सामग्रीं त्यजन्तु

प्रकीर्णविषयाः — रागद्वेषाः

रागद्वेषाः

षोडशविधो रागद्वेषादिः

रागो द्वेषः कामः क्रोधो लोभो मोहो मदो मात्सर्यमीर्ष्याऽसूया दम्भो दर्पोऽहङ्कार इच्छा भक्तिः श्रद्धेति रागद्वेषादिवृत्तयः षोडश ।

वृत्तिः शुद्धा/अशुद्धा परिभाषा
रागः अशुद्धा स्त्रीविषयकचित्तवृत्ती रागः।
द्वेषः अशुद्धा अपकारकर्तुः प्रत्यपकारेच्छा द्वेषः।
कामः अशुद्धा गृहक्षेत्रादिसम्पादनेच्छा कामः।
क्रोधः अशुद्धा तत्र विघ्नकर्तरि वैरस्यं क्रोधः।
लोभः अशुद्धा स्वसम्पादितेषु किञ्चिदपि सत्पात्रे न देयमिति बुद्धिर्लोभः।
मोहः अशुद्धा ऐश्वर्यमदेन कृत्याकृत्यमविचार्य तूष्णीमवस्थानं मोहः।
मदः अशुद्धा स्वस्य सम्पदस्ति, किं वा कर्तुमशक्यमिति बुद्धिर्मदः।
मात्सर्यम् अशुद्धा स्वसमानसम्पन्नजनदर्शनासहनं मात्सर्यम्।
ईर्ष्या अशुद्धा इदं दुःखं तं विहाय मम किमित्यागतमिति चित्तवृत्तिरीर्ष्या।
असूया अशुद्धा इदं सुखं ममैव तस्यापि किमित्यागतमिति बुद्धिरसूया।
दम्भः अशुद्धा अनेन धर्मेण मम प्रसिद्धिर्भूयादिति चित्तवृत्तिर्दम्भः।
दर्पः अशुद्धा मम न कोऽपि समान इति बुद्धिर्दर्पः।
अहङ्कारः अशुद्धा सर्वत्राग्रहोऽहङ्कारः।
इच्छा अशुद्धा* अवर्जनीयप्राशनविमोचनादिकर्मचिकीर्षा इच्छा।
भक्तिः शुद्धा गुरौ सज्जनेषु देवतासु चातिप्रीतिर्भक्तिः।
श्रद्धा शुद्धा यागादिकर्मसु वेदान्तवाक्येषु गुरूपदेशे च विश्वासः श्रद्धा।

*अशुद्धापि त्यक्तुमशक्यम् ।

१४ चतुर्दशाः वृत्तयः अशुद्धाः, प्रयत्नं विना पौनपुन्येनोद्भवन्ति, पापेषु प्रवर्तयन्ति ।