सामग्रीं त्यजन्तु

सद्दर्शनम्

सत्प्रत्ययाः किं नु विहाय सन्तं हृद्येष चिन्तारहितो हृदाख्यः ।
कथं स्मरामस्तममेयमेकं तस्य स्मृतिस्तत्र दृढैव निष्ठा ॥१॥

मृत्युञ्जयं मृत्युभियाश्रितानामहंमतिर्मृत्युमुपैति पूर्वम् ।
अथ स्वभावादमृतेषु तेषु कथं पुनर्मृत्युधियोऽवकाशः ॥२॥

सर्वैर्निदानं जगतोऽहमश्च वाच्यः प्रभुः कश्चिदपारशक्तिः ।
चित्रेऽत्र लोक्यं च विलोकिता च पटः प्रकाशोऽप्यभवत्स एकः ॥३॥

आरभ्यते जीवजगत्परात्मतत्त्वाभिधानेन मतं समस्तम् ।
इदं त्रयं यावदहंमति स्यात् सर्वोत्तमाऽहंमतिशून्यनिष्ठा ॥४॥

सत्यं मृषा वा चिदिदं जडं वा दुःखं सुखं वेति मुधा विवादः ।
अदृष्टलोका निरहंप्रतीतिर्निष्ठाऽविकल्पा परमाऽखिलेष्टा ॥५॥

सरूपबुद्धिर्जगतीश्वरे च सरूपधीरात्मनि यावदस्ति ।
अरूपकात्मा यदि कः प्रपश्येत् सा दृष्टिरेकानवधिर्हि पूर्णा ॥६॥

यत्पञ्चकोशात्मकमस्ति देहं तदन्तरा किं भुवनं चकास्ति ।
देहं विना पञ्चविधं तदेतत् पश्यन्ति के वा भुवनं भणन्तु ॥७॥

शब्दादिरूपं भुवनं समस्तं शब्दादिसत्तेन्द्रियवृत्तिभास्या ।
सत्तेन्द्रियाणां मनसो वशे स्यात् मनोमयं तद्भुवनं वदामः ॥८॥

धिया सहोदेति धियास्तमेति लोकस्ततो धीप्रविभास्य एषः ।
धीलोकजन्मक्षयधाम पूर्णं सद्वस्तु जन्मक्षयशून्यमेकम् ॥९॥

भवन्तु सद्दर्शनसाधनानि परस्य नामाकृतिभिः सपर्या ।
सद्वस्तुनि प्राप्तसदात्मभावा निष्ठैव सद्दर्शनमित्यवेहि ॥१०॥

द्वन्द्वानि सर्वाण्यखिलास्त्रिपुट्यः किञ्चित्समाश्रित्य विभान्ति वस्तु ।
तन्मार्गणे स्याद्गलितं समस्तं न पश्यतां सच्चलनं कदापि ॥११॥

विद्या कथं भाति न चेदविद्या विद्यां विना किं प्रविभात्यविद्या ।
द्वयं च कस्येति विचार्य मूलस्वरूपनिष्ठा परमार्थविद्या ॥१२॥

बोद्धारमात्मानमजानतो यो बोधः स किं स्यात्परमार्थबोधः ।
बोधस्य बोध्यस्य च संश्रयं स्वं विजानतस्तद्द्वितयं विनश्येत् ॥१३॥

निद्रा न विद्या ग्रहणं न विद्या गृह्णाति किञ्चिन्न यथार्थबोधे ।
निद्रापदार्थग्रहणेतरा स्यात् चिदेव विद्या विलसन्त्यशून्या ॥१४॥

सत्यश्चिदात्मा विविधाकृतिश्चित् सिध्येत्पृथक्सत्यचितो न भिन्ना ।
भूषाविकाराः किमु सन्ति सत्यं विना सुवर्णं पृथगत्र लोके ॥१५॥

तद्युष्मदोरस्मदि सम्प्रतिष्ठा तस्मिन् विनष्टेऽस्मदि मूलबोधात् ।
तद्युष्मदस्मन्मतिवर्जितैका स्थितिर्ज्वलन्ती सहजात्मनः स्यात् ॥१६॥

भूतं भविष्यच्च भवत्स्वकाले तद्वर्तमानस्य विहाय तत्त्वम् ।
हास्या न किं स्याद्गतभाविचर्चा विनैकसङ्ख्यां गणनेव लोके ॥१७॥

क्व भाति दिक्कालकथा विनास्मान् दिक्काललीलेह वपुर्वयं चेत् ।
न क्वापि भामो न कदापि भामो वयं तु सर्वत्र सदा च भामः ॥१८॥

देहात्मभावे ज्ञजडौ समानावेकस्य देहे हृदि दीप्त आत्मा ।
आक्रम्य देहं च जगच्च पूर्णः परस्य मेयं तनुमात्रमात्मा ॥१९॥

अज्ञस्य विज्ञस्य च विश्वमस्ति पूर्वस्य दृश्यं जगदेव सत्यम् ।
परस्य दृश्याश्रयभूतमेकं सत्यं प्रपूर्णं प्रविभात्यरूपम् ॥२०॥

विधेः प्रयत्नस्य च कोऽपि वादस्तयोर्द्वयोर्मूलमजानतां स्यात् ।
विधेः प्रयत्नस्य च मूलवस्तु सञ्जानतां नैव विधिर्न यत्नः ॥२१॥

यदीशितुर्वीक्षणमीक्षितारमवीक्ष्य तन्मानसिकेक्षणं स्यात् ।
न द्रष्टुरन्यः परमो हि तस्य वीक्षा स्वमूले प्रविलीय निष्ठा ॥२२॥

