सामग्रीं त्यजन्तु

तर्कसङ्ग्रहः — प्रत्यक्षपरिच्छेदः

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ।

दीपिका

प्रत्यक्षलक्षणमाह– तत्रेति। प्रमाणचतुष्टयमध्य इत्यर्थः।

न्यायबोधिनी

षड्विधेन्द्रियभूतप्रत्यक्षप्रमाणस्य लक्षणमाह– तत्रेति। तत्र प्रमाभूतेषु प्रत्यक्षादिषु प्रत्यक्षात्मकं यज्ज्ञानं चाक्षुषादिप्रत्यक्षं तत्प्रति व्यापारवदसाधारणं कारणमिन्द्रियं भवति। अतः प्रत्यक्षज्ञानकरणत्वं प्रत्यक्षस्य लक्षणम्। आद्यसन्निकर्षातिरिक्तचतुर्विधसन्निकर्षाणां समवायरूपत्वेनेन्द्रियजन्यत्वाभावाद् व्यापारत्वं न सम्भवतीति इन्द्रियमनःसंयोगस्यैव बाह्यप्रत्यक्षे जननीये इन्द्रियव्यापारता बोध्या। मानसप्रत्यक्षे त्वात्ममनःसंयोगस्यैव सा बोध्या।

पदकृत्यम्

तत्रेति। तत्र प्रमाणचतुष्टयमध्ये। दण्डादिवारणाय ज्ञानेति। अनुमानादिवारणाय प्रत्यक्षेति।

इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् ।

दीपिका

प्रत्यक्षज्ञानस्य लक्षणमाह– इन्द्रियेति। इन्द्रियं चक्षुरादिकम्। अर्थो घटादिः। तयोः संनिकर्षः संयोगादिः, तज्जन्यं ज्ञानमित्यर्थः।

न्यायबोधिनी

प्रत्यक्षप्रमाणलक्षणमुक्त्वा प्रत्यक्षप्रमालक्षणमाह– इन्द्रियार्थसन्निकर्षेति। जन्यप्रत्यक्षस्यैव लक्ष्यत्वमित्यभिप्रायेणेदं लक्षणम्। ज्ञानाऽकरणमिति। क्षेपकं लक्षणमिदम्। ज्ञानं=व्याप्तिज्ञानं, सादृश्यज्ञानं, पदज्ञानं च करणं येषां ते ज्ञानकरणकाः, अनुमित्युपमितिशाब्दाः। ज्ञानकरणकं न भवतीति ज्ञानाकरणकम्। तत्त्वं प्रत्यक्षलक्षणमित्यर्थः। इदं लक्षणमीश्वरप्रत्यक्षसाधारणम्। ईश्वरप्रत्यक्षस्याजन्यत्वात् जन्यप्रत्यक्षे च इन्द्रियाणामेव करणत्वं, न तु ज्ञानस्येति तयोरुभयोः संग्रहः।

पदकृत्यम्

इन्द्रियार्थेति। इन्द्रियं चक्षुरादिकम्, अर्थो घटादिः, तयोः संनिकर्षः=संयोगादिस्तज्जन्यं ज्ञानं प्रत्यक्षमित्यर्थः। संनिकर्षध्वंसवारणाय ज्ञानमिति। अनुमित्यादिवारणाय इन्द्रियार्थसंनिकर्षेति। ननु सोपनेत्रचक्षुषा कथं पदार्थग्रहणं, चक्षुष उपनेत्रनिरुद्धत्वेन पदार्थेन सह संनिकर्षाभावात्, कथं वा स्वच्छजाह्नवीसलिलावृतमत्स्यादेश्चक्षुषा ग्रहणमिति चेन्न, स्वच्छद्रव्यस्य तेजोनिरोधकत्वाभावेन तदन्तश्चक्षुःप्रवेशसम्भवात्। न चेश्वरप्रत्यक्षेऽव्याप्तिरिति वाच्यम्, अत्र जन्यप्रत्यक्षस्यैव लक्षितत्वात्।

