सामग्रीं त्यजन्तु

तर्कसङ्ग्रहः — अवशिष्टपरिच्छेदः

अयथार्थानुभवस्त्रिविधः – संशयविपर्ययतर्कभेदात् ।

दीपिका

अयथार्थानुभवं विभजते– अयथार्थेति। स्वप्नस्य मानसविपर्ययरूपत्वान्न त्रैविध्यविरोधः।

न्यायबोधिनी

यथार्थानुभवं निरूप्याऽयथार्थानुभवं विभजते– संशय इत्यादिना।

पदकृत्यम्

अयथार्थानुभवं विभजते– अयथार्थेति।

एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति।

दीपिका

संशयलक्षणमाह– एकस्मिन्निति। घटपटौ इति समूहालम्बनेऽतिव्याप्तिवारणाय– एकेति। 'घटो द्रव्यम्' इत्यादावतिव्याप्तिवारणाय– विरुद्धेति। 'पटत्वविरुद्धघटत्ववान्' इत्यत्रातिव्याप्तिवारणाय नानेति।

न्यायबोधिनी

एकेति। एकधर्मावच्छिन्नविशेष्यतानिरूपितभावाभावप्रकारकज्ञानं संशय इत्यर्थः। भावद्वयकोटिकसंशयाऽप्रसिद्धेः 'स्थाणुर्वा (पुरुषो वा)' इत्यत्र स्थाणुत्वस्थाणुत्वाभावपुरुषत्वपुरुषत्वाभावकोटिक एव संशय इत्यर्थः।

पदकृत्यम्

संशयं लक्षयति– एकस्मिन्निति। एकस्मिन्धर्मिणि=एकस्मिन्नेव पुरोवर्तिनि पदार्थे, विरुद्धाः=व्यधिकरणा ये नानाधर्माः= स्थाणुत्वपुरुषत्वादयस्तेषां वैशिष्ट्यं=सम्बन्धः, तदवगाहि ज्ञानं संशय इत्यर्थः। 'घटपटाविति' समूहालम्बनज्ञानस्य घटत्वपटत्वरूपविरुद्धनानाधर्मवैशिष्ट्यावगाहित्वादतिप्रसक्तिवारणाय एकस्मिन्निति। 'घटः पृथिवी'ति ज्ञानस्यैकस्मिन्धर्मिणि घटे घटत्वपृथिवीत्वरूपनानाधर्मवैशिष्ट्यावगाहित्वादतिप्रसङ्गवारणाय विरुद्धेति। पटत्वविरुद्धघटत्ववान् घट इति ज्ञानेऽतिप्रसक्तिवारणाय नानेति।

मिथ्याज्ञानं विपर्ययः । यथा शुक्ताविदं रजतमिति ।

दीपिका

विपर्ययलक्षणमाह– मिथ्येति। तदभाववति तत्प्रकारकनिश्चय इत्यर्थः।

न्यायबोधिनी

मिथ्याज्ञानमिति। अयथार्थज्ञानमित्यर्थः। विपर्ययो नाम भ्रमः।

पदकृत्यम्

मिथ्येति। यथार्थज्ञानवारणाय मिथ्येति। अयथार्थवारणाय ज्ञानेति।

व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति ।

दीपिका

तर्कं लक्षयति– व्याप्येति। यद्यपि तर्को विपर्ययेऽन्तर्भवति तथापि प्रमाणानुग्राहकत्वाद् भेदेन कीर्तनम्।

न्यायबोधिनी

व्याप्यारोपेणेति। तर्के व्याप्यस्य व्यापकस्य च बाधनिश्चयः कारणम्। अन्यथा बाधनिश्चयाभावे इष्टापत्तिदोषेण तर्कानुत्पत्तेः।

पदकृत्यम्

तर्कं लक्षयति– व्याप्यारोपेणेति। असम्भववारणाय व्याप्यारोपेणेति। पुनरसम्भववारणाय व्यापकारोप इति। अत्र वह्न्यभावो व्याप्यः, धूमाभावो व्यापकः। यद्यपि तर्कस्य विपर्ययात्मकत्वेन पृथग्विभागोऽनुचितः, तथापि प्रमाणानुग्राहकत्वात् स उदित इति बोध्यम्।

स्वप्नस्तु पुरीतद्बहिर्देशान्तर्देशयोः सन्धौ इडानाड्यां वा मनसि स्थितेऽदृष्टविशेषेण धातुदोषेण वा जन्यते, स च मानसविपर्ययान्तर्भूतः।

स्मृतिरपि द्विविधा – यथार्था अयथार्था च ।

दीपिका

स्मृतिं विभजते– स्मृतिरिति।

प्रमाजन्या यथार्था । अप्रमाजन्या अयथार्था ।

सर्वेषामनुकूलतया वेदनीयं सुखम्।

दीपिका

सुखं लक्षयति– सर्वेषामिति। 'सुख्यहम्' इत्याद्यनुव्यवसायगम्यं सुखत्वादिकमेव लक्षणम्। यथाश्रुतं तु स्वरूपकथनमिति द्रष्टव्यम्।

न्यायबोधिनी

सुखं निरूपयति– सर्वेषामिति। इतरेच्छानधीनेच्छाविषयत्वमिति निष्कर्षः। यथाश्रुते 'घटोऽनुकूलः' इत्याकारकज्ञानदशायामनुकूलत्वप्रकारकज्ञानविशेष्यत्वस्य घटादावपि सत्त्वाद् घटादावतिव्याप्तिरिति। सुखेच्छाधीने भोजनादावतिव्याप्तिवारणाय इतरेच्छानधीनेति इच्छाविशेषणम्। सुखेच्छायाः सुखत्वप्रकारकज्ञानमात्रजन्यत्वात्।

