विचारसागरः — द्वितीयस्तरङ्गः — आवर्तः ७४ – कर्मविवरणम्
मुखपृष्ठम् · ⬆ द्वितीयस्तरङ्गः · ← · →
आवर्तः ७४ – कर्मविवरणम्¶
कर्म हि विहितं प्रतिषिद्धं चेति द्विविधम्।
तत्र पुरुषप्रवृत्तिमधिकृत्य यद्वेदेन विधीयते तद् विहितम्।
वेदेनैव यत्प्रतिषिध्यते तत् प्रतिषिद्धम्।
स्वभावसिद्धरागद्वेषादिवशादनुष्ठीयमानास्तु चेष्टारूपाः क्रिया न कर्माणीत्युच्यन्ते।
प्रवृत्तिनिवृत्त्यर्थं वेदोक्ता एव क्रियाः
कर्माणीत्युच्यन्ते, न तूदासीनक्रियाः१ सर्वा अपि।
तस्माद् द्विप्रकाराण्येव
कर्माणि।
न ततोऽधिकानि।
ग्रन्थकारटिप्पणी
१. वेदेनानिषिद्धमविहितं च सदरागद्वेषतः कृतं गमनागमनशौचादि स्वाभाविकं सर्वप्राणिसाधारणं कर्म उदासीनं इति कथ्यते।