सामग्रीं त्यजन्तु

अद्वैतमकरन्दः

कटाक्षकिरणाचान्तनमन्मोहाब्धये नमः ।
अनन्तानन्दकृष्णाय जगन्मङ्गलमूर्तये ॥१॥

अहमस्मि सदा भामि कदाचिन्नाहमप्रियः ।
ब्रह्मैवाऽहमतः सिद्धं सच्चिदानन्दलक्षणम् ॥२॥

मय्येवोदेति चिद्व्योम्नि जगद्गन्धर्वपत्तनम् ।
अतोऽहं न कथं ब्रह्म सर्वज्ञं सर्वकारणम् ॥३॥

न स्वतः प्रत्यभिज्ञानान्निरंशत्वान्नचान्यतः ।
न चाश्रयविनाशान्मे विनाशः स्यादनाश्रयात् ॥४॥

न शोषप्लोषविक्लेदच्छेदाश्चिन्नभसो मम ।
सत्यैरप्यनिलाग्न्यम्भःशस्त्रैः किमुत कल्पितैः ॥५॥

अभारूपस्य विश्वस्य भानं भासन्निधेर्विना ।
कदाचिन्नावकल्पेत भा चाहं तेन सर्वगः ॥६॥

नहि भानादृते सत्त्वं नर्ते भानं चितोऽचितः ।
चित्सम्बन्धोऽपि नाध्यासादृते तेनाहमद्वयः ॥७॥

न देहो नेन्द्रियं चाहं न प्राणो न मनो न धीः ।
ममतापरिरब्धत्वादाक्रीडत्वादिदंधियः ॥८॥

साक्षी सर्वान्वितः प्रेयानहं नाहं कदाचन ।
परिणामपरिच्छेदपरितापैरुपप्लवात् ॥९॥

सुप्तेऽहमि न दृश्यन्ते दुःखदोषप्रवृत्तयः ।
अतस्तस्यैव संसारो न मे संसर्तृसाक्षिणः ॥१०॥

सुप्तः सुप्तिं न जानाति नासुप्ते स्वप्नजागरौ ।
जाग्रत्स्वप्नसुषुप्तीनां साक्ष्यतोऽहमतद्दशः ॥११॥

विज्ञानविरतिः सुप्तिस्तज्जन्म स्वप्नजागरौ ।
तत्साक्षिणः कथं मे स्युर्नित्यज्ञानस्य ते त्रयः ॥१२॥

षड्विकारवतां वेत्ता निर्विकारोऽहमन्यथा ।
तद्विकारानुसन्धानं सर्वथा नावकल्पते ॥१३॥

तेन तेन हि रूपेण जायते लीयते मुहुः ।
विकारि वस्तुनस्तेषामनुसंधातृता कुतः ॥१४॥

न च स्वजन्म नाशं वा द्रष्टुमर्हति कश्चन ।
तौ हि प्रागुत्तराभावचरमप्रथमक्षणौ ॥१५॥

न प्रकाशेऽहमित्युक्तिर्यत्प्रकाशनिबन्धना ।
स्वप्रकाशं तमात्मानमप्रकाशः कथं स्पृशेत् ॥१६॥

तथाप्याभाति कोऽप्येष विचाराभावजीवनः ।
अवश्यायश्चिदाकाशे विचारार्कोदयावधिः ॥१७॥

आत्माज्ञानमहानिद्राजृंभितेऽस्मिञ्जगन्मये ।
दीर्घस्वप्ने स्फुरन्त्येते स्वर्गमोक्षादिविभ्रमाः ॥१८॥

जडाजडविभागोऽयमजडे मयि कल्पितः ।
भित्तिभागे समे चित्रे चराचरविभागवत् ॥१९॥

चेत्योपरागरूपा मे साक्षितापि न तात्त्विकी ।
उपलक्षणमेवेयं निस्तरङ्गचिदम्बुधेः ॥२०॥

अमृताब्धेर्न मे जीर्णिर्मृषाडिण्डीरजन्मभिः ।
स्फटिकाद्रेर्न मे रागः स्वाप्नसंध्याभ्रविभ्रमैः ॥२१॥

स्वरूपमेव मे सत्त्वं न तु धर्मो नभस्त्ववत् ।
मदन्यस्य सतोऽभावान्न हि सा जातिरिष्यते ॥२२॥

स्वरूपमेव मे ज्ञानं न गुणः स गुणो यदि ।
अनात्मत्वमसत्त्वं वा ज्ञेयाज्ञेयत्वयोः पतेत् ॥२३॥

अहमेव सुखं नान्यदन्यच्चेन्नैव तत्सुखम् ।
अमदर्थं न हि प्रेयो मदर्थं न स्वतः प्रियम् ॥२४॥

न हि नानास्वरूपं स्यादेकं वस्तु कदाचन ।
तस्मादखण्ड एवास्मि विजहज्जागतीं भिदाम् ॥२५॥

परोक्षतापरिच्छेदशाबल्यापोहनिर्मलम् ।
तदसीति गिरा लक्ष्यमहमेकरसं महः ॥२६॥

उपशान्तजगज्जीवशिष्याचार्येश्वरभ्रमम् ।
स्वतः सिद्धमनाद्यन्तं परिपूर्णमहं महः ॥२७॥

लक्ष्मीधरकवेः सूक्तिशरदम्भोजसंभृतः ।
अद्वैतमकरन्दोऽयं विद्वद्भृङ्गैर्निपीयताम् ॥२८॥