सामग्रीं त्यजन्तु

लघुवासुदेवमननम् — टिप्पणी

सारः

०१

  • ब्रह्म अध्यारोपापवादाभ्यां ज्ञातव्यम् । आरोपितनिवृत्त्यैवाधिष्ठानज्ञानोदयः तथैव भवति ।
  • अज्ञानम् ⇒ अध्यारोपः ।
  • अज्ञानपर्यायाः = विद्या, तमः, मोहः, मूलप्रकृतिः, प्रधानं, गुणसाम्यम्, अव्यक्तं, माया ।
  • मूलप्रकृतिः (प्रलयः, महासुषुप्तिः), त्रिगुणात्मिका, अनन्तकोटिजीवाः सृष्टेः पूर्वं लीनाः ।
  • सृष्टिकाले । मूलप्रकृतिः ⇒ माया अविद्या तामसी
मूलप्रकृतिः प्रधानगुणः कार्यम् प्रतिबिम्बितचैतन्यम्
माया विशुद्धसत्त्वप्रधाना जगत्स्रष्टा
(निमित्तकारणम्)
ईश्वरः
(अव्याकृतः, अन्तर्यामी)
तामसी तमःप्रधाना जगदुपादानम्
अविद्या रजःप्रधाना जीवः
कारणशरीरम् सूक्ष्मशरीरम् स्थूलशरीरम्
ईश्वरः ईश्वरः हिरण्यगर्भः, सूत्रात्मा, महाप्राणः वैश्वानरः, विराड्, वौराजः
जीवः प्राज्ञः, पारमार्थिकः, अविद्यावच्छिन्नः तैजसः, प्रातिभासिकः विश्वः, व्यावहारिकः, चिदाभासः
शरीरम् अवस्था कोशः अवयवाः
कारण- सुषुप्ति- आनन्दमय-
सूक्ष्म- स्वप्न- प्राणमय-,
मनोमय-,
विज्ञानमय-
इन्द्रियाणि, प्राणाः,
अन्तःकरणम्*
स्थूल- जाग्रद्- अन्नमय- प्रञ्चीकृतभूतानि

*अन्तकरणम् - क्वचित् एक एव गण्यते, क्वचित् मनोबुद्धी (बुद्धौ अहङ्कारस्यान्तर्भावः, मनसि चित्तस्य), क्वचित् चतुर्धा ।

  • त्रिविधः जीवः

पूर्वपूर्वम् उत्तरोत्तरस्य अधिष्ठानम् ।

अवस्था व्यपदेशः दृष्टान्तः
सुषुप्ति- पारमार्थिकः (कूटस्थः) जलम्
जाग्रद्- व्यावहारिकः तरङ्गः
स्वप्न- प्रातिभासिकः फेनम्
  • शक्तिद्वयम्
    • विक्षेपशक्तिः
    • आवरणशक्तिः (संसारवृक्षमूलम्)
      • आवरणं द्विविधम् ।
        • असत्त्वावरणम् – वस्तु नास्ति ।
        • अभानावरणम् – वस्तु न भाति ।
      • नाशः – ज्ञानेन ।
        • श्रवणेन – असत्त्वावरणनाशः । (परोक्षज्ञानम्)
        • श्रवणमनननिदिध्यासेन – अभानावारणनाशः । (अपरोक्षज्ञानम्)
  • सप्तावस्था नाम – अज्ञानमावृतिस्तद्वद्विक्षेपश्च परोक्षधीः । अपरोक्षमतिः शोकहतिस्तृप्तिर्निरङ्कुशा॥

