मुखपृष्ठम् · ⬆ तर्कसङ्ग्रहः · ← · →
तर्कसङ्ग्रहः — शब्दपरिच्छेदः¶
आप्तवाक्यं शब्दः ।
दीपिका
शब्दं लक्षयति– आप्तेति।
न्यायबोधिनी
शब्दं लक्षयति– आप्तेति। आप्तोच्चरितत्वे सति वाक्यत्वं शब्दस्य लक्षणम्। प्रमाणशब्दत्वं लक्ष्यतावच्छेदकम्। वाक्यत्वमात्रोक्तावनाप्तोच्चरितवाक्येऽतिव्याप्तिरत आप्तोच्चरितत्वनिवेशः। तावन्मात्रोक्तौ जबगडदशादावतिव्याप्तिरतो वाक्यत्वम्। आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम्। तथा च प्रयोगहेतुभूतयथार्थज्ञानजन्यशब्दत्वमिति पर्यवसन्नोऽर्थः। वस्तुतस्तु पदज्ञानं करणम्। वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिर्व्यापारः। वाक्यार्थज्ञानं शाब्दबोधः फलम्। वृत्तिर्नाम शक्तिलक्षणान्यतररूपा। शक्तिर्नाम घटादिविशेष्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसंकेतः। ईश्वरसंकेतो नाम ईश्वरेच्छा, सैव शक्तिरित्यर्थः।
पदकृत्यम्
अवसरसंगतिमभिप्रेत्योपमानानन्तरं शब्दं निरूपयति– आप्तेति। शब्द इति। शब्दप्रमाणमित्यर्थः। भ्रान्तविप्रलम्भकयोर्वाक्यस्य शब्दप्रमाणत्ववारणाय आप्तेति।
आप्तस्तु यथार्थवक्ता ।
पदकृत्यम्
ननु कोऽयमाप्त इत्यत आह– आप्तस्त्विति। यथार्थवक्ता=यथाभूताबाधितार्थोपदेष्टा।
वाक्यं पदसमूहः । यथा गामानयेति।
दीपिका
वाक्यलक्षणमाह– वाक्यमिति।
पदकृत्यम्
वाक्यं लक्षयति– वाक्यमिति। घटादिसमूहवारणाय पदेति।
शक्तं पदम् । अस्मात् पदादयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः।
दीपिका
पदलक्षणमाह– शक्तमिति। अर्थस्मृत्यनुकूलः पदपदार्थसम्बन्धः शक्तिः। सा च पदार्थान्तरमिति मीमांसकाः। तन्निरासार्थमाह– अस्मादिति। डित्थादीनामिव घटादीनामपि संकेत एव शक्तिः, न तु पदार्थान्तरमित्यर्थः। गवादिशब्दानां जातावेव शक्तिः, विशेषणतया जातेः प्रथममुपस्थितत्वात्, व्यक्तिलाभस्त्वाक्षेपादिना इति केचित्– तन्न, 'गामानय' इत्यादौ वृद्धव्यवहारात्सर्वत्रानयनादेर्व्यक्तावेव सम्भवेन जातिविशिष्टव्यक्तावेव शक्तिकल्पनात्। शक्तिग्रहश्च वृद्धव्यवहारेण। व्युत्पित्सुर्बालो 'गामानय' इत्युत्तमवृद्धवाक्यश्रवणानन्तरं मध्यमवृद्धस्य प्रवृत्तिमुपलभ्य गवानयनं च दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्यतिरेकाभ्यां वाक्यजन्यत्वं निश्चित्य 'अश्वमानय, गां बधान' इति वाक्यान्तरे आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः। अश्वशब्दस्याश्वत्वविशिष्टे शक्तिरिति व्युत्पद्यते। ननु सर्वत्र कार्यपरत्वाद् व्यवहारस्य कार्यवाक्य एव व्युत्पत्तिर्न सिद्धे इति चेत्– न, 'काञ्च्यां त्रिभुवनतिलको भूपतिः' इत्यादौ सिद्धेऽपि व्यवहारात्, विकसितपद्मे 'मधूनि पिबति मधुकरः' इत्यादौ प्रसिद्धपदसमभिव्याहारात्सिद्धेऽपि मधुकरादिपदे व्युत्पत्तिदर्शनाच्च। लक्षणापि शब्दवृत्तिः। शक्यसम्बन्धो लक्षणा। 