तद् द्विविधं निर्विकल्पकं सविकल्पकञ्च।

दीपिका

तद्विभजते– तद् द्विविधमिति।

न्यायबोधिनी

प्रत्यक्षं विभजते– निर्विकल्पकमिति।

तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् । यथेदं किञ्चित्।

दीपिका

निर्विकल्पकस्य लक्षणमाह– निष्प्रकारकमिति। विशेषणविशेष्यसम्बन्धानवगाहिज्ञानमित्यर्थः। ननु निर्विकल्पके किं प्रमाणम्? इति चेत्– न, गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञानत्वाद् दण्डीति ज्ञानवदित्यनुमानस्य प्रमाणत्वात्। विशेषणज्ञानस्यापि सविकल्पकत्वेऽनवस्थाप्रसङ्गान्निर्विकल्पकसिद्धिः।

न्यायबोधिनी

तल्लक्षयति– तत्र निष्प्रकारकमिति। प्रकारताशून्यज्ञानत्वमेव निर्विकल्पकत्वमित्यर्थः। निर्विकल्पके चतुर्थी विषयता स्वीक्रियते, न तु त्रिविधविषयतामध्ये कापि तत्रास्ति। अतो विशेष्यताशून्यज्ञानत्वं संसर्गताशून्यज्ञानत्वमित्यपि लक्षणं सम्भवति।

पदकृत्यम्

तत्र निष्प्रकारकमिति। सविकल्पकेऽतिव्याप्तिवारणाय निष्प्रकारकमिति। प्रकारवारणाय ज्ञानमिति।

सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयमिति।

दीपिका

सविकल्पकं लक्षयति– सप्रकारकमिति। नामजात्यादिविशेषणविशेष्यसंबन्धावगाहि ज्ञानमित्यर्थः। सविकल्पकमुदाहरति– यथेति।

न्यायबोधिनी

सविकल्पकं लक्षयति– सप्रकारकमिति। विषयताया ज्ञाननिरूपितत्वाज्ज्ञानस्य विषयतानिरूपकत्वेन प्रकारतानिरूपकज्ञानत्वं सविकल्पकस्य लक्षणम्। एवं विशेष्यतानिरूपकज्ञानत्वं संसर्गतानिरूपकज्ञानत्वमित्यपि लक्षणं सम्भवति। उदाहरणम्– यथेति। इदन्त्वावच्छिन्नविशेष्यतानिरूपितडित्थत्वप्रकारताशालिज्ञानं ब्राह्मणत्वप्रकारताशालिज्ञानं च (श्यामत्वप्रकारताशालिज्ञानं च) सविकल्पकमित्यर्थः।

पदकृत्यम्

सप्रकारकमिति। घटादिवारणाय ज्ञानमिति। निर्विकल्पकवारणाय सप्रकारकमिति।

प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति।

दीपिका

इन्द्रियार्थसन्निकर्षं विभजते– प्रत्यक्षेति।

न्यायबोधिनी

चाक्षुषादिषड्विधप्रत्यक्षकारणीभूतान् षड्विधसन्निकर्षान् विभजते– संयोग इत्यादिना। द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नम्प्रति चक्षुःसंयोगः कारणम्। द्रव्यसमवेतवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवायस्य हेतुत्वम्। द्रव्यसमवेतसमवेतवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवेतसमवायस्य हेतुत्वम्। द्रव्यग्राहकाणीन्द्रियाणि चक्षुस्त्वङ्मनांसि त्रीण्येव। अन्यानि घ्राण-रसन-श्रावणानि गुणग्राहकाणि। अतस्त्वगिन्द्रियस्थले द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन त्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्संयोगस्य हेतुता। एवं द्रव्यसमवेतत्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्संयुक्तसमवायस्य हेतुता। द्रव्यसमवेतसमवेतोष्णत्वशीतत्वादिस्पार्शनप्रत्यक्षे त्वक्संयुक्तसमवेतसमवायस्य हेतुता। एवमात्ममानसप्रत्यक्षे मनःसंयोगस्य हेतुता। आत्मसमवेतसुखादिमानसप्रत्यक्षे मनःसंयुक्तसमवायस्य हेतुता। रसनघ्राणयोस्तु रसगन्धतद्गतजातिग्राहकत्वेन द्वितीयतृतीययोः सन्निकर्षयोरेव तत्र हेतुता वाच्या। श्रवणेन्द्रियस्याकाशरूपत्वेन शब्दस्याकाशगुणत्वेन श्रवणेन्द्रियेण समं शब्दस्य समवायः सन्निकर्षः। शब्दवृत्तिशब्दत्वकत्वखत्वादिजातिविषयकश्रावणप्रत्यक्षे समवेतसमवायस्य हेतुता।