०२ अनुबन्धचतुष्टयम्, साधनचतुष्टयम्

०३ प्रपञ्चः, आत्मा, अनेकात्मा, बहुत्वम् ।

  • प्रपञ्चः = आत्मा + अनात्मा
    • आत्मा अनात्मनः अधिष्ठानम् अतः आत्मापि प्रपञ्च एव ।
मूलरूपम् (एकम्) अनेकत्वम् अवच्छेदवादः प्रतिबिम्बवादः
आत्मा एकः → अनेकधा 'भाति' एकः आकाशः → महाकाशः, मठाकाशः, घटाकाशः
एकः आत्मा → शरीरोपाधिभेदेन देवः, मनुष्यः, रामः, पशुः
(अत्र परिणामः नास्ति)
एकः आदित्यः → प्रतिबिम्बितः अनेकधा भाति
एकः आत्मा → प्रत्यन्तःकरणप्रतिबिम्बितः अनेकः इव
(अत्र परिणामः नास्ति)
अनात्मा प्रकृतिः (एकम्) कार्यरूपेणानेकत्वम् पृथिवी → पर्वत, वृक्षः, ... जलम् → समुद्रः, नदी, ...

[०४] दुःखहेतुः, दुःखस्वरूपम्

  • दुःखस्वरूपम्
  • मुक्तिः चतुर्धा
  • दुःखस्य कारणं शरीरम् ।
  • शरीरस्य कारणं कर्मैव ।
    • ज्ञानेन कर्मनाशः । कर्माभावः ⇒ जन्माभावः ⇒ दुःखाभावः ⇒ आनन्दविर्भावः ।
    • परस्परश्रुतिविरोधः नास्ति (कर्मानाशः जायते) ।

[०५] कर्मकर्तृत्वविचारः

कर्मप्रकाराः

  • पुण्यकर्म (⇒ देवादिशरीरम्), पापकर्म (⇒ तिर्यगादिशरीरम्), मिश्रकर्म (⇒ मनुष्यादिशरीरम्)।
  • प्रतिप्रकारं पुनः विभज्यते – उत्कृष्टं, मध्यमं, सामान्यम् ।
    • मिश्रकर्मोत्कृटं शरीरं क्रमेण निष्कामकर्मानुष्ठानसाधनचतुष्टयसद्गुरुलाभश्रवणमननात्मज्ञानक्रमेण जीवन्मुक्तेर्विदेहमुक्तेश्च योग्यम् ।
  • त्रिविधकरणम् – मनः, वाक्, शरीरम् ।
करणम् पुण्यकर्म पापकर्म मिश्रकर्म
मनः सविशेषचिन्ता (सविशेषब्रह्मचिन्ता) निर्विशेषचिन्ता(निर्विशेषब्रह्मचिन्ता) परलोकचिन्ता भक्तिज्ञानवैराग्यचिन्तेत्यादिबुद्धिविकाराः विषयचिन्ता परेषामपकारचिन्ता वेदशास्त्रयोरप्रामाण्यचिन्ता धर्माद्यभावचिन्तेत्यादिबुद्धिविकाराः सविशेषचिन्ताया निर्विशेषचिन्तायाः पुण्यचिन्ताया अपि विषयचिन्तादिपापचिन्तया मिश्रीकृत्यानुष्ठानम्
वाक् वेदाध्ययनं शास्त्रपठनं गीतापठनं सहस्रनामपठनं पञ्चाक्षरादिमन्त्रजपो भगवन्नामकीर्तनं परोपकारवार्त्ता सत्यवाक्यं मृदुभाषणं पूर्वभाषणं च वेदशास्त्रदूषणं देवतादूषणमसत्यपिशुनपारुष्यवार्त्ता अपहासवार्त्ता चेत्यादि वचनम् वेदाध्ययने पूजाकाल एवमादिपुण्यवार्त्तासु परनिन्दाया असत्यस्य परिहासस्य लौकिकवार्त्ताया एवमादिपापानां मिश्रीकृत्यानुष्ठानम्
शरीरम् ण्यतीर्थस्नानं गुरुदेवतानमस्कारो देवपूजाप्रदक्षिणं सज्जनदर्शनं त्यागो लोकानुग्रहसञ्चार एवमादिकर्माणि परहिंसा परस्त्रीसङ्गचौर्यं दुष्टसङ्ग इत्यादिकर्माणि ब्राह्मणभोजनार्थं परोपद्रवो देवालयनिर्माणार्थं परद्रव्यापहारः प्रपां स्थापयित्वा भृतकस्याप्रदानमेवमादिकर्माणि

