सामग्रीं त्यजन्तु

योगवासिष्ठसारः

यतः सर्वाणि भूतानि प्रतिभान्ति स्थितानि च ।
यत्रैवोपशमं यान्ति तस्मै सत्यात्मने नमः ॥

अहं बद्धो विमुक्तः स्याम् इति यस्यास्ति निश्चयः ।
नात्यन्तमज्ञो नो तज्ज्ञः सोऽस्मिन् शास्त्रेऽधिकारवान् ॥

भरद्वाज उवाच
भगवन् ज्ञातुमिच्छामि कथं संसार-संकटे ।
रामो व्यवहृतो ह्यस्मिन् कारुण्याद् ब्रूहि मे गुरो ॥

वाल्मीकिरुवाच
जीवन्मुक्ति-पदं प्राप्तो यथा रामो महामनाः ।
तत्तेऽहं शृणु वक्ष्यामि जरा-मरण-शान्तये ॥

श्रीराम उवाच
कथयाम्यहमज्ञोऽपि विचारः क्रियते मया ।
जायते मृतये लोको म्रियते जननाय च ॥

अस्थिराः सर्व एवैते सचराचर-चेष्टिताः ।
किं मे राज्येन किं भोगैः कोऽहं किमिदमागतम् ॥

एवं विमृशतस्तीव्रं सर्वेष्वपि च वस्तुषु ।
अरतिर्मम सञ्जाता पथिकस्य मरुष्विव ॥

यथा जानासि भगवन् तथा मोहनिवृत्तये ।
ब्रूहि मे साधवो येन नूनं निर्दुःखतां गताः ॥

स्वयं चैव न चाप्नोमि तां विश्रान्तिमनुत्तमाम् ।
तदहं त्यक्त-सर्वेहो निरहंकारतां गतः ॥

न किञ्चिदपि वाञ्छामि देहत्यागाद् ऋते मुने ।
मौन एवावतिष्ठामि लिपिकर्मस्विवार्पितः ॥

विश्वामित्र उवाच
न राघव तवास्त्यन्यद् ज्ञेयं ज्ञानवतां वर ।
स्वयैव सूक्ष्मया बुद्ध्या सर्वं विज्ञातवानसि ॥

वासनातानवं राम मोक्ष इत्युच्यते बुधैः ।
पदार्थवासनादार्ढ्यं बन्ध इत्यभिधीयते ॥

वसिष्ठ उवाच
सर्वदा सर्वमेवेह संसारे रघुनन्दन ।
सम्यक् प्रयुक्तात् सर्वेण पौरुषात् समवाप्यते ॥

द्विविधो वासनाव्यूहः शुभश्चैवाशुभश्च ते ।
वासनौघेन शुद्धेन तत्र चेदपनीयसे ॥

तत्क्रमेण शुभेनैव पदं प्राप्स्यसि शाश्वतम् ।
अथ चेदशुभो भावो यत्नाज्जेतव्य एव सः ॥

शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ।
पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥

ततः पक्वकषायेण नूनं विज्ञातवस्तुना ।
शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निराधिना ॥

मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः ।
शमो विचारः सन्तोषश्चतुर्थः साधुसंगमः ॥

वसिष्ठ उवाच
बन्धस्य तावद्रूपं त्वं कथ्यमानमिदं शृणु ।
ततः स्वरूपं मोक्षस्य ज्ञास्यसि त्वमसंशयम् ॥

द्रष्टुर्दृश्यस्य सत्ता हि बन्ध इत्यभिधीयते ।
द्रष्टा दृश्यवशाद्बद्धो दृश्याभावे विमुच्यते ॥

जगत् त्वमहमित्यादिर्मिथ्यात्मा दृश्यमुच्यते ।
यावदेतत् संभवति तावन्मोक्षो न विद्यते ॥

यदिदं दृश्यते सर्वं जगत् स्थावर-जंगमम् ।
तत् सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥

ततः स्तिमितगंभीरं न तेजो न तमस्ततम् ।
अनाख्यमनभिव्यक्तं सत् किञ्चिदवशिष्यते ॥

ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः ।
कल्पिता व्यवहारार्थं तस्य संज्ञा महात्मनः ॥

स तथाभूत एवात्मा स्वयमन्य इवोल्लसन् ।
जीवतामुपयातीव मननात् स्थूलतां गतः ॥

मनो भवति भूतात्मा तरंग इव वारिधेः ।
तेनेयमिन्द्रजालश्रीर्जागती प्रवितन्यते ॥

अविद्या संसृतिर्मोहो बन्धो माया मलं तमः ।
इति नामानि तस्याश्च कल्पितानि भवन्ति हि ॥

यथा कटकशब्दार्थः पृथक्त्वार्हो न काञ्चनात् ।
न हेम कटकात्तद्वज्जगच्छब्दार्थता परे ॥

यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः ।
तनोति भासुरं देहं तनोत्येवं हि दृश्यधीः ॥

सङ्कल्पजाले गलिते स्वरूपमवशिष्यते ।
महाप्रलयसंपत्तावसत्तां समुपागते ॥

अशेषदृश्य-सर्गादौ शान्तमेवावशिष्यते ।
आस्तेऽनस्तमितो भास्वान् परमात्मा महेश्वरः ॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥

नृणां ज्ञानैक-निष्ठानाम् आत्मज्ञान-विचारिणाम् ।
सा जीवन्मुक्ततोदेति विदेहोन्मुक्ततैव या ॥

नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा ।
यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥

यो जागर्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते ।
यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥

रागद्वेषभयादीनामनुरूपं चरन्नपि ।
योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥

यस्य नाहंकृतो भावो यस्य बुद्धिर्न लिप्यते ।
कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते ॥

जीवन्मुक्तिपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥

विदेहमुक्तो नोदेति नास्तमेति न शाम्यति ।
किमप्यव्यपदेश्यात्मा पूर्णात्पूर्णतराकृतिः ॥

वसिष्ठ उवाच
ज्ञानस्य भूमिकानां त्वमद्य निर्वचनं शृणु ।

किं मूढ इव तिष्ठामि प्रेक्ष्येऽहं शास्त्रसज्जनैः ।
वैराग्य-पूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः ॥

शास्त्रसज्जनसंपर्क-वैराग्याभ्यासपूर्वकम् ।
सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥

विचारणा-शुभेच्छाभ्यामिन्द्रियार्थेष्वसक्तता ।
याऽत्र सा तनुता भावात् प्रोच्यते तनुमानसा ॥

भूमिकात्रितयाभ्यासात् चित्तेऽर्थविरतेर्वशात् ।
सत्यात्मनि स्थितिः शुद्धे सत्त्वापत्तिरुदाहृता ॥

दशाचतुष्टयाभ्यासाद् असंसंगफलेन च ।
रूढसत्त्वचमत्कारा प्रोक्ताऽसंसक्तिनामिका ॥

भूमिकापञ्चकाभ्यासात् स्वात्मारामतया दृढम् ।
आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥

चिरं परप्रयुक्तेन प्रयत्नेनावबोधनम् ।
पदार्थाभावना नाम षष्ठी सञ्जायते गतिः ॥

भूमिषट्क-चिराभ्यासाद् भेदस्यानुपलभ्यतः ।
यत् स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥

ये हि राम महाभागाः सप्तमीं भूमिकां गताः ।
आत्मारामा महात्मानस्ते महत्पदमागताः ॥

जीवन्मुक्तेषु चैषा हि तुर्यावस्थेह विद्यते ।
विदेहमुक्तिविषयस्तुर्यातीतमतः परम् ।
भूमिकासप्तकं चैतद् धीमतामेव गोचरः ॥

श्रीराम उवाच
मूढस्याप्राप्तयोगस्य कथमुत्तरणं भवेत् ।
आरूढस्य मृतस्याथ कीदृशी भगवन् गतिः ॥

वसिष्ठ उवाच
मूढस्यारूढ-दोषस्य तावत्संसृतिरातता ।
यावज्जन्मान्तर-शतैर्नोदिता प्रथमाऽपि भूः ॥

वैराग्येऽभ्युदिते जन्तोरवशं भूमिकोदयः ।
ततो नश्यति संसार इति शास्त्रार्थसंग्रहः ॥

योगभूमिकयोत्क्रान्त-जीवितस्य शरीरिणः ।
भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतम् ॥

पुण्यलोकेषु सञ्चारात् सुकृतेऽपि क्षयं गते ।
शुचीनां श्रीमतां गेहे जायते योगवासितः ॥

ततः परिपतत्युच्चैरुत्तरं भूमिकात्रयम् ।
भूमिकात्रितयं त्वेतद् राम जाग्रदिति स्मृतम् ॥

अस्त्यत्यन्तमदोन्मत्ता करिणीच्छासमाह्वया ।
सा चेन्न हन्यते नूनमनन्तानर्थकारिणी ॥

भूमिकासु च सर्वासु सञ्चारो नैव साध्यते ।
वासनेहा मनश्चित्तं सङ्कल्पो भावनं स्पृहा ॥

इत्यादीनि च नामानि तस्या एव भवन्ति हि ।
धैर्यनाम्ना वरास्त्रेण चैतां सर्वात्मना जयेत् ॥

इदं मेऽस्त्विति विज्ञानं यत् तत् कल्पनमुच्यते ।
अर्थस्याभावनं यत्तत् कल्पनात्याग उच्यते ॥