'गङ्गायां घोषः' इत्यत्र गङ्गापदवाच्यप्रवाहसम्बन्धादेव तीरोपस्थितौ तीरेऽपि शक्तिर्न कल्प्यते। सैन्धवादौ लवणाश्वयोः परस्परसम्बन्धाभावान्नानाशक्तिकल्पनम्। लक्षणा त्रिविधा– जहल्लक्षणाऽजहल्लक्षणा जहदजहल्लक्षणा चेति। यत्र वाच्यार्थस्यान्वयाभावस्तत्र जहल्लक्षणा। यथा– मञ्चाः क्रोशन्तीति। यत्र वाच्यार्थस्यान्वयस्तत्र अजहदिति। यथा– छत्रिणो गच्छन्तीति। यत्र वाक्यैकदेशत्यागेन एकदेशान्वयस्तत्र जहदजहदिति। यथा– तत्त्वमसीति। गौण्यपि लक्षणैव, लक्ष्यमाणगुणसम्बन्धरूपा। यथा– अग्निर्माणवक इति। व्यञ्जनापि शक्तिलक्षणान्तर्भूता। शब्दशक्तिमूला अर्थशक्तिमूला चानुमानादिनान्यथासिद्धा।
तात्पर्यानुपपत्तिर्लक्षणाबीजम्। तत्प्रतीतीच्छयोच्चरितत्वं तात्पर्यम्। तात्पर्यज्ञानं च वाक्यार्थज्ञाने हेतुः, नानार्थानुरोधात्। प्रकरणादिकं तात्पर्यग्राहकम्। द्वारम् इत्यादौ पिधेहि इति शब्दाध्याहारः। नन्वर्थज्ञानार्थत्वाच्छब्दस्यार्थमविज्ञाय शब्दाध्याहारासम्भवादर्थाध्याहार एव युक्त इति चेत्– न, पदविशेषजन्यपदार्थोपस्थितेः शाब्दज्ञानहेतुत्वात्। अन्यथा 'घटः कर्मत्वमानयनं कृतिः' इत्यत्रापि शाब्दज्ञानप्रसङ्गात्।
पङ्कजादिपदेषु योगरूढिः। अवयवशक्तिर्योगः। समुदायशक्ती रूढिः। नियतपद्मत्वज्ञानार्थं समुदायशक्तिः। अन्यथा कुमुदेऽपि प्रयोगप्रसङ्गः। इतरान्विते शक्तिः इति प्राभाकराः। अन्वयस्य वाक्यार्थतया भानसम्भवादन्वयांशेऽपि शक्तिर्न कल्पनीया इति गौतमीयाः।
न्यायबोधिनी
शक्तिनिरूपकत्वमेव पदे शक्तत्वम्। विषयतासम्बन्धेन शक्त्याश्रयत्वं शक्यत्वम्। शक्यसम्बन्धो लक्षणा, सा द्विविधा– गौणी, शुद्धा चेति। गौणी नाम सादृश्यविशिष्टे लक्षणा, यथा– 'सिंहो माणवक' इत्यादौ सिंहपदस्य सिंहसादृश्यविशिष्टे लक्षणा। शुद्धा त्रिविधा– जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति। लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा जहल्लक्षणा। यथा 'गङ्गायां घोष' इत्यत्र गङ्गापदवाच्यप्रवाहसम्बन्धस्य तीरे सत्त्वात्तादृशशक्यसम्बन्धरूपलक्षणाज्ञानाद् गङ्गापदात्तीरोपस्थितिः। लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा अजहल्लक्षणा। यथा 'काकेभ्यो दधि रक्ष्यताम्' इत्यत्र काकपदस्य दध्युपघातके लक्षणा। लक्ष्यतावच्छेदकं दध्युपघातकत्वम्। तेन रूपेण दध्युपघातकानां सर्वेषां काक-बिडाल-कुक्कुट-सारमेयादीनां शक्यलक्ष्याणां बोधात्। जहदजहल्लक्षणा वेदान्तिनां मते। सा च शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रबोधप्रयोजिका। यथा 'तत्त्वमसी'त्यत्र सर्वज्ञत्वकिञ्चिज्ज्ञत्वपरित्यागेन व्यक्तिमात्रबोधनात्।
पदकृत्यम्