कर्तृत्वम्

  • आत्मनि कर्तृत्वम् अध्यासेन । न तु स्वाभाविकम् ।
    • कुतः कर्तृत्वं स्वाभाविकं न? यथा * दुःखस्वरूपप्रकरणे चर्चितं तद्वदत्रापि ।
    • यथा नौनिष्ठगमनस्य वृक्षेषु चलत्वम् अध्यासवशात् ।
    • अकर्ता जीवन्मुक्तः न चेत् तदा वेदान्तसम्प्रदायो गुरुशिष्यौ न स्युः ।
  • त्रिविधकरणस्य कर्तृत्वं कथम्? करणानां करणान्तराभावात् ।
    • प्रत्युदाहरणम् (वायुः, जलौघः)
  • प्रेरकास्तु रागद्वेषाः । रागद्वेषाः एव करणं कर्मणि प्रयोजयन्ति ।
  • त्रिविधकरणकृतकर्मज्ञानस्य फलद्वयम् ।
    • मुख्यफलम् – ब्रह्मनिष्ठा, नाहं कर्ता इत्यनुभवावस्थानम् ।
    • अवान्तरफलम् – पुण्यकर्मस्ववस्थानम् (न कदाचित् पापकर्मणि) ।
  • ज्ञानिप्रकाराः

कारयितृत्वम्

  • कारयितृत्वमात्मनि भ्रान्त्या भाति । पुनश्च यथापूर्वं स्वाभाविकत्वस्य अनुपपत्तिः ।
  • प्रतिबन्धकत्रयम्

०६

  • रागद्वेषाः - १६
  • अज्ञानम् ⇒ अविवेकः ⇒ अभिमानः ⇒ रागद्वेषाः ⇒ कर्म
  • कथम् आत्मज्ञानवृत्तिः अज्ञाननिवर्तिका?
    • अज्ञानस्य कर्मणः न नाश्यनाशकभावः । अविरोधः (यथा अन्धकारस्य मेघस्य च)
    • आत्मज्ञानमपि कर्मजन्यम्? त्रिविधकरणेन जन्यम्!
      • आत्मज्ञानवृत्तिरपि मानसकर्म एव (अतः कार्यम्) ।
      • ज्ञानं द्विविधम्
        • स्वरूपज्ञानम् (सुषुप्तावज्ञानप्रकाशकम् इति स्फुटतरम् । सर्वास्ववस्थासु भवति ।)
        • वृत्तिज्ञानम् (जाग्रत्स्वप्नयोर्विषयप्रकाशकम्)
      • आत्मविषयकाखण्डाकारवृत्तिः + स्वरूपज्ञानम् ⇒ अज्ञाननाशकत्वम् ।
        • केवला वृत्तिः, केवलं स्वरूपज्ञानं वा न अज्ञाननाशकम् ।
        • यथा केवलः आदियः, केवलः काञ्चविशेषः दाहकः, किन्तु काञ्चविशेषप्रविष्टः आदित्यः दाहकः ।
    • अज्ञाने नष्टेऽपि वृत्तिरवशिष्यते तर्हि कथं तदद्वैतम्?
      • कतकरजोवत् वृत्तिः स्वकार्यं सम्पाद्य विरता भवति ।
  • ज्ञानेनैव अज्ञाननाशः ।
    • न योगेन न कर्मभिः नोपासनया ।
    • ज्ञानं वस्तुतन्त्रम् (प्रमाणम्) ।
    • उपासनायोगौ मनोव्यापाररूपत्वात्क्रियात्मकौ न वस्तुतन्त्रौ (बलाद् अभ्यासाद् वा सालिग्रामे विष्णुबुद्धिः) ।
      तस्माद्वस्तुतन्त्रं ज्ञानं कर्मणा नायाति, किं तु विचारेणैव साध्यम्।

०७

आत्मा अनात्मा च

आत्मा अनात्मा
स्वरूपम् शरीरत्रयविलक्षणः, अवस्थात्रयसाक्षी, पञ्चकोशव्यतिरिक्तः शरीरत्रयम्
लक्षणम् सच्चिदानन्दः अनृतजडदुःखरूपत्वम्