पदकृत्यम्

सुखं निरूपयति– सर्वेषामिति। सर्वात्मनामनुकूलमिति वेद्यं यत्तत्सुखमित्यर्थः। 'अहं सुखी' इत्यनुभवसिद्धसुखत्वजातिमत्, धर्ममात्रासाधारणकारणो गुणो वा सुखम्। शत्रुदुःखवारणाय सर्वेषामिति।

प्रतिकूलतया वेदनीयं दुःखम् ।

न्यायबोधिनी

दुःखं निरूपयति– प्रतिकूलेति। अत्रापि 'इतरद्वेषानधीनद्वेषविषयत्वमि'ति निष्कृष्टलक्षणम्। द्वेषविषयत्वमात्रोक्तौ सर्पादावतिव्याप्तिस्तत्रापि द्वेषविषयत्वसत्त्वादतस्तत्रातिव्याप्तिवारणाय 'इतरद्वेषानधीने'ति द्वेषविशेषणम्। सर्पजन्यदुःखादौ द्वेषात्सर्पेऽपि द्वेष इति सर्पद्वेषस्य सर्पजन्यदुःखद्वेषजन्यत्वादन्यद्वेषजन्यद्वेषविषयत्वरूपदुःखलक्षणस्य सर्पादौ नातिव्याप्तिः। फलेच्छा उपायेच्छाम्प्रति करणम्। अतः फलेच्छावशादुपायेच्छा भवति। एवं फले द्वेषादुपाये द्वेषः।

पदकृत्यम्

प्रतिकूलेति। दुःखत्वजातिमत्, अधर्ममात्रासाधारणकारणो गुणो वा दुःखम्। पदकृत्यं पूर्ववत्।

इच्छा कामः ।

पदकृत्यम्

इच्छां निरूपयति– इच्छेति। काम इति पर्यायः। इच्छात्वजातिमती इच्छा। सा द्विविधा– फलेच्छा उपायेच्छा च। फलं सुखादिकम्। उपायो योगादिः।

क्रोधो द्वेषः ।

पदकृत्यम्

द्वेषं निरूपयति– क्रोध इति। 'द्वेष्टि' इत्यनुभवसिद्धद्वेषत्वजातिमान्, द्विष्टसाधनताज्ञानजन्यगुणो वा द्वेषः।

कृतिः प्रयत्नः ।

पदकृत्यम्

प्रयत्नं निरूपयति– कृतिरिति। प्रयत्नत्वजातिमान् प्रयत्नः। स त्रिविधः– प्रवृत्तिनिवृत्तिजीवनयोनिभेदात्। इच्छाजन्यो गुणः प्रवृत्तिः। द्वेषजन्यो गुणो निवृत्तिः। जीवनादृष्टजन्यो गुणो जीवनयोनिः। स च प्राणसञ्चारकारणम्।

विहितकर्मजन्यो धर्मः ।

न्यायबोधिनी

धर्माधर्मौ निरूपयति– विहितेति। वेदविहितेत्यर्थः।

पदकृत्यम्

धर्ममाह– विहितेति। वेदविहितेत्यर्थः। अधर्मवारणाय वेदविहितेति। यागादिक्रियावारणाय कर्मजन्य इति। स च कर्मनाशाजलस्पर्शकीर्तनभोगतत्त्वज्ञानादिना नश्यति।

निषिद्धकर्मजन्यस्त्वधर्मः ।

न्यायबोधिनी

निषिद्धेति। वेदनिषिद्ध इत्यर्थः॥

पदकृत्यम्

अधर्मलक्षणमाह निषिद्धेति। वेदेनेत्यर्थः। धर्मवारणाय वेदनिषिद्धेति। वेदनिषिद्धक्रियावारणाय कर्मजन्य इति। स च भोगप्रायश्चित्तादिना नश्यति। एतावेव 'अदृष्टमि'ति कथ्येते, वासनाजन्यौ च। वासना च विलक्षणसंस्कारः।

बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः ।

न्यायबोधिनी

बुद्ध्यादयोऽष्टाविति। बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा इत्यर्थः।

बुद्धीच्छाप्रयत्ना द्विविधाः – नित्या अनित्याश्च । नित्या ईश्वरस्य । अनित्या जीवस्य ।

संस्कारस्त्रिविधः – वेगो भावना स्थितिस्थापकश्चेति।

दीपिका

संस्कारं विभजते– संस्कार इति। संस्कारत्वजातिमान् संस्कारः।

न्यायबोधिनी

संस्कारं विभजते– संस्कार इति।

पदकृत्यम्

संस्कारं विभजते– संस्कारेति। सामान्यगुणात्मविशेषगुणोभयवृत्तिगुणत्वव्याप्यजातिमान् संस्कारः। घटादिवारणाय गुणत्वव्याप्येति। संयोगादिवारणाय आत्मविशेषगुणोभयवृत्तीति। ज्ञानादिवारणाय सामान्येति।

वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः ।

दीपिका

वेगस्याश्रयमाह– वेग इति। वेगत्वजातिमान् वेगः।

पदकृत्यम्

द्वितीयादिपतनासमवायिकारणं वेगः। रूपादिवारणाय द्वितीयादिपतनेति। कालादिवारणाय असमवायीति।

