लघुवासुदेवमननम्¶
कर्ता: वासुदेवेन्द्रः
सर्वतन्त्रस्वतन्त्राय सदात्माद्वैतवेदिने ।
श्रीमते शंकरार्याय वेदान्तगुरवे नमः ॥१॥
योऽवतीर्ण इहाचार्यरूपेण यतिनां मुदे ।
श्रीमन्नारायणं वन्दे तं हरिं करुणानिधिम् ॥२॥
मननाख्यं प्रकरणं वासुदेवयतीश्वरैः ।
रचितं विस्तरेणाद्य संग्रहेण प्रकाश्यते ॥३॥
बालानामुपकाराय मम विज्ञानसिद्धये ।
तत्र श्रीबालगोपालकृष्णः सन्निहितो भवेत् ॥४॥
वर्णकानि¶
- [०१] उपक्रमः, अनुबन्धचतुष्टयं, अध्यारोपापवादः, मूलप्रकृतिः, सृष्टिः ।
- [०२] अनुबन्धचतुष्टयं, साधनचतुष्टयं, गुरूपसदनम् ।
- [०३] प्रपञ्चः ।
- [०४] दुःखहेतुः, दुःखस्वरूपम् ।
- [०५] कर्मकर्तृत्वविचारः ।
- [०६] रागद्वेषादिवृत्तयः, अभिमानः, अविवेकः, अज्ञानम् ।
- [०७] आत्मानात्मविवेकः, आमात्मज्ञानं, ब्रह्मकैवल्यम् ।
- [०८] आत्मलक्षणम् – शरीरत्रयविलक्षणत्वम् ।
- [०९] आत्मलक्षणम् – अवस्थात्रयसाक्षित्वम् ।
- [१०] आत्मलक्षणम् – पञ्चकोशव्यतिरिक्तत्वम् ।
- [११] आत्मलक्षणम् – सच्चिदानन्दस्वरूपत्वम् ।
- [१२] आत्मा अखण्डः, उपसंहारः ।
- टिप्पणी