विचारसागरः — प्रथमस्तरङ्गः — आवर्तः ३७ – द्वितीयाक्षेपः
मुखपृष्ठम् · ⬆ प्रथमस्तरङ्गः · ← · →
आवर्तः ३७ – द्वितीयाक्षेपः¶
ननु सविलासाज्ञाननिवृत्तिः परमानन्दावाप्तिश्च ग्रन्थस्य प्रयोजनमित्युक्तं न सङ्गच्छते। यतो निवृत्तिर्नाम निःशेषनाश एव; नाशस्तु प्रध्वंसाभाव एव। अतोऽनर्थनिवृत्तिरूपाभावस्य परमानन्दप्राप्तिरूपभावस्य चैकत्र मुक्तिस्वरूपे सामानाधिकरण्यं न घटेत, भावाभावयोरन्योन्यविरोधात्, विरुद्धयोर्धर्मयोरेकत्र युगपत् समावेशायोगाच्च। तस्मादुक्तप्रयोजनं ग्रन्थस्य न संभवतीति चेत् –