सामग्रीं त्यजन्तु

प्रकीर्णविषयाः — दुःखम्

दुःखहेतवः

  • अज्ञानम् ⇒ अविवेकः ⇒ अभिमानः ⇒ रागद्वेषौ ⇒ कर्म ⇒ जन्म ⇒ दुःखम्

दुःखस्वरूपम्

स्वभावः

  • स्वभावनाशे स्वरूपनाशः (आत्मनाशः, यथा माधुर्यनाशे गुडनाशः) ।
  • प्रयत्नेन स्वभाववारणं शक्यं (यथा मणिमन्त्रादिभिरग्नेः अदाहकत्वम्) किन्तु तन्निवृत्तिः तात्कालिकी, नात्यन्तिकी ।
  • स्वरूपनाशाय न कोऽपि प्रयत्नं करोतु ।
  • स्वभावे अवस्थानेन न दुःखं भवति ।

दुःखम् आगन्तुकम्

प्रतिपक्षः सिद्धान्तः
दुःखं स्वाभाविकम्
  • आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम् ।
  • दुःखनिवृत्तिः न (स्वरूपत्वात्) ।
  • न कस्यापि सुखं स्यात् ।
  • न कोऽपि दुःखनिवारणाय (सुखप्राप्त्यर्थं वा) प्रयत्नं कुर्यात् ।
  • सत्कर्मयोगसाधनादिषु प्रयत्नः न स्यात् ।
  • वेदाः शास्त्राणि च निरर्थकानि ।
स्वाभाविकं नश्यतु, स्वरूपं तिष्ठतु
यथा अग्नेः उष्णता (मन्त्रेण), स्वरूपं तिष्ठति
  • कर्मजन्यं सर्वं कर्मनाशे नश्यति (अतः अनित्यम्) ।
  • कर्मजन्यसुखनाशे दुःखनिवर्तनम् (आत्यन्तदुःखनाशः न) ।
  • सुखम् अनित्यं भवेत् ⇒ पुनर्जन्मरहिता मुक्तिः न भवेत् (श्रुतिविरोधः) ।
  • मोक्षः जन्यः (न सिद्धः/नित्यः), अतः अनित्यत्वं स्यात् ।
  • सत्कर्मयोगसाधनादिषु प्रयत्नः न स्यात् ।
  • सुषुप्तौ/समाधौ/तूष्णींभावे दुःखमेव प्रतीयेत यतः प्रयत्नाभावः (अनुभवविरुद्धम्) ।

शरीरिणां दुःखम्

विवेकीनामपि भवति दुःखम् (शरीरपरिग्रहात्) ।