सामग्रीं त्यजन्तु

विचारसागरः — द्वितीयस्तरङ्गः — आवर्तः ७३ – कर्मणोऽवश्यकर्तव्यत्वम्

आवर्तः ७३ – कर्मणोऽवश्यकर्तव्यत्वम्

पूर्वं ज्ञानमात्रान्न सत्यबन्धनिवृत्तिरित्युक्तम्। अधुना त्वैकभविकवादरीत्या कर्मणैव मोक्षसिद्धिरित्यभिप्रायः प्रपञ्च्यते। सत्यबन्धो न ज्ञानमात्रान्निवर्तेतेति पूर्वं साधितत्वान्मुमुक्षुणा नित्यं नैमित्तिकं च कर्मैव यावज्जीवं कर्तव्यम्।