अनुभवजन्या स्मृतिहेतुर्भावना । आत्ममात्रवृत्तिः ।

दीपिका

भावनां लक्षयति– अनुभवेति। आत्मादावतिव्याप्तिवारणाय अनुभवेति। अनुभवध्वंसेऽतिव्याप्तिवारणाय स्मृतीति। स्मृतेरपि संस्कारजनकत्वं नवीनैरुक्तम्।

न्यायबोधिनी

भावनां लक्षयति– अनुभवेति। अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाया लक्षणम्। अत्रानुभवजन्यत्वे सतीति विशेषणानुपादाने आत्ममनःसंयोगेऽतिव्याप्तिः। आत्ममनःसंयोगस्य ज्ञानमात्रं प्रत्यसमवायिकारणत्वेन स्मृतिं प्रत्यपि कारणत्वादतस्तदुपादानम्। आत्ममनःसंयोगस्यानुभवजन्यत्वाभावान्नातिव्याप्तिः। तावन्मात्रे कृतेऽनुभवध्वंसेऽतिव्याप्तिः, ध्वंसं प्रति प्रतियोगिनः कारणत्वेनानुभवध्वंसस्याप्यनुभवजन्यत्वात्। अतः स्मृतिहेतुत्वोपादानम्। अनुभवध्वंसे स्मृतिहेतुत्वाभावान्नातिव्याप्तिः।

ननु विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणता सकलतान्त्रिकमतसिद्धा। यथा दण्डविशिष्टबुद्धिं प्रति दण्डज्ञानं कारणम्। दण्डविशिष्टबुद्धिर्नाम दण्डप्रकारकबुद्धिः। तथा च दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रति दण्डज्ञानत्वेन कारणत्वमित्यापतितम्। दण्डप्रकारकबुद्धिः– 'दण्डी पुरुष' इत्याकारिका बुद्धिः, तत्र दण्डज्ञानं कारणम्। न हि दण्डमजानन् पुमान् 'दण्डी पुरुषः' इति प्रत्येति। एवं च यत्रायं दण्ड इति प्रत्यक्षं जातं, तदनन्तरं 'दण्डी पुरुष' इत्याकारकप्रत्यक्षमुत्पन्नम्। तत्र 'दण्डी पुरुष' इत्याकारकप्रत्यक्षेऽतिव्याप्तिः। तद्धि स्वाव्यवहितपूर्वक्षणोत्पन्नदण्डज्ञानात्मकानुभवजन्यं जनिष्यमाणे 'दण्डी पुरुष' इत्याकारकस्मरणे कारणं च स्मृतिं प्रत्यनुभवस्य कारणत्वात्। तथा चानुभवजन्यत्वे सति स्मृतिहेतुत्वरूपभावनालक्षणस्य यथोक्त-दण्डी पुरुष इत्याकारकाऽनुभवे विद्यमानत्वादतिव्याप्तिरिति चेत्, अत्र ब्रूमः– अनुभवजन्यत्वं हि अनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वम्। तत्र कारणतायामनुभवत्वावच्छिन्नत्वं निवेश्यते। तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वम् अनुभवजन्यत्वम् इति फलितम्। अतो नोक्तातिव्याप्तिः। तथा हि दण्डप्रकारकबुद्धित्वावच्छिन्नकार्यतानिरूपितदण्डज्ञाननिष्ठा या कारणता तस्यां न दण्डानुभवत्वमवच्छेदकं, दण्डानुभवादिव दण्डस्मरणादपि दण्डप्रकारकबुद्धेरुत्पत्तेः। अतो दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रति अनुभवस्मरणसाधारणदण्डज्ञानत्वेनैव दण्डज्ञानस्य कारणतायाः स्वीकरणीयत्वेन दण्डज्ञानत्वस्यैव तदवच्छेदकत्वात्। तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्योक्तप्रत्यक्षेऽभावान्नातिव्याप्तिः। भावनायां तु लक्षणमिदं वर्तते। तथा हि– अनुभवेनैव भावनाख्यसंस्कारोत्पत्त्या भावनात्वावच्छिन्नं प्रत्यनुभवत्वेनैव कारणतया भावनात्वावच्छिन्नकार्यतानिरूपितानुभवनिष्ठकारणतायामनुभवत्वमवच्छेदकम्। अतोऽनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वं भावनायां वर्तत इति नाऽसम्भवः।

नन्वेवं स्मृतिहेतुत्वविशेषणवैयर्थ्यम्। तद्धि अनुभवध्वंसेऽतिव्याप्तिवारणाय प्रागुपात्तम्। न हि यथोक्तानुभवजन्यत्वविवक्षायामनुभवध्वंसेऽतिव्याप्तिः प्रसज्यते। तथा हि ध्वंसत्वावच्छिन्नं प्रति च प्रतियोगिनः कारणत्वं प्रतियोगित्वेन रूपेण, तत्तद्ध्वंसत्वावच्छिन्नं प्रति च तत्तत्प्रतियोगिव्यक्तेस्तत्तद्व्यक्तित्वेनेत्येवं ध्वंसप्रतियोगिनोः कार्यकारणभावः। तथा च ध्वंसनिष्ठकार्यतानिरूपिता यानुभवनिष्ठा कारणता, तस्यां प्रतियोगित्वमवच्छेदकम्। तत्तद्व्यक्तित्वं च, न त्वनुभवत्वमपीत्यनुभवध्वंसेऽनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वरूपानुभवजन्यत्वविरहेणैवाऽतिव्याप्तिवारणसंभवात् कृतं स्मृतिहेतुत्वविशेषणेनेति चेत्? न। स्मृतावतिव्याप्तिवारणायैव तदुपादानात्। तथा हि स्मृतिं प्रत्यनुभव एव कारणं, न तु स्मृतिरपि। अतो घटस्मृतित्वावच्छिन्नं प्रति घटानुभवस्य घटानुभवत्वेनैव कारणत्वं न तु घटज्ञानत्वेन। तथा च घटस्मृतिनिष्ठकार्यतानिरूपिता या घटानुभवनिष्ठा कारणता तस्यां घटानुभवत्वमवच्छेदकम्। तेनानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य स्मृतौ विद्यमानत्वादतिव्याप्तिवारणाय स्मृतिहेतुत्वमुक्तम्। न हि स्मृतिर्हेतुरतो न तत्राऽतिव्याप्तिरित्यलं पल्लवतल्लजकल्पेष्वनल्पजल्पनेन।

