सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः ३५ – तत्समाधिः – प्राप्तप्राप्तिरप्युपपद्यत एव

आवर्तः ३५ – तत्समाधिः – प्राप्तप्राप्तिरप्युपपद्यत एव

एतादृशपूर्वपक्ष्याक्षेपश्रवणमात्रेणाद्वैतग्रन्थोक्तप्रयोजने ऽनादरो न कार्यः। वेदान्तज्ञानोपदेष्टृसद्गुरुकृपालेशपात्रीभूतानामीदृशाशेषसन्देहतूलनिरासस्य दृष्टान्तप्रचण्डवातबलेन सुकरत्वात्।

तथा हि, कश्चन पुरुषः भ्रान्त्या स्वकरस्थकङ्कणं नष्टं मत्वा, अन्वेषमाण इतस्ततो भ्रमन्, अन्येन केनचिदाप्तेन प्रबोधितः सन्, प्राप्तमेव करस्थं कङ्कणमपूर्वतया प्राप्तमिति मन्यमानः 'मम कङ्कणमिदानीमुपलब्धम्' इति यथा वदति; तथैव परमानन्दस्वरूपे स्वात्मनि नित्यापरोक्षतया सदाप्राप्तोऽप्यविद्यावशादप्राप्तत्वभ्रान्त्या 'नाहं परमानन्दस्वरूपः, किन्तु ब्रह्मैव तथा; ततो विलक्षणस्य मम तदुपासनया तादृशब्रह्मप्राप्तिः संपाद्या' इति मूढो भ्रान्त्या प्रतिपद्यते। एवंवित् पण्डितोऽपि मूढतम एव।

"अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः" (बृ० १।४।१०),
"तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" (के० १।४।८),
"योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चौरेणात्मापहारिणा"

इत्यादिश्रुतिस्मृतिशतेभ्यो जीवब्रह्मभेदवादिनां मूर्खत्वाङ्गीकारात्। इत्थंभूतानामपि मूर्खाणामनन्तजन्मार्जितपुण्यपुञ्जवशात् संस्कृतचित्तानां, प्रशान्तचित्तात् ब्रह्मविद्वरिष्ठात् सद्गुरोर्यदि कदाचिद् वेदान्तश्रवणं लभ्येत, तदा "परमानन्दो वेदान्तवाक्यैः सद्गुरुकृपाकटाक्षलेशेन चास्माभिः प्राप्त" इति मतिर्जायेत।

अयं भावः – आत्मनः परमानन्दस्वरूपत्वेऽपि स्वप्रकाशापरोक्षस्वरूपत्वेऽपि स्वाविद्यावृतत्वादप्राप्तवत्तेषां स्वस्वरूपं पूर्वमभात्। यदा तु श्रीमदाचार्यमुखाद्वेदान्तश्रवणेन स्वस्वरूपभूत एव परमानन्दो बुद्धाववभासते, तदैव स अपूर्वतया प्राप्तवद्व्यवह्रियते। एवमेव प्राप्तस्यापि पुनः प्राप्तिकथनमुपपद्यते। तस्मात् परमानन्दप्राप्तिरेवास्य ग्रन्थस्य परमप्रयोजनमिति युक्तमेवोक्तम्।