकमाकाशम्, तच्चैकं विभु नित्यं च।

दीपिका

आकाशं लक्षयति– शब्दगुणकमिति। नन्वाकाशमपि किं पृथिव्यादिवन्नाना? नेत्याह– तच्चैकमिति। भेदे प्रमाणाभावादित्यर्थः। एकत्वादेव सर्वत्रोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह– विभ्विति। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्। मूर्तत्वं परिच्छिन्नपरिमाणवत्त्वं क्रियावत्त्वं वा। विभुत्वादेवात्मवन्नित्यमित्याह– नित्यं चेति।

न्यायबोधिनी

आकाशं लक्षयति– शब्दगुणकमिति। अत्र गुणपदमाकाशे शब्द एव विशेषगुण इति द्योतनाय, न त्वतिव्याप्तिवारणाय; समवायेन शब्दवत्त्वमात्रस्य सम्यक्त्वात्। तच्चैकमिति। अनेकत्वे मानाभावादिति भावः। विभ्विति। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्। मूर्तत्वं च क्रियावत्त्वम्। पृथिव्यप्तेजोवायुमनांसि मूर्तानि। पृथिव्यप्तेजोवाय्वाकाशेतिपञ्चकं भूतपदवाच्यम्। भूतत्वं नाम बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्।

पदकृत्यम्

शब्देति। शब्दो गुणो यस्य तत्तथा। असम्भववारणाय शब्द-गुणोभयम्। विभ्विति। सर्वमूर्तद्रव्यसंयोगि।

अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ।

दीपिका

कालं लक्षयति– अतीतेति। सर्वाधारः कालः सर्वकार्यनिमित्तकारणं च।

न्यायबोधिनी

कालं लक्षयति– अतीतेति। व्यवहारहेतुत्वस्य लक्षणत्वे 'घट' इति व्यवहारहेतुभूतघटादावतिव्याप्तिः, तद्वारणाय अतीतादीति विशेषणोपादानम्।

पदकृत्यम्

अतीतेति। 'अतीत' इत्यादिर्यो व्यवहारः 'अतीतो भविष्यन्वर्तमान' इत्यात्मकस्तस्याऽसाधारणहेतुः काल इत्यर्थः। नन्विदं लक्षणमाकाशेऽतिव्याप्तं, व्यवहारस्य शब्दात्मकत्वादिति चेत्– न, अत्र हेतुपदेन निमित्तहेतोर्विवक्षितत्वात्। न चैवं कण्ठताल्वाद्यभिघातेऽतिव्याप्तिरिति वाच्यम्, विभुत्वस्यापि निवेशात्।

प्राच्यादिव्यवहारहेतुर्दिक्। सा चैका विभ्वी नित्या च ।

दीपिका

दिशो लक्षणमाह– प्राचीति। दिगपि कार्यमात्रे निमित्तकारणम्।

न्यायबोधिनी

दिशो लक्षणमाह– प्राच्येति। उदयाचलसंनिहिता या दिक् सा प्राची। अस्ताचलसंनिहिता या दिक् सा प्रतीची। मेरोः संनिहिता या दिक् सा उदीची। मेरोर्व्यवहिता या दिक् सा अवाची।

पदकृत्यम्

प्राचीति। 'इयं प्राची' 'इयमवाची' 'इयं प्रतीची' 'इयमुदीची' इत्यादिव्यवहारासाधारणं कारणं दिगित्यर्थः। हेतुर्दिगित्युच्यमाने परमाण्वादावतिव्याप्तिः स्यात्तद्वारणाय प्राच्यादिव्यवहारहेतुरिति। आकाशादिवारणाय असाधारणेत्यपि बोध्यम्।