इति न्यायबोधिन्यां गुणनिरूपणम्।

पदकृत्यम्

भावनां लक्षयति– अनुभवेति। आत्मादिवारणाय प्रथमदलम्। अनुभवध्वंसवारणाय द्वितीयदलम्।

अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितिस्थापकः। कटादिपृथिवीवृत्तिः ।

दीपिका

स्थितिस्थापकं लक्षयति– अन्यथेति।

संख्यादयोऽष्टौ नैमित्तिकद्रवत्ववेगस्थितिस्थापकाः सामान्यगुणाः। अन्ये रूपादयो विशेषगुणाः। द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिद्रव्यकर्मावृत्तिजातिमत्त्वं विशेषगुणत्वम्।

इति तर्कसंग्रहदीपिकायां गुणनिरूपणम्।

पदकृत्यम्

स्थितिस्थापकमाह– अन्यथेति। पृथिवीमात्रसमवेतसंस्कारत्वव्याप्यजातिमत्त्वं स्थितिस्थापकत्वम्। गन्धवत्त्वमादाय गन्धेऽतिव्याप्तिवारणाय संस्कारत्वव्याप्येति। भावनात्वमादाय भावनावारणाय पृथिवीसमवेतेति। स्थितिस्थापकरूपान्यतरत्वमादाय रूपवारणाय जातीति। इति गुणा इति। द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः। द्रव्यकर्मणोरतिव्याप्तिवारणाय विशेषणदलम्। सामान्यादावतिव्याप्तिवारणाय विशेष्यदलम्।

इति पदकृत्यके गुणनिरूपणम्।

चलनात्मकं कर्म ।

दीपिका

कर्मणो लक्षणमाह– चलनेति।

पदकृत्यम्

चलनेति। संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म। हस्तपुस्तकसंयोगवारणाय सत्यन्तम्। घटादिवारणाय विशेष्यदलम्।

ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम्। अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम्। विप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं गमनम्।

दीपिका

उत्क्षेपणादीनां कार्यभेदमाह– ऊर्ध्वेति। शरीरेति। वक्रत्वसम्पादकमाकुञ्चनम्। ऋजुतासम्पादकं प्रसारणमित्यर्थः।

पदकृत्यम्

ऊर्ध्वेति। अपक्षेपणवारणाय ऊर्ध्वेति। कालादिवारणाय असाधारणेत्यपि बोध्यम्। अधोदेशेति। उत्क्षेपणवारणाय अधोदेशेति। कालादिवारणाय असाधारणेत्यपि देयम्। शरीरेति। प्रसारणादिवारणाय शरीरसन्निकृष्टेति। कालादिवारणाय असाधारणं देयम्। विप्रकृष्टेति। उत्क्षेपणादिवारणाय विप्रकृष्टेति। कालादिवारणाय असाधारणपदमप्यावश्यकम्।

इति पदकृत्यके कर्मनिरूपणम्।

नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति ।

दीपिका

सामान्यं लक्षयति– नित्यमिति। संयोगादावतिव्याप्तिवारणाय नित्यमिति। परमाणुपरिमाणादावतिव्याप्तिवारणाय– अनेकेति। अनुगतत्वं समवेतत्वम्। घटात्यन्ताभावो घटाद्यनुगतोऽप्यसमवेत इति नाभावादावतिव्याप्तिः।

न्यायबोधिनी

सामान्यं निरूपयति– नित्यमेकमिति। नित्यत्वे सत्यनेकसमवेतत्वं सामान्यलक्षणम्। नित्यत्वविशेषणानुपादानेऽनेकसमवेतत्वस्य संयोगादौ सत्त्वात् तत्रातिव्याप्तिस्तद्वारणाय नित्यत्वविशेषणम्। अनेकसमवेतत्वानुपादाने नित्यत्वमात्रोपादाने आकाशादावतिव्याप्तिस्तद्वारणायानेकसमवेतत्वम्। अनेकसमवेतत्वानुपादाने नित्यत्वविशिष्टसमवेतत्वमात्रोक्तावाकाशगतैकत्वपरिमाणादौ जलपरमाणुगतरूपादौ चातिव्याप्तिः। जलपरमाणुगतरूपादेराकाशगतैकत्वपरिमाणादेर्नित्यत्वात् समवेतत्वाच्च। अतः– अनेकेति समवेतविशेषणम्।

पदकृत्यम्

नित्यमिति। संयोगादिवारणाय नित्यमिति। कालादिपरिमाणवारणाय अनेकेति। अनेकानुगतत्वं च समवायेन बोध्यम्। तेन नात्यन्ताभावेऽतिव्याप्तिः।

