सामग्रीं त्यजन्तु

विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १३८ – ख्यातिचतुष्टयम्

आवर्तः १३८ – ख्यातिचतुष्टयम्

रज्जुसर्पशुक्तिरजतादिभ्रमविषये मतचतुष्टयं श्रूयते। तत्र (१) शून्यवादी असत्ख्यातिमाह। (२) क्षणिकविज्ञानवादी आत्मख्यातिमाचष्टे। (३) नैयायिका वैशेषिकाश्चान्यथाख्यातिमातिष्ठन्ते। (४) साङ्ख्याः प्राभाकराश्चाख्यातिं वदन्ति।