विषयः - आत्मानात्मविवेकः, तत्साध्यम् आत्मज्ञानम्, तत्साध्यं ब्रह्मकैवल्यम्

  • आत्मा कः?
    • आत्मा शरीरत्रयविलक्षणः अवस्थात्रयसाक्षी पञ्चकोशव्यतिरिक्तः सच्चिदानन्दलक्षणः ।
    • ईश्वरः = आत्मा + समष्ट्युपाधिः ।
    • जीवः = आत्मा + व्यष्ट्युपाधिः ।
  • ईश्वरस्य अभिमानः नास्ति ।
    • महासुषुप्तावहङ्कारस्य लीनत्वेनाभिमानकारणाभावात् । -- किमर्थम् अयं हेतुः? अविद्याराहित्यात् इति वा वक्तुं शक्यते...
  • कस्य कृते किम् उपास्यत्वेन उपदिशति श्रुति?
    • उत्तमभक्ताः - समष्टिकारणोपादिकः ईश्वरः (अव्याकृतः, अन्तर्यामी)
    • ↓ - समष्टिसूक्ष्मशरीरोपधिकः ईश्वरः (हिरण्यगर्भः, सूत्रात्मा, महाप्राणः)
    • ↓ - समष्टिस्थूलोपाधिकस्येश्वरः (विराट्, वैराज, वैश्वानरः)
    • ↓ - राजससात्विकतामसमूर्तिसहितस्य सृष्टिस्थितिसंहारकर्तुर्ब्रह्मविष्णुरुद्रनाभधेयस्य
    • ↓ - कल्पितताम्रादिप्रतिमोपासनं विधत्ते (शालीग्रामादिषु) ।
  • ईश्वरः एक एव!
    • तर्हि कुतः भ्रमयति शास्त्रम्? बहिर्मुखाः अपि शनैः शनैः परमात्मजीवात्मैक्यबोधनार्थम् । सात्विकेषु विषयेषु प्रवृत्तिं जनयितुम् एवम् । एतेन बुद्धेः नैर्मल्यं जायते ।
  • अभिमानः कथं नास्तीश्वरस्य (कारणोपाधिकस्य, सूक्ष्मशरीरोपाधिकस्य, ...) - चिन्तनीयम् ...
    • ममत्वाभावात् ।
    • मूर्तौ तु अभिमानः अस्ति ।
      • तर्हि जीवस्यापि तथैव! को भेदः? जीवेन त्यक्तुं न शक्यते (जीवोऽभिमानेन वशीकृतः)! ईश्वरस्तु तत्तत्कार्यं साधयितुं स्वेच्छया धरति (अन्यथा कार्यं कर्तुं न शक्यते), न वशीकृतोऽभिमानेन ।
  • परात्मनः व्यष्टिशरीरत्रयोपादिना जीवत्वसिद्धिप्रकारः ...

    • प्राज्ञः पारमार्थिकः अविद्यावच्छिन्नः
    • तैजसः स्वप्नकल्पितः प्रातिभासिकः
    • विश्वः व्यावहारिक चिदाभासः
  • किमर्थं शरीरत्रयम्?

    • अन्तःकरणं जन्मान्तरकर्मफलानाम् अधिष्ठानम् । स्थूलशरीरे भवति चेत् देहे नष्टे तदपि नष्टं स्यात् । अतः सूक्ष्मशरीरम् अपेक्षितम् । (जीवः)
    • जीवस्य कर्माणि कर्तुं स्थूलशरीरमपि अपेक्ष्यते ।
    • द्वयोः कारणत्वेनापि केनचित् स्थातव्यम् । कारणशरीरं तत् (अविद्यापरिणामभूतमेव सर्वम्)।
  • जीवस्य शरीरत्रयेऽभिमानः अस्ति ।

    • कर्माणि करणीयानि, अतोऽभिमानः स्यात् । तर्हि कर्माणि मा भवन्तु, तर्हि शरीरमेव न स्यात्!
  • जीवः ईश्वरः नामद्वयम् आत्मन एव । केवलम् उपाधिभेदः यथा देवदत्तस्य पितृत्वं पुत्रत्वम् च ।