तद् द्विविधं – परापरभेदात् । परं सत्ता, अपरं द्रव्यत्वादिः ।

नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ।

दीपिका

विशेषं लक्षयति– नित्येति।

न्यायबोधिनी

नित्यद्रव्यवृत्तय इति। नित्यद्रव्येषु परमाण्वादिषु वर्तमानाः, अत एव व्यावर्तका इतरभेदानुमितिहेतवः। नित्यद्रव्यवृत्तित्वरूपपक्षधर्मताप्रयोज्येतरभेदानुमापकताशालिन इत्यर्थः। नित्यद्रव्यनिष्ठविशेष्यतानिरूपितैकमात्रवृत्तिभेदानुमितिजनकतावच्छेदकप्रकारताश्रयत्वं विशेषाणां लक्षणमिति भावः। पार्थिवपरमाणौ जलादिभेदानुमापकगन्धेऽतिव्याप्तिवारणाय एकमात्रवृत्तित्वं भेदविशेषणम्। घटादौ तदितरभेदानुमापके तद्रूपादावतिव्याप्तिवारणाय निरूपितान्तं प्रकारताविशेषणम्। एतेन– 'व्यावर्तका'–इत्यस्य नित्यद्रव्यविशेष्यकेतरभेदानुमितिप्रयोजका इत्यर्थकतया लक्षणपरत्वेन साफल्येऽपि 'नित्यद्रव्यवृत्तय' इति विफलमेव, स्वरूपाख्यानस्यापि कृतत्वादिति प्रत्युक्तम्।

पदकृत्यम्

नित्यद्रव्यवृत्तय इति। घटत्वादिवारणाय नित्यद्रव्यवृत्तय इति। आत्मत्वमनस्त्ववारणाय आत्मत्वमनस्त्वभिन्ना इत्यपि बोध्यम्।

नित्यसम्बन्धः समवायः, अयुतसिद्धवृत्तिः ।

दीपिका

समवायं लक्षयति– नित्येति। संयोगेऽतिव्याप्तिवारणाय– नित्येति। आकाशादावतिव्याप्तिवारणाय– सम्बन्ध इति।

न्यायबोधिनी

समवायं निरूपयति– नित्येति। सम्बन्धत्वं विशिष्टप्रतीतिनियामकत्वम्। तावन्मात्रोक्तौ संयोगेऽतिव्याप्तिरतो नित्य इति विशेषणम्।

पदकृत्यम्

नित्येति। आकाशादिवारणाय सम्बन्ध इति। संयोगवारणाय नित्येति। स्वरूपसम्बन्धवारणाय तद्भिन्न इत्यपि बोध्यम्।

इति पदकृत्यके समवायनिरूपणम्।

ययोर्द्वयोर्मध्ये एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ । यथा अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति ।

दीपिका

अयुतसिद्धलक्षणमाह– ययोरिति। नीलो घटः इति विशिष्टप्रतीतिर्विशेषणविशेष्यसम्बन्धविषया विशिष्टप्रत्ययत्वाद् दण्डीति प्रत्ययवदिति समवायसिद्धिः। अवयवावयविनाविति। द्रव्यसमवायिकारणमवयवः। तज्जन्यद्रव्यमवयवि।

इति तर्कसंग्रहदीपिकायां समवायनिरूपणम्।

न्यायबोधिनी

ययोर्द्वयोर्मध्य इति। यन्निष्ठकालनिरूपिताधेयतासामान्यं यदवच्छिन्नं तदुभयान्यतरत्वमयुतसिद्धत्वमित्यर्थः।

इति न्यायबोधिन्यां समवायनिरूपणम्।

अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य ।

दीपिका

प्रागभावं लक्षयति– अनादिरिति। आकाशादावतिव्याप्तिवारणाय– सान्त इति। घटादावतिव्याप्तिवारणाय अनादिरिति। प्रतियोगिसमवायिकारणवृत्तिः प्रतियोगिजनको भविष्यतीति व्यवहारहेतुः प्रागभावः।

पदकृत्यम्

प्रागभावं लक्षयति– अनादिरिति। घटादिवारणाय प्रथमदलम्। परमाणुवारणाय द्वितीयदलम्। पुनः प्रागभावः कस्मिन् कालेऽस्तीत्यत आह– उत्पत्तेरिति। कार्यस्योत्पत्तेः प्राक् स्वप्रतियोगिसमवायिकारणे वर्तते इत्यर्थः।

सादिरनन्तः प्रध्वंसः । उत्पत्त्यनन्तरं कार्यस्य ।

दीपिका

प्रध्वंसं लक्षयति– सादिरिति। घटादावतिव्याप्तिवारणाय– अनन्त इति। आकाशादावतिव्याप्तिवारणाय सादिरिति। प्रतियोगिजन्यः प्रतियोगिसमवायिकारणवृत्तिर्ध्वस्तव्यवहारहेतुर्ध्वंसः।

पदकृत्यम्

ध्वंसं लक्षयति– सादिरिति। घटादिवारणाय अनन्त इति। आत्मादिवारणाय सादिरिति। उत्पत्तीति। कार्यस्योत्पत्त्यनन्तरं स्वप्रतियोगिसमवायिकारणवृत्तिरित्यर्थः। स च 'ध्वस्तः' इति प्रत्ययविषयः।

त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा भूतले घटो नास्तीति ।

दीपिका

अत्यन्ताभावं लक्षयति– त्रैकालिकेति। अन्योन्याभावेऽतिव्याप्तिवारणाय संसर्गावच्छिन्नेति। ध्वंसप्रागभावयोरतिव्याप्तिवारणाय त्रैकालिकेति।