ज्ञानाधिकरणमात्मा ।

दीपिका

आत्मनो लक्षणमाह– ज्ञानेति।

न्यायबोधिनी

आत्मानं निरूपयति– ज्ञानाधिकरणमिति। अधिकरणपदं समवायेन ज्ञानाश्रयत्वलाभार्थम्।

पदकृत्यम्

ज्ञानाधिकरणेति। भूतलादिवारणाय ज्ञानेति। कालादिवारणाय समवायेनेत्यपि देयम्।

स द्विविधो जीवात्मा परमात्मा चेति । तत्रेश्वरः सर्वज्ञः परमात्मा एक एव ।

दीपिका

आत्मानं विभजते– स द्विविध इति। परमात्मनो लक्षणमाह– तत्रेति। नित्यज्ञानाधिकरणत्वमीश्वरत्वम्। नन्वीश्वरस्य सद्भावे किं प्रमाणम्? न तावत्प्रत्यक्षम्, तद्धि बाह्यमाभ्यन्तरं वा? नाद्यम्, अरूपिद्रव्यत्वात्। नान्त्यम्, आत्मसुखादिव्यतिरिक्तत्वात्। नाप्यनुमानम् लिङ्गाभावात्। नाप्यागमः तथाविधागमाभावादिति चेत् न; क्षित्यंकुरादिकं कर्तृजन्यं, कार्यत्वात्, घटवदित्यनुमानस्य प्रमाणत्वात्। उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम्। उपादानं समवायिकारणम्। सकलपरमाण्वादिसूक्ष्मदर्शित्वात्सर्वज्ञत्वम्। 'यः सर्वज्ञः स सर्ववित्' इत्याद्यागमोऽपि तत्र प्रमाणम्।

पदकृत्यम्

ईश्वर इति। समवायसम्बन्धेन नित्यज्ञानवानीश्वरः।

जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च ।

दीपिका

जीवस्य लक्षणमाह– जीव इति। सुखाद्याश्रयत्वं जीवलक्षणम्। ननु 'मनुष्योऽहं, ब्राह्मणोऽहम्' इत्यादौ सर्वत्राहंप्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मेति चेत्– न, शरीरस्यात्मत्वे करपादादिनाशे सति शरीरनाशादात्मनोऽपि नाशप्रसङ्गात्। नापीन्द्रियाणामात्मत्वम्; तथात्वे 'योऽहं घटमद्राक्षं सोऽहमिदानीं त्वचा स्पृशामि' इत्यनुसन्धानाभावप्रसङ्गादन्यानुभूतेऽन्यस्यानुसन्धानायोगात्। तस्माद् देहेन्द्रियव्यतिरिक्तो जीवः। सुखदुःखादिवैचित्र्यात्प्रतिशरीरं भिन्नः। स च न परमाणुपरिमाणः, शरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात्। न मध्यमपरिमाणः तथा सत्यनित्यत्वप्रसङ्गेन कृतनाशाकृताभ्यागमप्रसङ्गात्। तस्मान्नित्यो विभुर्जीवः।

पदकृत्यम्

जीव इति। सुखादिसमवायिकारणं जीव इत्यर्थः।

सुखाद्युपलब्धिसाधनमिन्द्रियं मनः। तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ।

दीपिका

मनसो लक्षणमाह– सुखेति। स्पर्शरहितत्वे सति क्रियावत्त्वं मनसो लक्षणम्। मनो विभजते– तच्चेति। एकैकस्यात्मन एकैकं मन आवश्यकम् इत्यात्मनोऽनेकत्वान्मनसोऽप्यनेकत्वमित्यर्थः। परमाणुरूपमिति। मध्यमपरिमाणत्वेऽनित्यत्वप्रसङ्गादित्यर्थः। ननु मनो नाणु, किन्तु विभु, स्पर्शरहितद्रव्यत्वादाकाशवदिति चेत्, न; मनसो विभुत्व आत्ममनःसंयोगस्यासमवायिकारणस्याभावाज्ज्ञानानुत्पत्तिप्रसङ्गात्। न च विभुद्वयसंयोगोऽस्त्विति वाच्यम्, तत्संयोगस्य नित्यत्वेन सुषुप्त्यभावप्रसङ्गात्। पुरीतद्व्यतिरिक्तप्रदेश आत्ममनःसंयोगस्य सर्वदा विद्यमानत्वात्। अणुत्वे तु यदा मनः पुरीतति नाड्यां प्रविशति तदा सुषुप्तिः। यदा निःसरति तदा ज्ञानोत्पत्तिरित्यणुत्वसिद्धिः।

न्यायबोधिनी

मनो निरूपयति– सुखादीति। उपलब्धिर्नाम साक्षात्कारः। तथा च सुखदुःखादिसाक्षात्कारकारणत्वे सति इन्द्रियत्वं मनसो लक्षणम्। इन्द्रियत्वमात्रोक्तौ चक्षुरादावतिव्याप्तिः, अतः सुखादिसाक्षात्कारकारणत्वविशेषणम्। विशेष्यानुपादाने आत्मन्यतिव्याप्तिः, आत्मनः सुखादिकं प्रति समवायिकारणत्वात्। अत इन्द्रियत्वरूपविशेष्योपादानम्।

पदकृत्यम्

सुखेति। आत्ममनःसंयोगादिवारणाय इन्द्रियमिति। चक्षुरादिवारणाय सुखेति।