    • पू०प० – एकस्यैव नामद्वयं चेत् एकः सर्वज्ञः अन्यः अल्पज्ञः कथम्? (यथा देवदत्तः महाकायः चेत् पुत्रत्वेऽपि तथैव, पितृत्वेऽपि तथैव)
      • अपरः दृष्टान्तः – जलमेकमेव, तटाकस्थं ग्रामसंरकं भवति, घटस्थं गृहसंरक्षकम् ।

महावाक्यविचाराः * सम्बन्धत्रयम् * द्वयोः पदयोः एकमेव अधिकरणम् (चैतन्यम्, सामानाधिकरण्यम्) । इति एकः सम्बन्धः । * पदार्थयोः विशेषणविशेष्यभावसम्बन्धः (सः [तत्कालविष्टः], अयम्)। * लक्ष्यलक्षणभावसम्बन्धः (लक्षणया) । * शक्तित्रयम् * अभिधा, लक्षणा, व्यञ्जना । * लक्षणात्रयम् ।

तत्त्वमसि । * तत् = ...

०८

  • अतद्व्यावृत्तिलक्षणम् - इतरविलक्षणत्वेन प्रतिपाद्यमानम् । एतत् एतत् एतत्, एतैः भिन्नम् - एवं कथनम् ।

  • कारणशरीरम् --> स्थूलशरीरम्, --> सूक्ष्मशरीरम् ।

  • स्थूलसूक्ष्मशरीरे भूतेभ्यः जाते उत कारणशरीरात्?

    • सृष्टिः द्विधा व्याख्यायते (उभयथापि व्यवहारः साधुश्च) –
      • युगपत्सृष्टिः – सर्वोऽपि प्रपञ्च आत्माज्ञानेन जात इति कथनं युगपत्सृष्टिः ।
      • क्रमसृष्टिः – मूलप्रकृतिर्माया अविद्या आवरणं विक्षेप आकाशो वायुरग्निरापः पृथिवीति क्रमेणोत्पत्तिकथनं क्रमसृष्टिः ।
  • सूक्ष्मशरीरस्य किं प्रमाणम् (कथं ज्ञायते अस्तीति) ?
    • १७-करणकार्यैः ज्ञातुं शक्यते (अनुमानेन) ।
    • तत्सर्वं स्थूलेन कर्तुं न शक्यते?
      • मूर्छा, सुषुप्तिः, स्वप्नः - इत्यादिषु न विषयप्रकाशं कर्तुं शक्यते (अतः अन्यत् किमपि अस्ति) ।
    • अग्रिमजन्म केन कर्मणा प्राप्येत? स्थूले दग्धे (सूक्ष्मशरीरे असति) ।
  • सूक्ष्मशरीरं + स्थूलशरीरं तत् कार्यं मिलित्वा कुरुताम् (यतः स्थूलाभावे तु सूक्ष्मस्य स्थितिः नास्त्येव)

    • अग्निः काष्ठम् आश्रित्य दाहं/पाकं करोति
  • कथम् अन्यः कश्चित् अवस्थात्रयसाक्षी भवितुम् अर्हति?

  • जीवः एव आत्मा, कथं स साक्षी? क्षाक्षित्वनिमितं विकारः अपेक्ष्यते ।
  • जीवः, जीवसाक्षी । ईश्वरः, ईश्वरसाक्षी इति व्यवहारः । जीवः न साक्षी ।
    • जीवसाक्षी नाम अन्तःकरणप्रतिबिम्बितः जीवः । जीवः तु निर्विकारः किन्तु न अन्तःकरणप्रतिबिम्बः । प्रतिबिम्बितजीवः आत्मानं न जानाति ।
    • आत्मा कथं ज्ञायते?
      • घटः (प्रकाश्यः) द्रष्टारं (प्रकाशकं) न जानाति यथा, तथा प्रतिबिम्बः आत्मानं न जानाति ।
      • तथैव आत्मा स्वयं प्रकाशकत्वात् स्वयमेव जानाति । यथा दशमः पुरुषः ।