पदकृत्यम्

प्रत्यक्षेति। तच्च प्रत्यक्षं षड्विधं– घ्राणज-रासन-चाक्षुष-श्रौत्र-त्वाच-मानसभेदात्। ननु प्रत्यक्षकारणीभूतेन्द्रियनिष्ठप्रत्यक्षसामानाधिकरण्यघटकः सन्निकर्षः कः? इत्यपेक्षायां तं विभज्य दर्शयति– प्रत्यक्षेति। लौकिकप्रत्यक्षेत्यर्थः।

चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः।

दीपिका

संयोगसन्निकर्षमुदाहरति– चक्षुषेति। द्रव्यप्रत्यक्षे सर्वत्र संयोगः संनिकर्ष इत्यर्थः। आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षज्ञानमुत्पद्यते।

पदकृत्यम्

संयोगमुदाहरति चक्षुषेति। तथा च द्रव्यचाक्षुष-त्वाच-मानसेषु संयोग एव सन्निकर्ष इति भावः।

घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः। चक्षुःसंयुक्ते घटे रूपस्य समवायात्।

दीपिका

संयुक्तसमवायमुदाहरति– घटरूपेति। तत्र युक्तिमाह– चक्षुःसंयुक्त इति।

पदकृत्यम्

घटरूपेति। चक्षुषा इत्यनुषज्यते। तथा च द्रव्यसमवेतचाक्षुषत्वाचमानसरासनघ्राणजेषु संयुक्तसमवाय एव सन्निकर्ष इत्यर्थः।

रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात्।

दीपिका

संयुक्तसमवेतसमवायमुदाहरति– रूपत्वेति।

पदकृत्यम्

रूपत्वेति। रूपत्वात्मकं यत्सामान्यं तत्प्रत्यक्षे इत्यर्थः। अत्रापि चक्षुषा इत्यनुषज्यते। तथा च द्रव्यसमवेतसमवेतचाक्षुषरासनघ्राणजस्पार्शनमानसेषु संयुक्तसमवेतसमवाय एव सन्निकर्ष इति भावः। अथ द्रव्यतत्समवेतप्रत्यक्षेऽपि संयुक्तसमवेतसमवाय एव सन्निकर्षोऽस्त्विति चेन्नैतत्, ईश्वरात्मादे(आत्मसुखादे)रनध्यक्षत्वप्रसङ्गात्।

श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः। कर्णविवरवर्त्याकाशस्य श्रोत्रत्वाच्छब्दस्याकाशगुणत्वाद् गुणगुणिनोश्च समवायात्।

दीपिका

समवायमुदाहरति– श्रोत्रेणेति। तदुपपादयति– कर्णेति। ननु दूरस्थशब्दस्य कथं श्रोत्रसंबन्ध इति चेत्– न, वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा शब्दाच्छब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य शब्दस्य श्रोत्रसम्बन्धात् प्रत्यक्षत्वसम्भवात्।

पदकृत्यम्

समवायसन्निकर्षमुदाहरति– श्रोत्रेणेति। जननीय इति शेषः। ननु श्रोत्रशब्दयोः कथं समवायः? इत्यपेक्षमाणं प्रति तमुपपाद्य दर्शयति– कर्णेति। अथ समवायस्य नित्यत्वेन शब्दप्रत्यक्षे को व्यापार इति चेत्– शब्दः श्रोत्रमनःसंयोगो वेति गृहाण।

शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः । श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्।

