विचारसागरः — द्वितीयस्तरङ्गः — आवर्तः ७५ – विहितकर्मविवरणम्
मुखपृष्ठम् · ⬆ द्वितीयस्तरङ्गः · ← · →
आवर्तः ७५ – विहितकर्मविवरणम्¶
विहितं कर्म चतुर्विधम्।
(1) नित्यं (2) नैमित्तिकं (3) काम्यं (4) प्रायश्चित्तं चेति।
तत्र पापपरिहारार्थं विहितं
कर्म प्रायश्चित्तं इत्युच्यते।
यथा प्रमादात्कश्चन२ संन्यासी द्रव्यार्जनेन पापं करोति
यदि, स तत्पापक्षयार्थमर्जितं धनं सर्वं दूरतस्त्यक्त्वा त्रिरात्रं यदुपवसति, तत्तस्य
पापस्य प्रायश्चित्तं भवति।
फलार्थं विहितं कर्म काम्यम्।
यथा वृष्टिकामेन क्रियमाणकारीर्यादियागः, स्वर्गाद्यर्थिना क्रियमाणाग्निहोत्रज्योतिष्टोमादिकं च काम्यं कर्म।
यस्याननुष्ठानात्प्रत्यवायः श्रूयते, अनुष्ठानाच्च पुण्यापुण्यफलाभावः, यच्च न
नित्यमेव विहितं, किन्तु यत्किञ्चिन्निमित्तमधिकृत्यैव विधीयते तत्कर्म
नैमित्तिकम्।
यथा सूर्योपरागादिनिमित्ते क्रियमाणश्राद्धस्नानादिकं, वयोवृद्धजातिवृद्धाश्रमवृद्धविद्यावृद्धधर्मवृद्धज्ञानवृद्धादीनामागमने ऽवश्यकर्तव्यप्रत्युत्थानादिकं च कर्म नैमित्तिकम्।
अत्र विद्याशब्देन शास्त्रजन्यपरोक्षज्ञानं
ज्ञानशब्देनापरोक्षज्ञानञ्च ग्राह्यम्।
पूर्वोक्तेषु यथाक्रममुत्तरोत्तरो वरिष्ठः।
यस्याननुष्ठानात्प्रत्यवायो भवति, अनुष्ठानाच्च न सुकृतं भवति, यच्च नित्यतया
विहितं, तत् नित्यं कर्म।
यथा स्नानसन्ध्याग्निहोत्रादिकम्।
इत्थं
चतुर्विधानि विहितकर्माणि।
निषिद्धेन सह पञ्चविधानि कर्माणि भवन्ति।
ग्रन्थकारटिप्पणी
२. अवश्यानुष्ठेयकर्मणो विस्मरणं, सत्यामपीच्छायामननुष्ठानं वा प्रमादः।