न्यायबोधिनी

अत्यन्ताभावं निरूपयति– त्रैकालिकेति। प्रागभावाऽप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वे सत्यन्योन्याभावभिन्नत्वे सत्यभावत्वमत्यन्ताभावस्य लक्षणम्। ध्वंसप्रागभावान्योन्याभावाकाशादीनां वारणाय यथाक्रमं विशेषणोपादानम्। वस्तुतस्तु संसर्गाभावत्वं तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम्। ध्वंसप्रागभावयोश्च न संसर्गावच्छिन्नप्रतियोगिताकत्वमिति तेनैव तद्वारणे 'त्रैकालिके'ति स्वरूपाख्यानमेवेति बोध्यम्।

पदकृत्यम्

अत्यन्ताभावं लक्षयति– त्रैकालिकेति। त्रैकालिकत्वे सति संसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। ध्वंसप्रागभाववारणाय त्रैकालिकेति। भेदवारणाय संसर्गेत्यादि।

तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । यथा घटः पटो न भवतीति।

दीपिका

अन्योन्याभावं लक्षयति– तादात्म्येति। प्रतियोगितावच्छेदकारोप्यसंसर्गभेदादेकप्रतियोगिकयोरप्यत्यन्ताभावान्योन्याभावयोर्बहुत्वम्। केवलदेवदत्ताभावात् दण्ड्यभाव इति प्रतीत्या विशिष्टाभावः। 'एकसत्त्वे द्वौ न स्तः' इति प्रतीत्या द्वित्वावच्छिन्नोऽभावः। संयोगसम्बन्धेन घटवति समवायसम्बन्धेन घटाभावः। तत्तद्घटाभावाद् घटत्वावच्छिन्नप्रतियोगिताकसामान्याभावश्चातिरिक्तः। एवमन्योन्याभावोऽपि। घटत्वेन पटो नास्तीति व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावो नाङ्गीक्रियते। पटे घटत्वं नास्तीति तस्यार्थः। अतिरिक्तत्वे स केवलान्वयी।

सामयिकाभावोऽत्यन्ताभाव एव समयविशेषे प्रतीयमानः। घटाभाववति घटानयनेऽत्यन्ताभावस्यान्यत्र गमनाभावेऽप्यप्रतीतेर्घटापसरणे सति प्रतीतिः। भूतले घटसंयोगप्रागभावप्रध्वंसयोरत्यन्ताभावप्रतीतिनियामकत्वं कल्प्यते। घटवति तत्संयोगप्रागभावप्रध्वंसयोरसत्त्वादत्यन्ताभावस्याप्रतीतिः। घटापसरणे च संयोगध्वंससत्त्वात् प्रतीतिरिति। केवलाधिकरणादेव नास्तीति व्यवहारोपपत्तावभावो न पदार्थान्तरमिति गुरवः, तन्न, अभावानङ्गीकारे कैवल्यस्य निर्वक्तुमशक्यत्वात्। अभावाभावो भाव एव नातिरिक्तः, अनवस्थाप्रसङ्गात्। ध्वंसप्रागभावः प्रागभावध्वंसश्च प्रतियोग्येवेति प्राञ्चः। अभावाभावोऽतिरिक्त एव, तृतीयाभावस्य प्रथमाभावरूपत्वान्नानवस्थेति नवीनाः।

न्यायबोधिनी

अन्योन्याभावं निरूपयति– तादात्म्येति। अभावत्रयवारणाय विशेषणम्, 'घटाभाववान् ने'ति प्रतीतिविषयघटादिवारणाय विशेष्यम्।

पदकृत्यम्

अन्योन्याभावं लक्षयति– तादात्म्येति। प्रागभावप्रध्वंसाभाववारणाय तादात्म्येति। अत्यन्ताभाववारणाय तादात्म्यत्वेन सम्बन्धो विशेषणीयः।

सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात् सप्तैव पदार्था इति सिद्धम् ।

दीपिका

ननु प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभासच्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः, इति न्यायशास्त्रे षोडशपदार्थानामुक्तत्वात् कथं सप्तैवेत्यत आह– सर्वेषामिति। सर्वेषां सप्तस्वेवान्तर्भाव इत्यर्थः। आत्मशरीरेन्द्रियार्थमनोबुद्धिप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् इति द्वादशविधं प्रमेयम्। प्रवृत्तिर्धर्माधर्मौ। रागद्वेषमोहा दोषाः। राग इच्छा। द्वेषो मन्युः। मोहः शरीरादावात्मभ्रमः। प्रेत्यभावो मरणम्। फलं भोगः। अपवर्गो मोक्षः। स च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसः। प्रयोजनं सुखं दुःखहानिश्च। दृष्टान्तो महानसादिः। प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः। निर्णयो निश्चयः। स च प्रमाणफलम्। तत्त्वबुभुत्सोः कथा वादः। उभयसाधनवती विजिगीषुकथा जल्पः। स्वपक्षस्थापनहीना वितण्डा। कथा नाम नानावक्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसन्दर्भः। अभिप्रायान्तरेण प्रयुक्तस्यार्थान्तरं प्रकल्प्य दूषणं छलम्। असदुत्तरं जातिः। साधर्म्य-वैधर्म्योत्कर्षापकर्ष-वर्ण्यावर्ण्य-विकल्पसाध्य- प्राप्त्यप्राप्ति-प्रसङ्गप्रतिदृष्टान्तानुत्पत्ति-संशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धि-नित्यानित्य- कार्याकार्यसमा जातयः। वादिनोऽपजयहेतुर्निग्रहस्थानम्। प्रतिज्ञाहानिः, प्रतिज्ञान्तरं, प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यासः, हेत्वन्तरम्, अर्थान्तरं, निरर्थकम्, अविज्ञातार्थकम्, अपार्थकम्, अप्राप्तकालम्, न्यूनम्, अधिकम्, पुनरुक्तम्, अननुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणम्, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासश्च निग्रहस्थानानि। शेषं सुगमम्।