दीपिका

समवेतसमवायमुदाहरति– शब्दत्वेति।

पदकृत्यम्

शब्दत्वेति। श्रोत्रेण जननीये इत्यनुकर्षशेषौ।

अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः। घटाभाववद् भूतलम् इत्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात्।

दीपिका

विशेषणविशेष्यभावमुदाहरति– अभावेति। तदुपपादयति– घटाभाववदिति। 'भूतले घटो नास्ति' इत्यत्र घटाभावस्य विशेष्यत्वं द्रष्टव्यम्। एतेनानुपलब्धेः प्रमाणान्तरत्वं निरस्तम्। यद्यत्र घटोऽभविष्यत्तर्हि भूतलमिवाद्रक्ष्यत। दर्शनाभावान्नास्तीति तर्कितप्रतियोगिसत्त्वविरोध्यनुपलब्धिसहकृतेन्द्रियेणैवाभावज्ञानोपपत्तावनुपलब्धेः प्रमाणान्तरत्वासंभवात्। अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्तावनुपलब्धेः करणत्वस्यायुक्तत्वात्। विशेषणविशेष्यभावो विशेषणविशेष्यस्वरूपमेव, नातिरिक्तः संबन्धः।

न्यायबोधिनी

अभावप्रत्यक्षे विशेषणविशेष्यभावो नाम विशेषणतासन्निकर्षः। पञ्चविधसन्निकर्षोपरि विशेषणता योजनीया। तथा हि द्रव्याधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तविशेषणता। द्रव्यसमवेताधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतविशेषणता। द्रव्यसमवेतसमवेताधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवेतविशेषणता। संयोगस्थाने संयुक्तपदं घटयित्वा समवायस्थाने समवेतपदं च घटयित्वा अभावप्रत्यक्षस्थले निर्वाह्यम्। तथा घटद्रव्यसमवेतं घटत्वं पृथ्वीत्वादिकं रूपादिकं च। तत्र नीलादौ पीतत्वाभावः, घटत्वादिजातौ पटत्वाभावश्च वर्तते। स चाभावः संयुक्तसमवेतविशेषणतासन्निकर्षेण गृह्यते। एवं नीलत्वादिजातौ पीतत्वाभावोऽपीन्द्रियसंयुक्तसमवेतसमवेतविशेषणतासंनिकर्षेण गृह्यते। घटसमवेतं नीलं, तत्समवेतं नीलत्वं, तद्विशेषणता पीतत्वाभावे वर्तते इति संक्षेपः।

इति न्यायबोधिन्यां प्रत्यक्षपरिच्छेदः॥

पदकृत्यम्

विशेषणेति। विशेषणभावो विशेष्यभावश्चेति बोध्यम्। इन्द्रियसम्बद्धविशेषणत्वमिन्द्रियसम्बद्धविशेष्यत्वमिति यावत्। विशेषणभावसन्निकर्षमुपपाद्य दर्शयति– घटाभाववदिति। इह भूतले घटो नास्तीत्यादौ विशेष्यतासन्निकर्षोऽवसेयः, सप्तम्यन्तस्य विशेषणत्वात्।

एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम्, तत्करणमिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥

दीपिका

प्रत्यक्षज्ञानमुपसंहरंस्तस्य करणमाह– एवमिति। असाधारणकारणत्वादिन्द्रियं प्रत्यक्षज्ञानकरणमित्यर्थः। प्रत्यक्षमुपसंहरति– तस्मादिति।

इति तर्कसङ्ग्रहदीपिकायां प्रत्यक्षपरिच्छेदः।

पदकृत्यम्

प्रत्यक्षप्रमाणमुपसंहरति एवमिति। उपदर्शितक्रमेणेत्यर्थः। ननु सिद्धान्ते प्रत्यक्षज्ञानकरणमिन्द्रियार्थसन्निकर्षः किं न स्यादिति चेत्? नेत्याह– तत्करणमिति। प्रत्यक्षप्रमाणं निगमयति– तस्मादिति। प्रत्यक्षप्रमाकरणत्वादित्यर्थः। सिद्धमिति। न्यायसिद्धान्ते सिद्धमित्यर्थः।

इति पदकृत्यके प्रत्यक्षपरिच्छेदः॥