उपदेशसारः¶
कर्तुराज्ञया प्राप्यते फलम् ।
कर्म किं परं कर्म तज्जडम् ॥१॥
कृतिमहोदधौ पतनकारणम् ।
फलमशाश्वतं गतिनिरोधकम् ॥२॥
ईश्वरार्पितं नेच्छया कृतम् ।
चित्तशोधकं मुक्तिसाधकम् ॥३॥
कायवाङ्मनः कार्यमुत्तमम् ।
पूजनं जपश्चिन्तनं क्रमात् ॥४॥
जगत ईशधीयुक्तसेवनम् ।
अष्टमूर्तिभृद्देवपूजनम् ॥५॥
उत्तमस्तवाद् उच्चमन्दतः ।
चित्तजं जपध्यानमुत्तमम् ॥६॥
आज्यधारया स्रोतसा समम् ।
सरलचिन्तनं विरलतः परम् ॥७॥
भेदभावनात् सोऽहमित्यसौ ।
भावनाभिदा पावनी मता ॥८॥
भावशून्यसद्भावसुस्थितिः ।
भावनाबलाद् भक्तिरुत्तमा ॥९॥
हृत्स्थले मनः स्वस्थता क्रिया ।
भक्तियोगबोधाश्च निश्चितम् ॥१०॥
वायुरोधनात् लीयते मनः ।
जालपक्षिवत् रोधसाधनम् ॥११॥
चित्तवायवः चित्क्रियायुताः ।
शाखयोर्द्वयी शक्तिमूलका ॥१२॥
लयविनाशने उभयरोधने ।
लयगतं पुनर्भवति नो मृतम् ॥१३॥
प्राणबन्धनात् लीनमानसम् ।
एकचिन्तनात् नाशमेत्यदः ॥१४॥
नष्टमानसोत्कृष्टयोगिनः ।
कृत्यमस्ति किं स्वस्थितिं यतः ॥१५॥
दृश्यवारितं चित्तमात्मनः ।
चित्त्वदर्शनं तत्त्वदर्शनम् ॥१६॥
मानसं तु किं मार्गणे कृते ।
नैव मानसं मार्ग आर्जवात् ॥१७॥
वृत्तयस्त्वहं वृत्तिमाश्रिताः ।
वृत्तयो मनो विद्ध्यहं मनः ॥१८॥
अहमयं कुतो भवति चिन्वतः ।
अयि पतत्यहं निजविचारणम् ॥१९॥
अहमि नाशभाज्यहमहंतया ।
स्फुरति हृत्स्वयं परमपूर्णसत् ॥२०॥
इदमहं पदाभिख्यमन्वहम् ।
अहमिलीनकेऽप्यलयसत्तया ॥२१॥
विग्रहेन्द्रियप्राणधीतमः ।
नाहमेकसत् तज्जडं ह्यसत् ॥२२॥
सत्त्वभासिका चित्क्ववेतरा ।
सत्तया हि चिच्चित्तया ह्यहम् ॥२३॥
ईशजीवयोर्वेषधीभिदा ।
सत्स्वभावतो वस्तु केवलम् ॥२४॥
वेषहानतः स्वात्मदर्शनम् ।
ईशदर्शनं स्वात्मरूपतः ॥२५॥
आत्मसंस्थितिः स्वात्मदर्शनम् ।
आत्मनिर्द्वयाद् आत्मनिष्ठता ॥२६॥
ज्ञानवर्जिताज्ञानहीनचित् ।
ज्ञानमस्ति किं ज्ञातुमन्तरम् ॥२७॥
किं स्वरूपमित्यात्मदर्शने ।
अव्ययाभवापूर्णचित्सुखम् ॥२८॥
बन्धमुक्त्यतीतं परं सुखम् ।
विन्दतीह जीवस्तु दैविकः ॥२९॥
अहमपेतकं निजविभानकम् ।
महदिदं तपो रमणवागियम् ॥३०॥