सामग्रीं त्यजन्तु

वेदान्तसङ्ग्रहः — ४. अध्यारोपः

तत्र अध्यारोप-अपवाद-न्यायेन बोधनप्रकारं दर्शयितुं तावत् ब्रह्मणि जगतः आरोपो दर्शनीयः इति तदर्थं सृष्टिं सङ्क्षेपेण ब्रूमः ॥१॥

तथा हि – जीवस्य व्यवहार-दशा परमार्थ-दशा च इति अस्ति अवस्थाद्वयम्। तत्र परमार्थ-दशायां ब्रह्मातिरिक्तं किमपि नास्ति । सुषुप्ति-मृति-मूर्छादीनाम् अत्रैव अन्तर्भावः । व्यवहारदशायां सर्वम् अस्ति । स्वप्नजागरयोः अत्रैव अन्तर्भावः। अस्यां दशायां जगज्जन्मादि-हेतुत्वं ब्रह्मणः तटस्थलक्षणम् । सच्चिदानन्दत्वे सति मायाश्रयत्वं स्वरूपलक्षणम् ॥२॥

सृष्टेः प्राक् मायाश्रयम् एकं ब्रह्मैव अद्वितीयम् आसीत् । सा च माया ब्रह्मणि अध्यस्तैव, व्यावहारिकत्वात् व्यवहारस्य च अध्यास-कार्यत्वात् । कदा केन कथम् इयम् अध्यस्ता इति न अतिशङ्कनीयम्, अनिर्वचनीयत्वात् माया-अध्यासस्य, अनादित्वात् स्वयमेव भूतत्वाच्च । इदं च ब्रह्मणो मायाशबलितत्वं जगत्सृष्ट्यादि-व्यापार-अन्यथानुपपत्त्या कल्पितं, श्रुत्यादि-सिद्धं च । अनाद्युपादानत्वे सति अनिर्वचनीयत्वं मायायाः लक्षणम् । अनिर्वचनीयत्वं च सदसत्-पदाभ्यां वक्तुम् अशक्यत्वम् । माया न सती, ज्ञानेन बाध्यत्वात् । नापि असती, प्रतीयमानत्वात् । नापि सदसती, सदसत्तयोः विरुद्धयोः एकत्र समावेश-असम्भवात् । अतः अनिर्वचनीया एव । इदमेव अनिर्वचनीयत्वं मिथ्यात्वमाहुः। "न जानामि" इति अनुभवसिद्धा, "अजामेकाम्" इत्यादि श्रुतिसिद्धा जगद्रूप-कार्यानुमेया च इयं माया सर्ववादिभिः अपि अभ्युपगतैव ॥३॥

किन्तु द्वैतिनः मायां सत्यामेव ईश्वर-शक्तिम् आहुः । वयं तु मिथ्याम् इति इयानेव भेदः। ईश्वर-शक्तित्वांशे न कोऽपि विरोधः । अस्मात् माया-शबलितात् परमेश्वर-सकाशात् निरवकाशात् आकाशः संभूतः । निरवकाशे ब्रह्मणि अवकाश-असम्भवात् । अवकाशवान् आकाशः ब्रह्मणि मायया अध्यस्त एव, रज्जौ सर्पवत् । अस्मिंश्च आकाशे मायांशानाम् अनृतजाड्य-दुःखानां ब्रह्मांशानां सत्-चित्-आनन्दानां च कारणगतानां सङ्क्रमणात् षड्गुणकोऽयम् आकाशः । एवं वाय्वादयोऽपि ऊह्याः । आकाशः सन्, आकाशो भाति, आकाशः प्रियः, आकाशोऽसत्यः, आकाशो जडः, आकाशोऽप्रियः इति अनुभवः सार्वजनीनः। अस्य सहजो गुणः प्रतिध्वनिः। ततः मायिनि ब्रह्मणि अध्यस्तात् आकाशात् वायुः जातः। तस्मात् च आकाशाध्यस्तात् वायोः अग्निः जातः। तस्मात् च वाय्वध्यस्तात् अग्नेः जलं जातम् । तस्मात् अग्नौ अध्यस्तात् जलात् पृथिवी जाता।