ननु करतलानलसंयोगे सत्यपि प्रतिबन्धके सति दाहानुत्पत्तेः शक्तिः पदार्थान्तरमिति चेत्– न, प्रतिबन्धकाभावस्य कार्यमात्रे कारणत्वेन शक्तेरनुपयोगात् कारणस्यैव शक्तिपदार्थत्वात्। ननु भस्मादिना कांस्यादौ शुद्धिदर्शनादाधेयशक्तिरङ्गीकार्येति चेत्– न, भस्मादिसंयोगसमानकालीनास्पृश्यस्पर्शप्रतियोगिकयावदभावसहितभस्मादिसंयोगध्वंसस्य शुद्धिपदार्थत्वात्।

स्वत्वमपि न पदार्थान्तरम्, यथेष्टविनियोगयोग्यत्वस्य स्वत्वरूपत्वात्। तदवच्छेदकं च प्रतिग्रहादिलब्धत्वमेवेति।

अथ विधिर्निरूप्यते– प्रयत्नजनकचिकीर्षाजनकज्ञानविषयो विधिः। तत्प्रतिपादको लिङादिर्वा। कृत्यसाध्ये प्रवृत्त्यदर्शनात् कृतिसाध्यताज्ञानं प्रवर्तकम्। न च विषभक्षणादौ प्रवृत्तिप्रसङ्गः। इष्टसाधनतालिङ्गककृतिसाध्यताज्ञानस्य काम्यस्थले नित्यनैमित्तिकस्थले च विहितकालजीवित्वनिमित्तकज्ञानाजन्यत्वस्यैव प्रवर्तकत्वात्। न चाननुगमः, स्वविशेषणवत्ताप्रतिसन्धानजन्यत्वस्यानुगतत्वादिति गुरवः। तन्न, लाघवेन कृतिसाध्येष्टसाधनताज्ञानस्यैव चिकीर्षाद्वारा प्रयत्नजनकत्वात्।

न च नित्ये इष्टसाधनत्वाभावादप्रवृत्तिप्रसङ्गः। तत्रापि प्रत्यवायपरिहारस्य पापक्षयस्य च फलत्वकल्पनात्। तस्मात्कृतिसाध्येष्टसाधनत्वमेव लिङाद्यर्थः। ननु ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यत्र लिङा स्वर्गसाधनकार्यं प्रतीयते। यागस्याशुतरविनाशिनः कालान्तरभाविस्वर्गसाधनत्वायोगात्तद्योग्यं स्थायिकार्यमपूर्वमेव लिङाद्यर्थः। कार्यं कृतिसाध्यम्, कृतेः सविषयत्वात्, विषयाकाङ्क्षायां यागो विषयत्वेनान्वेति। कस्य कार्यम्? इति नियोज्याकाङ्क्षायां स्वर्गकामपदं नियोज्यपरतयान्वेति। कार्यबोद्धा नियोज्यः। तेन ज्योतिष्टोमनामकयागविषयकं स्वर्गकामस्य कार्यम् इति वाक्यार्थः सम्पद्यते। वैदिकलिङ्त्वात् यावज्जीवमग्निहोत्रं जुहुयात् इति नित्यवाक्येऽप्यपूर्वमेव वाच्यं कल्प्यते।

आरोग्यकामो भैषजपानं कुर्यात्, इत्यादौ लौकिकलिङः क्रियाकार्ये लक्षणेति चेत्– न, यागस्याप्ययोग्यतानिश्चयाभावेन साधनतया प्रतीत्यनन्तरं तन्निर्वाहार्थमवान्तरव्यापारतया अपूर्वकल्पनात्। कीर्तनादिना नाशश्रुतेर्न यागध्वंसो व्यापारः। लोकव्युत्पत्तिबलात् क्रियायामेव कृतिसाध्येष्टसाधनत्वं लिङा बोध्यत इति लिङ्त्वेन रूपेण विध्यर्थत्वम्। आख्यातत्वेन प्रयत्नार्थकत्वम्। पचति, पाकं करोतीति विवरणदर्शनात् किं करोति इति प्रश्ने पचतीत्युत्तराच्चाख्यातस्य प्रयत्नार्थकत्वनिश्चयात्। रथो गच्छतीत्यादावनुकूलव्यापारे लक्षणा, देवदत्तः पचति तण्डुलान्, देवदत्तेन पच्यते तण्डुलः, इत्यत्र कर्तृकर्मणोर्नाख्यातार्थत्वम्, किन्तु तद्गतैकत्वादीनामेव। तयोराक्षेपादेव लाभः। प्रजयतीत्यादौ धातोरेव प्रकर्षे शक्तिः। उपसर्गाणां द्योतकत्वमेव। न तु तत्र शक्तिरस्ति।