शक्तमिति। निरूपकतासम्बन्धेन शक्तिविशिष्टमित्यर्थः। अस्मादिति। 'घटपदाद् घटरूपोऽर्थो बोद्धव्य' इतीश्वरेच्छैव शक्तिरित्यर्थः। अर्थस्मृत्यनुकूलपदपदार्थसम्बन्धत्वं तल्लक्षणम्। शक्तिरिव लक्षणापि पदवृत्तिः। अथ केयं लक्षणा? उच्यते, शक्यसम्बन्धो लक्षणा। सा च त्रिधा– जहदजहज्जहदजहद्भेदात्। वर्तते च गङ्गायां घोष इत्यत्र गङ्गापदशक्यप्रवाहसम्बन्धस्तीरे। लक्षणाबीजं च तात्पर्यानुपपत्तिः। अत एव प्रवाहे घोषतात्पर्यानुपपत्तेस्तीरे लक्षणा सेत्स्यति। 'छत्रिणो यान्ती'त्यादौ द्वितीया। 'सोऽयमश्व' इत्यादौ तृतीया।
आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः ।
दीपिका
आकाङ्क्षेति। आकाङ्क्षादिज्ञानमित्यर्थः। अन्यथाऽऽकाङ्क्षादिभ्रमाच्छाब्दभ्रमो न स्यात्।
पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा ।
दीपिका
आकाङ्क्षां लक्षयति– पदस्येति।
न्यायबोधिनी
आकाङ्क्षां लक्षयति– पदस्येति। अव्यवहितोत्तरत्वादिसम्बन्धेन यत्पदे यत्पदप्रकारकज्ञानव्यतिरेकप्रयुक्तो यादृशशाब्दबोधाभावस्तादृशशाब्दबोधे तत्पदे तत्पदवत्त्वमाकाङ्क्षा। यथा 'घटम्' इत्यादिस्थलेऽव्यवहितोत्तरत्वादिसम्बन्धेन 'अम्'पदं 'घट' पदवदित्याकारका 'ऽम्'पदविशेष्यक'घट'पदप्रकारकज्ञानसत्त्वे 'घटीयं कर्मत्वमि'ति बोधो जायते। 'अम् घट' इति विपरीतोच्चारणे तु तादृशज्ञानाभावात्तादृशशाब्दबोधो न जायते। अतस्तादृशाकाङ्क्षाज्ञानं (तादृश) शाब्दबोधे कारणम्।
पदकृत्यम्
पदस्येति। असम्भववारणाय पदान्तरव्यतिरेकप्रयुक्त इति। पुनरसम्भववारणाय पदान्तरेति।
अर्थाबाधो योग्यता ।
दीपिका
योग्यतालक्षणमाह– अर्थेति।
न्यायबोधिनी
अर्थाबाध इति। बाधाभावो योग्यतेत्यर्थः। 'अग्निना सिञ्चती'त्यत्र सेककरणत्वस्य जलादिधर्मस्य वह्नौ बाधनिश्चयसत्त्वान्न तादृशवाक्याच्छाब्दबोधः।
पदकृत्यम्
अर्थेति। आकाङ्क्षावारणाय अर्थेति।
पदानामविलम्बेनोच्चारणं सन्निधिः ।
दीपिका
सन्निधिलक्षणमाह– पदानामिति। अविलम्बेन पदार्थोपस्थितिः सन्निधिः। उच्चारणं तु तदुपयोगितया युक्तम्।
न्यायबोधिनी
सन्निधिं निरूपयति– पदानामिति। असहोच्चारितानि=विलम्बोच्चारितानि।
पदकृत्यम्
पदानामिति। असहोच्चारितेष्वतिव्याप्तिवारणाय अविलम्बेनेति। आकाङ्क्षावारणाय पदानामिति।
आकाङ्क्षादिरहितं वाक्यमप्रमाणम्। यथा गौरश्वः पुरुषो हस्तीति न प्रमाणम्, आकाङ्क्षाविरहात्। अग्निना सिञ्चतीति न प्रमाणं योग्यताविरहात्। प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं, सान्निध्याभावात्।
दीपिका
गौरश्व इति। घटः कर्मत्वम् इत्यनाकाङ्क्षोदाहरणं द्रष्टव्यम्।
पदकृत्यम्
आकाङ्क्षादिशून्यवाक्यस्याऽत्र प्रमाणत्वं निषेधयति– तथा चेति। आकाङ्क्षादिकं शाब्दहेतुरित्युक्ते चेत्यर्थः। अनाकाङ्क्षाद्युदाहरणं दर्शयति– यथेति।
वाक्यं द्विविधम् – वैदिकं लौकिकं च।
दीपिका
वाक्यं विभजते– वाक्यमिति।
वैदिकमीश्वरोक्तत्वात् सर्वमेव प्रमाणम्। लौकिकं त्वाप्तोक्तं प्रमाणम्। अन्यदप्रमाणम् ।
दीपिका