ऊर्ध्वबाहुर्विरौम्येवं न च कश्चित् शृणोति तत् ।
असङ्कल्पः परं श्रेयः स किमन्तर्न भाव्यते ॥

तूष्णीमवस्थितेनैव परमं प्राप्यते पदम् ।
परमं यत्र साम्राज्यमपि राम तृणायते ॥

बहुनाऽत्र किमुक्तेन संक्षेपादिदमुच्यते ।
सङ्कल्पनं परो बन्धस्तदभावो विमुक्तता ॥

अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।
योगस्थः कुरु कर्माणि विकर्माणि च मा कुरु ।
अकर्मनिरतो मा भूर्बन्धसम्भवशङ्कया ॥

शिवं सर्वगतं शान्तं बोधात्मकमजं शुभम् ।
तदेकभावनं राम कर्मत्याग इति स्मृतः ॥

वाल्मीकिरुवाच
ज्ञानसारं वसिष्ठोक्तमिदमाकर्ण्य राघवः ।
मुहूर्तमासीदुद्बुद्धश्चैतन्यानन्दसागरः ॥

महासामान्यरूपत्वात् चिद्व्यापकतया स्थितः ।
न किञ्चिदूचे सम्पन्नः शिवे परिणतः पदे ॥

भरद्वाज उवाच
अहो खलु महाश्चर्यं रामः प्राप्तो महत्पदम् ।
कथमेतादृशी प्राप्तिरस्माकं मुनिनायक ॥

वाल्मीकिरुवाच
अशेषं रामवृत्तान्त आदितो यो निरूपितः ।
तं विचार्य धिया सम्यक् परामृश स्वयं पुनः ॥

अविद्यया जगज्जातं नास्ति सत्यमिहाण्वपि ।
नास्ति भिन्नं चितः किञ्चित् स्वप्नवृत्तमिदं जगत् ॥

साकारं भज तावत्त्वं यावत्सत्त्वं प्रसीदति ।
निराकारे परे तत्त्वे ततः स्थितिरकृत्रिमा ॥

अखिन्नं क्षणमासीनः पश्य संसार-नाटकम् ।
चिदानन्दघनं स्वच्छमात्मानं च विभावय ।
एवं स्थास्यसि नित्यं चेत् तीर्णोऽसि भवसागरात् ॥

भरद्वाज उवाच
रामः प्राप्तः परं योगं स्वात्मनात्मनि निष्ठितः ।
कथं वसिष्ठदेवेन व्यवहारपरः कृतः ॥

वसिष्ठ उवाच
राम राम महाबाहो महापुरुष चिन्मय ।
नाऽयं विश्रान्तिकालो हि लोकानन्दकरो भव ॥

यावल्लोकपरामर्शो निरूढो नास्ति योगिनः ।
तावद्रूढसमाधित्वं न भवत्येव निर्मलम् ॥

तस्माद्राज्यादिकार्याणि निवर्तय यथाक्रमम् ।
देवकार्यं यथा कृत्वा ततस्त्यक्त्वा सुखी भव ॥

एवमुक्तो वसिष्ठेन रामो दाशरथिस्तदा ।
सर्वैषणा-विनिर्मुक्तो विनयादिदमब्रवीत् ॥

श्रीराम उवाच
विधिर्वा मे निषेधो वा त्वत्प्रसादान्न विद्यते ।
एवं सत्यपि वाक्यं ते करणीयं मया सदा ॥

वेदागमपुराणेषु स्मृतिष्वपि महामुने ।
गुरोर्वाक्यं विधिः प्रोक्तो निषेधस्तद्विपर्ययः ॥

इत्युक्त्वा चरणौ तस्य वसिष्ठस्य महात्मनः ।
शिरस्याधाय सर्वात्मा सर्वान्प्राह दयानिधिः ॥

सर्वे शृणुत भद्रं वो निश्चयेन सुनिश्चितम् ।
आत्मज्ञानात्परं नास्ति गुरोरपि च तद्विदः ॥

राघवस्य तदा मूर्ध्नि पुष्पवृष्टिः पपात ह ॥

वाल्मीकिरुवाच ।
एतत्ते सर्वमाख्यातं रामचन्द्र-कथानकम् ।
अनेन क्रमयोगेन भरद्वाज सुखी भव ॥

मोक्षोपायानिमान्पुण्यान् प्रत्यक्षानुभवार्थदान् ।
बालोऽप्याकर्ण्य तज्ज्ञत्वं याति का त्वादृशे कथा ॥

संवादं शृणुयान्नित्यं यदि रामवसिष्ठयोः ।
सर्वावस्थाऽप्यसौ नूनं मुक्तिमार्गं निगच्छति ॥

यत्सर्वं खल्विदं ब्रह्म तज्जलानिति च स्फुटम् ।
श्रुत्या ह्युदीर्यते साम्नि तस्मै ब्रह्मात्मने नमः ॥