पदार्थज्ञानस्य परमं प्रयोजनं मोक्षः। तथा हि– आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (बृह. उ. २/४/५) इति श्रुत्या श्रवणादीनामात्मसाक्षात्कारहेतुत्वबोधनात्। श्रुत्या देहादिविलक्षणात्मज्ञाने सत्यप्यसम्भावनाऽनिवृत्तेर्युक्त्यनुसन्धानरूपमननसाध्यत्वात्। मननोपयोगिपदार्थनिरूपणद्वारा शास्त्रस्यापि मोक्षोपयोगः। तदनन्तरं श्रुत्युपदिष्टयोगविधिना निदिध्यासने कृते तदनन्तरं देहादिविलक्षणात्मसाक्षात्कारे सति देहादावहमभिमानरूपमिथ्याज्ञाननाशे सति दोषाभावात्प्रवृत्त्यभावे धर्माधर्मयोरभावाज्जन्माभावे पूर्वधर्माधर्मयोरनुभवेन नाशे चरमदुःखध्वंसलक्षणो मोक्षो जायते। ज्ञानमेव मोक्षसाधनं मिथ्याज्ञाननिवृत्तेर्ज्ञानमात्रसाध्यत्वात्। 'तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' (श्वेता. उ. ३/८, ६/१५) इति साधनान्तरनिषेधाच्च। ननु तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने (भवसं. उ. १/३२) इति कर्मणोऽपि मोक्षसाधनत्वस्मरणाज्ज्ञानकर्मणोः समुच्चय इति चेत्– न,
नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम्।
ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत्।
अभ्यासात्पक्वविज्ञानः कैवल्यं लभते नरः॥
इत्यादिना कर्मणो ज्ञानसाधनत्वप्रतिपादनात्। ज्ञानद्वारैव कर्म मोक्षसाधनं, न साक्षात्। तस्मात्पदार्थज्ञानस्य मोक्षः परमं प्रयोजनमिति सर्वं रमणीयम्॥

इति श्रीमदन्नम्भट्टोपाध्यायविरचिता तर्कसंग्रहदीपिका समाप्ता॥

न्यायबोधिनी

ननु सादृश्यादीनामतिरिक्तपदार्थानामनिरूपणेन न्यूनतेत्यत आह सर्वेषामिति। "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः" इति न्यायस्यादिमसूत्रे उक्तानां प्रमाणप्रमेयादीनामित्यर्थः। तद्भिन्नत्वविशिष्टतद्गतभूयोधर्मरूपसादृश्यस्यापि घटपटादिरूपत्वेन नाऽतिरिक्तत्वम्। एवमन्येषामप्यूह्यम्।

पदकृत्यम्

पदार्थज्ञानस्य परमप्रयोजनं मोक्ष इत्यामनन्ति। स च आत्यन्तिकैकविंशतिदुःखध्वंसः। आत्यन्तिकत्वं च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वम्। दुःखध्वंसस्येदानीमपि सत्त्वेनास्मदादीनामपि मुक्तत्वापत्तिवारणाय कालीनान्तम्। मुक्त्यात्मकदुःखध्वंसस्यान्यदीयदुःखप्रागभावसमानकालीनत्वाद्वामदेवादीनां मुक्तात्मनामप्यमुक्तत्वप्रसङ्गात् स्वसमानाधिकरणेति प्रागभावविशेषणम्।

दुःखानि चैकविंशतिः– शरीरं, षडिन्द्रियाणि, षड्विषयाः, षड्बुद्धयः, सुखं, दुःखं चेति। दुःखानुषङ्गित्वाच्छरीरादौ गौणदुःखत्वम्। तथा च 'आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रुतेरात्मज्ञानसाधननिदिध्यासनमननसाधनत्वं पदार्थज्ञाने संजाघटीति। एवं च तत्त्वज्ञाने सति शरीरपुत्रादावात्मत्वस्वीयत्वाभिमानरूपमिथ्याज्ञानस्य नाशः, तेन दोषाभावः, तेन प्रवृत्त्यनुत्पत्तिः, ततस्तत्कालीनशरीरेण कायव्यूहेन वा भोगतत्त्वज्ञानाभ्यां प्रारब्धकर्मनाशः, ततो जन्माभावः।
नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम्।
ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत्।
अभ्यासात्पक्वविज्ञानः कैवल्यं लभते नरः॥
इत्यादिवचनात् 'तमेव विदित्वातिमृत्युमेति' इति श्रुतेश्च। सगुणोपासनाकाशीमरणादेरपि तत्त्वज्ञानद्वारा मुक्तिहेतुत्वम्। अत एव परमेश्वरः काश्यां तारकमुपदिशतीति सारम्।

चक्रे चन्द्रजसिंहो हि पदकृत्यमिदं शुभम्।
परोपकारकरणं माधवो वीक्षतां परम्॥

इति श्रीमत्तत्रभवद्गुरुदत्तसिंहशिष्यश्रीचन्द्रजसिंहविरचितं पदकृत्यम्॥

॥ इति विदुषान्नम्भट्टेन रचितस्तर्कसङ्ग्रहः ॥

न्यायबोधिनी

काणादेति। कणादस्येदं काणादम्, काणादन्यायमतमिति द्वन्द्वगर्भः कर्मधारयः। कणादप्रोक्तगौतमप्रोक्तमतयोरिति यावत्। काणादन्यायाभिन्नमतद्वयविषयकबालसमवेताभिन्नव्युत्पत्तिसिद्धिप्रयोजकान्नम्भट्टविद्वन्निष्ठभूतकालीनकृतिविषयाभिन्नस्तर्कसंग्रहाख्यग्रन्थ इत्यन्वयबोधः।

कृष्णावलम्बिनो गाः पूषा गोवर्धनस्तमभ्यर्चन्।
विपुलाभीरसभाजनजितविबुधेन्द्रस्तवाभिरचनाभिः॥

इति श्रीगोवर्धनकृता न्यायबोधिनी विवृतिः॥