वैदिकस्य विशेषमाह– वैदिकमीश्वरोक्तत्वादिति। ननु वेदस्यानादित्वात्कथमीश्वरोक्तत्वमिति चेत्– न, वेदः पौरुषेयो वाक्यसमूहत्वाद् भारतादिवत्, इत्यनुमानेन पौरुषेयत्वसिद्धेः। न च स्मर्यमाणकर्तृकत्वमुपाधिः। गौतमादिभिः शिष्यपरम्परया वेदेऽपि कर्तृस्मरणेन साधनाव्यापकत्वात्। 'तस्मात् तपस्तेपानात् त्रयो वेदा अजायन्त' इति श्रुतेश्च।
ननु वर्णा नित्याः, 'स एवायं गकारः' इति प्रत्यभिज्ञाबलात्। तथा च कथं वेदस्यानित्यत्वम्? इति चेत्– न, 'उत्पन्नो गकारः नष्टो गकारः' इति प्रतीत्या वर्णानामनित्यत्वात् 'सोऽयं गकारः' इति प्रत्यभिज्ञायाः 'सेयं दीपज्वाला' इतिवत्साजात्यावलम्बनत्वात्, वर्णानां नित्यत्वेऽप्यानुपूर्वीविशिष्टवाक्यस्यानित्यत्वाच्च। तस्मादीश्वरोक्तो वेदः। मन्वादिस्मृतीनामाचाराणां च वेदमूलकतया प्रामाण्यम्। स्मृतिमूलवाक्यानामिदानीमनध्ययनात्तन्मूलभूता काचिच्छाखोच्छिन्नेति कल्प्यते। ननु पठ्यमानवेदवाक्योत्सादस्य कल्पयितुमशक्यतया विप्रकीर्णवादस्यायुक्तत्वान्नित्यानुमेयो वेदो मूलमिति चेत्– न, तथापि वर्णानुपूर्वीज्ञानाभावेन बोधकत्वासम्भवात्।
ननु 'एतानि पदानि स्वस्मारितार्थसंसर्गवन्ति आकाङ्क्षादिमत्पदकदम्बकत्वात्, सद्वाक्यवत्' इत्यनुमानादेव संसर्गज्ञानसम्भवाच्छब्दो न प्रमाणान्तरमिति चेत्– न, अनुमित्यपेक्षया शाब्दज्ञानस्य विलक्षणस्य शब्दात् 'प्रत्येमि' इत्यनुव्यवसायसाक्षिकस्य सर्वसम्मतत्वात्।
नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति 'पीनो देवदत्तो दिवा न भुङ्क्ते' इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्त्या रात्रिभोजनमर्थापत्त्या कल्प्यत इति चेत्– न, 'देवदत्तो रात्रौ भुङ्क्ते, दिवाऽभुञ्जानत्वे सति पीनत्वात्' इत्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात्। 'शते पञ्चाशत्' इति सम्भवोऽप्यनुमानमेव। 'इह वटे यक्षस्तिष्ठति' इत्यैतिह्यमज्ञातमूलवक्तृकः शब्द एव। चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति न मानान्तरम्। तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि।
इति दीपिकायां शब्दपरिच्छेदः।
अथ प्रामाण्यविचारः।
सर्वेषां ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतो ग्राह्यं परतो वेति विचार्यते। तत्र विप्रतिपत्तिः। ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वा? अत्र विधिकोटिः स्वतस्त्वम्, निषेधकोटिः परतस्त्वम्। अनुमानग्राह्यत्वेन सिद्धसाधनतावारणाय यावदिति। 'इदं ज्ञानमप्रमा' इति ज्ञानेन प्रामाण्यग्रहाद् बाधवारणाय– अप्रामाण्याग्राहकेति। 'इदं ज्ञानमप्रमा' इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्याप्रामाण्याग्राहकत्वाभावात्स्वतस्त्वं न स्यादतस्तदिति। तस्मिन्प्रामाण्याश्रयेऽप्रामाण्यग्राहक इत्यर्थः। उदाहृतस्थले व्यवसायेऽप्रामाण्यग्राहकस्याप्यनुव्यवसाये तदग्राहकत्वात्स्वतस्त्वसिद्धिः।
