सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः ३८ – तत्समाधिः – भावरूपैवेति न भावाभावयोः सामानाधिकरण्यदोषः

आवर्तः ३८ – तत्समाधिः – भावरूपैवेति न भावाभावयोः सामानाधिकरण्यदोषः

तत्समाधिः– नैष दोषः। सविलासाविद्यानिवृत्तेरधिष्ठानब्रह्मचैतन्यमात्रत्वान्न ततोऽतिरिच्यते सा। यथा आरोपितसर्पनिवृत्तिरधिष्ठानरज्जुमात्रं२, एवं कल्पितनामरूपात्मकसकलवस्तुनिवृत्तिरपि तदधिष्ठानचिन्मात्रमेव, न ततोऽतिरिक्तेति सिद्धम्। आरोपितप्रतियोगिकप्रध्वंसस्य प्रतियोग्यधिष्ठाने भासमानस्याधिष्ठानमात्रत्वनियमात्। तदुक्तं वार्तिके "अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः" इति।

अयमेव भगवत्पादादीनामाशयः आकरादिषु स्फुटतरः। अत एव प्रकृतेऽप्यनर्थनिवृत्तिर्ब्रह्ममात्रमित्युक्तदोषानवकाशः। सर्वानर्थदृश्यकल्पनाधिष्ठानत्वाद्ब्रह्मणः। तच्च ब्रह्म सिद्धवस्तुस्वरूपत्वाद्भावरूपम्। तस्मादनर्थनिवृत्तेर्भावरूपत्वादेव तस्या अस्मिन् ग्रन्थे प्रयोजनत्वकथनं युक्तमेवेति॥

ग्रन्थकारटिप्पणी

२. रज्ज्वां प्रतीयमानसर्पस्य रज्जुरधिष्ठानत्वेन कथ्यते। मन्दान्धकारे प्रतिभासमानसर्पभ्रमाधिष्ठानस्य प्रकाशसंबन्धे सति 'रज्जुरेवेयम्' इति निश्चये जाते तत्क्षणादेव सर्पो निवर्तते। तस्मात् सर्पनिवृत्तितदधिष्ठानरज्जुसाक्षात्कारयोश्चैकक्षणावच्छेदेन जायमानत्वात् सर्पनिवृत्तिरधिष्ठानरज्जुमात्रं भवति।