सामग्रीं त्यजन्तु

वेदान्तसङ्ग्रहः — ९. अधिकारिनिरूपणम्

अत्र च मोक्षशास्त्रे इह-जन्मनि जन्मान्तरे वा फलानभिसन्धि-पूर्वक-अनुष्ठित-यज्ञादि-कर्मभिः क्षीणपापः शान्तः दान्तः उपरतः तितिक्षुः श्रद्धावान् मुमुक्षुः विवेकी पुरुषधौरेयः अधिकारीति ॥१॥

शमः अन्तरिन्द्रिय-निग्रहः, दमः बहिरिन्द्रिय-निग्रहः, उपरतिः वैराग्यं, संन्यासः इति केचित् । विवेको नित्यानित्य-वस्तु-विवेकः, "तद्विज्ञानाय स गुरुमेव अभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्" इति श्रुतेः। सद्गुरूपसदनद्वारा तेन महावाक्यार्थ-ज्ञानं सम्पादनीयम् ॥२॥

केचित् वामदेवादयस्तु गुरूपसदनं विनैव प्रबुद्धाः, तेषां भागधेयं न विद्मः । तेऽपि जन्मान्तरे गुरूपसत्तिं कृतवन्तः इति अनुमीयते । "गुरु-शास्त्रे विना अत्यन्तं गम्भीरं ब्रह्म वेत्ति कः?" इति श्रीविद्यारण्यवचनात् ॥३॥

शमादि-रहिताः अपि केचन अधुना मोक्षशास्त्रम् अधीयाना दृश्यन्ते तेषामपि न इदम् अध्ययनम् अफलं, किन्तु जन्मान्तरेषु शमादि-सम्पादक-सुकृतप्रदमेव ।

वेदाक्षराणि यावन्ति पठितानि द्विजोत्तमैः। तावन्ति हरिनामानि कीर्तितानि न संशयः ॥ इति वेदाक्षर-उच्चारण-मात्रस्य हरिनाम-उच्चारण-तुल्यत्व-स्मरणात्।

सकृत् उच्चरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ इति हरि-नाम्नो महाफलत्वस्मरणाच्च। मोक्षशब्दस्य अत्र स्वर्गादिः अर्थः, "ज्ञानादेव हि कैवल्यम्" इति शास्त्रविरोधात् । अथवा क्रमेण मोक्षाय इत्यर्थः ॥४॥

अथ ये पुनः उपनिषच्छास्त्रं विहाय प्रबोधचन्द्रोदयादि-ग्रन्थ-पाठं कुर्वन्ति तेऽपि धन्याः एव ततोऽपि ब्रह्म-स्वरूपस्य ज्ञातुं शक्यत्वात्, प्रतिबन्धादिना तदज्ञानेऽपि तत्तत्त्व-स्फुरण-जन्य-सुकृत-विशेष-प्राप्तेः तेषां दुरपलापत्वात्। अत एव "अनेकजन्म-संसिद्धः ततो याति परां गतिम्" इति गीता। तस्मात् अधिकारिभिः अनधिकारिभिः अपि तर्कादि-शास्त्राणि विहाय मोक्षशास्त्रे प्रवृत्तिः अवश्यं कर्तव्यैव। परन्तु ब्राह्मणानां वेदान्तेषु, स्त्री-शूद्राणां तु प्रबोधचन्द्रोदयादिषु इति विवेकः।

स्त्री-शूद्र-द्विज-बन्धूनां त्रयी न श्रुति-गोचरा । तेषामेव अनुकम्पार्थं पुराणादेः प्रवर्तनम् ॥ इति शास्त्रात् ॥५॥

ब्राह्मणानां प्रबोधचन्द्रोदयादिषु प्रवृत्तिरपि न दुष्यति, तत्पठन-प्रयुक्त-प्रत्यवायाभावात् । स्त्री-शूद्रादीनां वेदान्तेषु प्रवृत्तिः तु दुष्यत्येव, प्रत्यवाय-सद्भावात् । अथ ये पुनः ज्ञात-आत्मतत्त्वाः तेषां न कोऽपि विधिः नापि प्रतिषेधः। "निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः" इति वचनात् । "ब्रह्मविद्-ब्रह्मैव भवति" इति श्रुतेः । ब्रह्मणश्च विधि-निषेध-अविषयत्वात् । खननात् जले लब्धे सति, कुद्दाल-त्यागवत्, विचाराद् ज्ञाने लब्धे सति शास्त्रत्यागः कर्तव्य एव। आब्रह्म-आपरोक्ष्यं तु न शास्त्रविचारत्यागः । "आसुप्तेः आमृतेः कालं नयेद् वेदान्त-चिन्तया" इति वचनात् ॥६॥

सति तु ब्रह्म-आपरोक्ष्यज्ञाने कृतकृत्यः भवति इति, न तस्य कर्तव्यशेषः कियानपि विद्यते। एवं कृतात्म-साक्षात्काराः अपि यावत्प्रारब्धाधीन-देहपातं प्रारब्धं अनुसृत्य लीलया कर्माणि कुर्वन्त्येव श्रीकृष्णवत् । न तानि कर्माणि तेषां बन्धकानि, ज्ञानाग्निना कर्मगत-बन्धकत्वांशस्य दग्धत्वात्। न हि भर्जित-बीजानि प्ररोह-क्षमाणि । तस्मात् यथेष्टाचरणात् विदुषः न कापि क्षतिः। परं तु लोकानुग्रहाय विहितमेव कर्म तेनापि कर्तव्यं वासुदेववत् ॥७॥

॥इति अधिकारिनिरूपणम् ॥