ननु स्वत एव प्रामाण्यं गृह्यते, 'घटमहं जानामि' इत्यनुव्यवसायेन घटघटत्वयोरिव तत्सम्बन्धस्यापि विषयीकरणात्, व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात्, पुरोवर्तिनि प्रकारसम्बन्धस्यैव प्रमात्वपदार्थत्वादिति चेत्– न, स्वतःप्रामाण्यग्रहे जलज्ञानं प्रमा न वा? इत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात्, अनुव्यवसायेन प्रामाण्यस्य निश्चितत्वात्। तस्मात्स्वतोग्राह्यत्वाभावात्परतो ग्राह्यत्वम्। तथा हि प्रथमं जलज्ञानानन्तरं प्रवृत्तौ सत्यां जललाभे सति 'पूर्वोत्पन्नं जलज्ञानं प्रमा, समर्थप्रवृत्तिजनकत्वात्, यन्नैवं तन्नैवम्, यथाऽप्रमा' इति व्यतिरेकिणा प्रमात्वं निश्चीयते। द्वितीयादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेनान्वयव्यतिरेकिणापि गृह्यते।
प्रमाया गुणजन्यत्वमुत्पत्तौ परतस्त्वम्। प्रमाऽसाधारणकारणं गुणः। अप्रमाऽसाधारणकारणं दोषः। तत्र प्रत्यक्षे विशेषणवद्विशेष्यसन्निकर्षो गुणः, अनुमितौ व्यापकवति व्याप्यज्ञानम्, उपमितौ यथार्थसादृश्यज्ञानं, शाब्दज्ञाने यथार्थयोग्यताज्ञानम् इत्याद्यूहनीयम्। पुरोवर्तिनि प्रकाराभावस्यानुव्यवसायेनानुपस्थितत्वादप्रमात्वं परत एव गृह्यते। पित्तादिदोषजन्यत्वादुत्पत्तौ परतस्त्वम्।
ननु सर्वज्ञानानां यथार्थत्वादयथार्थज्ञानमेव नास्ति। न च शुक्ताविदं रजतम् इति ज्ञानात्प्रवृत्तिदर्शनादन्यथाख्यातिसिद्धिरिति वाच्यम्। रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेव प्रवृत्तिसम्भवात् उपस्थितेष्टभेदाग्रहस्यैव सर्वत्र प्रवर्तकत्वेन 'नेदं रजतम्' इत्यादावतिप्रसङ्गाभावादिति चेत्– न, सत्यरजतस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवेन प्रवृत्तिजनकतया शुक्तावपि रजतार्थिप्रवृत्तिजनकत्वेन विशिष्टज्ञानस्यैव कल्पनात्।
न्यायबोधिनी
वैदिकमिति। वेदवाक्यमित्यर्थः। इदमुपलक्षणम्। वेदमूलकस्मृत्यादीन्यपि ग्राह्याणि। लौकिकं त्विति। वेदवाक्यभिन्नमित्यर्थः। आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम्।
इति न्यायबोधिन्यां शब्दपरिच्छेदः।
वाक्यार्थज्ञानं शाब्दज्ञानं, तत्करणं शब्दः ।
पदकृत्यम्
नन्वेतावता शाब्दसामग्री प्रपञ्चिता। प्रमाविभाजकवाक्ये शाब्दस्याप्युद्दिष्टत्वेन तत्कुतो न प्रदर्शितमित्यत आह– वाक्यार्थेति। शाब्दत्वं च 'शब्दात्प्रत्येमि' इत्यनुभवसिद्धा जातिः। शाब्दबोधक्रमो यथा– 'चैत्रो ग्रामं गच्छति' इत्यत्र 'ग्रामकर्मकगमनानुकूलवर्तमानकृतिमांश्चैत्रः' इति शाब्दबोधः। द्वितीयायाः कर्मत्वमर्थः। धातोर्गमनम्। अनुकूलत्वं च संसर्गमर्यादया भासते। लटो वर्तमानत्वमाख्यातस्य कृतिः। तत्सम्बन्धः संसर्गमर्यादया भासते। 'रथो गच्छति' इत्यत्र 'गमनानुकूलव्यापारवान् रथः' इति शाब्दबोधः। 'स्नात्वा गच्छति' इत्यत्र 'गमनप्रागभावावच्छिन्नकालीनस्नानकर्ता गमनानुकूलवर्तमानकृतिमान्' इति शाब्दबोधः। क्त्वाप्रत्ययस्य कर्ता पूर्वकालीनत्वं चार्थः। एवमन्यत्रापि वाक्यार्थो बोध्यः।
इति पदकृत्ये शब्दपरिच्छेदः।