सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः¶
अखण्डानन्दसम्बोधो वन्दनाद्यस्य जायते ।
गोविन्दं तमहं वन्दे चिदानन्दतनुं गुरुम् ॥१॥
अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।
आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥२॥
यदालम्बो दरं हन्ति सतां प्रत्यूहसम्भवम् ।
तदालम्बे दयालम्बं लम्बोदरपदाम्बुजम् ॥३॥
अर्थतोऽप्यद्वयानन्दमतीतद्वैतलक्षणम् ।
आत्माराममहं वन्दे श्रीगुरुं शिवविग्रहम् ॥
वेदान्तशास्त्रसिद्धान्तसारसङ्ग्रह उच्यते ।
प्रेक्षावतां मुमुक्षूणां सुखबोधोपपत्तये ॥४॥