इमानि शब्दादि-गुणकानि अपञ्चीकृतानि पञ्चभूतानि स्वोपादान-मायानिष्ठ-सत्त्वरजस्-तमोरूप-गुणत्रयवशात् प्रत्येकं सत्त्वादिगुणत्रयवन्ति । तत्र आकाशस्य सत्त्वांशात् श्रोत्रम् इन्द्रियं जातम्। वायोस्तु सत्त्वांशात् त्वक् । अग्नेः सत्त्वांशात् चक्षुः । जलस्य सत्त्वांशात् रसनेन्द्रियम्। पृथिव्याः सत्त्वांशात् घ्राणम् । आकाशस्य रजोंशात् वागिन्द्रियं जातम् । वायोः रजोंशात् पाणिः । अग्नेः पादः । जलस्य पायुः । पृथिव्याः उपस्थेन्द्रियम्। आकाशादि-भूत-पञ्चकस्य सत्त्वांशसमष्टिवशात् अन्तःकरणं जातम् । रजोंश-समष्टिवशात् प्राणो जातः । सुखं दुःखं कामः सङ्कल्पः विचिकित्सा श्रद्धा अश्रद्धा ह्रीः धीः भीः इत्यादयोऽन्तःकरण-धर्माः । क्षुत्-पिपासादयस्तु प्राणधर्माः ॥४॥

अथ भूतानां पञ्चानाम् ईश्वरसङ्कल्पवशात् पञ्चीकरणम् आसीत् । पञ्च भूतानि तावत् प्रत्येकं द्विधा कृतानि। तत्र एको भागः पुनः चतुर्धा कृतः। तत्र एकम् अर्धभागं विहाय अवशिष्टाः चत्वारो भागाः प्रत्येकं भूतान्तरेषु योजिताः । तदित्थम् – आकाशस्य अर्धांशः वाय्वादीनां चतुर्धांशाः चत्वारश्च मिलित्वा पञ्चीकृतः आकाशः आसीत्। वायोः अर्धांशः आकाशादीनां चतुर्णां चतुर्धांश-चतुष्टयं च मिलित्वा वायुः पञ्चीकृतः आसीत् । अग्नेः अर्धांशः आकाशादि-चतुर्णां चतुर्धांश-चतुष्टयं च मिलित्वा पञ्चीकृतोऽग्निः । जलस्य अर्धांशः आकाशादि-चतुर्णां चतुर्धांश-चतुष्टयं च मिलित्वा जलं पञ्चीकृतम्। पृथिव्याः अर्धांशः आकाशादि-चतुर्णां चतुर्धांश-चतुष्टयं च मिलित्वा पृथिवी पञ्चीकृता। इति पञ्चीकरणप्रकारः। पञ्चीकृत-पञ्चभूतेभ्यः सकाशात् सर्वमिदं मनुष्यादिशरीरजातम् उत्पन्नम् इति प्रागेव उक्तम् ॥५॥

सूर्यो ह्रदे इव ब्रह्म प्रतिबिम्बितम् अन्तःकरणे । तं च प्रतिबिम्बं जीवं विदुः। ईश्वरं केचित् जीवस्य बिम्बमाहुः । केचित्तु मायायां ब्रह्मणः प्रतिबिम्बम् आहुः। तदेवम् ईश्वरः जीवः अन्तःकरणम् अज्ञानं प्राणः ज्ञान-कर्मेन्द्रियदशकं शब्दादि-विषयपञ्चकम् आकाशादि-भूत-पञ्चकं च इति पञ्चविंशति-तत्त्वानि। अन्तःकरण-अवान्तर-भेदैः प्राण-अवान्तर-भेदैश्च परिगणने द्वात्रिंशत् भवन्ति। व्यावहारिक-सत्यत्वात् एतेषां तत्त्वंपद-वाच्यता । भौतिकानां तु भूतमयत्वात् न पृथग्-गणना ॥६॥ ॥इति अध्यारोपः ॥