विचारसागरः — प्रथमस्तरङ्गः — आवर्तः ३६ – नित्यनिवृत्तनिवृत्तिरूपप्रयोजनमपि युक्तमेव
मुखपृष्ठम् · ⬆ प्रथमस्तरङ्गः · ← · →
आवर्तः ३६ – नित्यनिवृत्तनिवृत्तिरूपप्रयोजनमपि युक्तमेव¶
प्राप्तप्राप्तिरूपप्रयोजनं निरूप्येदानीं नित्यनिवृत्तनिवृत्तिरूपप्रयोजनमपि१ युक्तमेवोक्तमित्युच्यते।
रज्जौ सर्पस्य नित्यनिवृत्तस्यापि कदाचिद् भ्रमादवभासे सति, 'रज्जुरेवेयम्' इत्यधिष्ठानसाक्षात्कारमात्रेण
स निवर्तते यथा, तथा स्वात्मनि भ्रमात् प्रतीयमानोऽपि संसारः, नित्यनिवृत्त एव स्वस्वरूपापरोक्षसाक्षात्कारेण निःशेषं निवर्तते।
तस्मान्नित्यनिवृत्तस्यापि निवृत्तिः, नित्यप्राप्तस्यापि२ प्राप्तिश्च वेदान्तग्रन्थस्य परमप्रयोजनं सुतरामुपपन्नमेव।
ग्रन्थकारटिप्पणी
-
व्यावहारिकदशायां प्रातिभासिकदशायाञ्चावभासमानस्यापि प्रपञ्चस्य "नेति नेति" (बृ० २।३।६), "अतोऽन्यदार्तम्" (बृ० ३।७।२३), "न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तम्" (बृ० ४।३।२३), "नेह नानास्ति किञ्चन" (बृ० ४।४।१९) इत्यादिश्रुतिभिः युक्तिभिः स्वानुभवैश्च परमार्थतोऽविद्यमानत्वमेव। कालत्रयनिषेध एव नित्यनिवृत्तिः इत्युच्यते। पूर्वोक्तप्रमाणैः कालत्रयेऽपि प्रपञ्चो नास्त्येवेति प्रपञ्चयाथात्म्यनिश्चय एव नित्यनिवृत्तस्य तस्य निवृत्तिर्ज्ञेया।
-
"तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजाः अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः" (छा० ८।३।२) इत्यादिश्रुत्युक्तरीत्या गृहेऽन्तर्निहितो हिरण्यनिक्षेपो विद्यमानोऽपि यावदविद्यमविद्यमानवदविद्ययाऽप्राप्तवद्भवति। अञ्जनाद्युपायैर्ज्ञातश्चेत् प्राप्तवद्भवति। इयमेव नित्यप्राप्तस्य प्राप्तिरित्युच्यते। यथाऽयं दृष्टान्तः, एवमेव "अयमात्मा ब्रह्म" (बृ० २।५।१९), "प्रज्ञानं ब्रह्म" (ऐ० ३।१), "सर्वं खल्विदं ब्रह्म" (छा० ३।१४।१), "आत्मैवेदं सर्वम्" (छा० ७।२५।२), "ब्रह्मैवेदं सर्वम्" (बृ० २।५।१) इत्यादिश्रुतिभिः सर्वस्य ब्रह्मत्वोपदेशेन परमानन्दस्वरूपस्य स्वस्य ब्रह्मत्वात् नित्यप्राप्तत्वेऽप्यविद्ययाऽप्राप्तत्वभ्रमः। 'अखण्डपरमानन्दचिद्रूपब्रह्मैवाहम्' इति श्रुतियुक्त्यनुभवैर्जायमानस्वस्वरूपसाक्षात्कार एव नित्यप्राप्तस्य प्राप्तिरिति।