विचारसागरः — प्रथमस्तरङ्गः — आवर्तः ३४ – प्रथमाक्षेपः – परमानन्दावाप्तिः मोक्षः इति न सङ्गच्छते
मुखपृष्ठम् · ⬆ प्रथमस्तरङ्गः · ← · →
आवर्तः ३४ – प्रथमाक्षेपः – परमानन्दावाप्तिः मोक्षः इति न सङ्गच्छते¶
यदुक्तमनर्थनिवृत्तिः परमानन्दावाप्तिश्च ग्रन्थस्य परमप्रयोजनमिति, तन्न सङ्गच्छते।
यतः सर्वेष्वपि वेदान्तेषु२ जीवस्य परमानन्दरूपत्वं वर्णितम्।
भवद्भिरपि तथैवाङ्गीकृतम्।
लोके त्वप्राप्तस्यैव प्राप्तिर्युज्यते।
न तु सदाप्राप्तस्यैव प्राप्तिः कदाचिदपि सङ्गच्छते।
तस्मात् सदा परमानन्दस्वरूपस्यैव सत आत्मनः पुनः परमानन्दप्राप्तिकथनं सर्वथाप्यसंभावितमेवेति।
ग्रन्थकारटिप्पणी
२. "विज्ञानमानन्दं ब्रह्म" (बृ०उ० ३।९।२७) इत्याद्यनन्तश्रुतयः। अस्यार्थस्तु – विज्ञानं जीवचैतन्यं, आनन्दं ब्रह्मैव, न ततोऽतिरिच्यते इति।