आत्मानमीक्षेत परं प्रपश्येदित्यागमोक्तेः सुलभो न भावः ।
नात्मैव दृश्यो यदि का कथेशे स्वयं तदन्नीभवनं तदीक्षा ॥२३॥

धिये प्रकाशं परमो वितीर्य स्वयं धियोऽन्तः प्रविभाति गुप्तः ।
धियं परावर्त्य धियोऽन्तरेऽत्र संयोजनान्नेश्वरदृष्टिरन्या ॥२४॥

न वक्ति देहोऽहमिति प्रसुप्तौ न कोऽपि नाभूवमिति प्रवक्ति ।
यत्रोदिते सर्वमुदेति तस्य धियाहमः शोधय जन्मदेशम् ॥२५॥

देहो न जानाति सतो न जन्म देहप्रमाणोऽन्य उदेति मध्ये ।
अहङ्कृतिग्रन्थिविबन्धसूक्ष्मशरीरचेतोभवजीवनामा ॥२६॥

रूपोद्भवो रूपततिप्रतिष्ठो रूपाशनो धूतगृहीतरूपः ।
स्वयं विरूपः स्वविचारकाले धावत्यहङ्कारपिशाच एषः ॥२७॥

भावेऽहमः सर्वमिदं विभाति लयेऽहमो नैव विभाति किञ्चित् ।
तस्मादहंरूपमिदं समस्तं तन्मार्गणं सर्वजयाय मार्गः ॥२८॥

सत्या स्थितिर्नाहमुदेति यत्र तच्चोदयस्थानगवेषणेन ।
विना न नश्येद्यदि तन्न नश्येत् स्वात्मैक्यरूपा कथमस्तु निष्ठा ॥२९॥

कूपे यथा गाढजले तथान्तर्निमज्ज्य बुद्ध्या शितया नितान्तम् ।
प्राणं च वाचं च नियम्य चिन्वन् विन्देन्निजाहङ्कृतिमूलरूपम् ॥३०॥

मौनेन मज्जन्मनसा स्वमूलचर्चैव सत्यात्मविचारणं स्यात् ।
एषोऽहमेतन्न मम स्वरूपमिति प्रमा सत्यविचारणाङ्गम् ॥३१॥

गवेषणात्प्राप्य हृदन्तरं तत् पतेदहन्ता परिभुग्नशीर्षा ।
अथाहमन्यत्स्फुरति प्रकृष्टं नाहङ्कृतिस्तत्परमेव पूर्णम् ॥३२॥

अहङ्कृतिं यो लसति ग्रसित्वा किं तस्य कार्यं परिशिष्टमस्ति ।
किञ्चिद्विजानाति स नात्मनोऽन्यत् तस्य स्थितिं भावयितुं क्षमः कः ॥३३॥

आह स्फुटं तत्त्वमसीति वेदस्तथाप्यसम्प्राप्य परात्मनिष्ठाम् ।
भूयो विचारो मतिदुर्बलत्वं तत्सर्वदा स्वात्मतया हि भाति ॥३४॥

न वेद्म्यहं मामुत वेद्म्यहं मामिति प्रवादो मनुजस्य हास्यः ।
दृग्दृश्यभेदात् किमयं द्विधात्मा स्वात्मैकतायां हि धियां न भेदाः ॥३५॥

हृत्प्राप्य सद्धाम निजस्वरूपे स्वभावसिद्धेऽनुपलभ्य निष्ठाम् ।
मायाविलासः सदसत्सरूपविरूपनानैकमुखप्रवादाः ॥३६॥

सिद्धस्य वित्तिः सत एव सिद्धिः स्वप्नोपमानाः खलु सिद्धयोऽन्याः ।
स्वप्नः प्रबुद्धस्य कथं नु सत्यः सति स्थितः किं पुनरेति मायाम् ॥३७॥

सोऽहंविचारो वपुरात्मभावे साहाय्यकारी परमार्गणस्य ।
स्वात्मैक्यसिद्धौ स पुनर्निरर्थो यथा नरत्वप्रमितिर्नरस्य ॥३८॥

द्वैतं विचारे परमार्थबोधे त्वद्वैतमित्येष न साधुवादः ।
गवेषणात्प्राग्दशमे विनष्टे पश्चाच्च लब्धे दशमत्वमेकम् ॥३९॥

करोमि कर्मेति नरो विजानन् बाध्यो भवेत्कर्मफलं च भोक्तुम् ।
विचारधूता हृदि कर्तृता चेत् कर्मत्रयं नश्यति सैव मुक्तिः ॥४०॥

बद्धत्वभावे सति मोक्षचिन्ता बन्धस्तु कस्येति विचारणेन ।
सिद्धे स्वयं स्वात्मनि नित्यमुक्ते क्व बन्धचिन्ता क्व च मोक्षचिन्ता ॥४१॥

रूपिण्यरूपिण्युभयात्मिका च मुक्तिस्त्रिरूपेति विदो वदन्ति ।
इदं त्रयं या विविनक्त्यहन्धीस्तस्याः प्रणाशः परमार्थमुक्तिः ॥४२॥

सद्दर्शनं द्राविडवाङ्निबद्धं महर्षिणा श्रीरमणेन शुद्धम् ।
प्रबन्धमुत्कृष्टममर्त्यवाण्यामनूद्य वासिष्ठमुनिर्व्यतानीत् ॥४३॥

सत्तत्त्वसारं सरलं दधाना मुमुक्षुलोकाय मुदं ददाना ।
अमानुषश्रीरमणीयवाणीमयूखभित्तिर्मुनिवाग् विभाति ॥४४॥