विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १४० – आत्मख्यातिः
मुखपृष्ठम् · ⬆ चतुर्थस्तरङ्गः · ← · →
आवर्तः १४० – आत्मख्यातिः¶
विज्ञानवादिनोऽभिप्रायस्तु रज्जौ वान्यत्र वा बुद्धेर्बहिः कुत्रचिदपि न सर्पोऽस्ति। एवं सकलपदार्था अपि न बुद्धेर्बहिर्वर्तन्ते। बुद्धिरेव सकलपदार्थानामाकारान् धत्ते। सा च बुद्धिः क्षणिकविज्ञानरूपा। प्रतिक्षणमुत्पत्तिविनाशशालि यद्विज्ञानं तदेव सर्पात्मना अवभासते। इयमात्मख्यातिरिति वर्ण्यते। आत्मा = क्षणिकविज्ञानरूपा बुद्धिः, तस्याः ख्यातिः = स्फुरणमभिवदनञ्चात्मख्यातिरिति।