मुखपृष्ठम् · ⬆ वेदान्तसङ्ग्रहः · ← · →
वेदान्तसङ्ग्रहः — ७. फलनिरूपणम्¶
एवं ब्रह्म-प्रतिपादनस्य फलं तु मोक्ष एव । मोक्षो नाम ब्रह्मैव । तदतिरिक्तस्य अनित्यत्वेन अभावात् । न च आनन्दावाप्तिः सर्व-दुःख-ध्वंसो वा मोक्षः इति वाच्यम्। आनन्द-दुःखाभावयोरपि ब्रह्म-स्वरूपत्वात् ॥१॥
न च आनन्दस्य ब्रह्मत्वेऽपि न सः मोक्षः, किन्तु तदवाप्तिरेव मोक्षः इति वाच्यम्। प्राप्य-प्रापक-प्राप्ति-रूप-त्रिपुटेः सत्त्वे, ब्रह्मणः अद्वैतत्वहानेः । आनन्दावाप्तिः नाम आनन्दानुभवः । अनुभवः चैतन्यं ब्रह्मैव । ब्रह्म च आनन्दमेव इति कृत्वा आनन्दानुभवयोः न भेदः। तदित्थं नित्यसिद्धो हि आनन्दः विस्मृत-कण्ठ-चामीकर-न्यायेन विद्यावशात् प्राप्त इव प्रतिभाति इति फलत्वम् अस्य ॥२॥
॥इति फलनिरूपणम् ॥