सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः ३३ – प्रयोजनलक्षणम्

आवर्तः ३३ – प्रयोजनलक्षणम्

सर्वप्रपञ्चकारणीभूताज्ञानं तत्कार्यदृश्यजातं सर्वं द्वैतं च जननमरणप्रबन्धरूपाखिलदुःखनिदानत्वात् महानर्थ इति श्रुतिस्मृतिपुराणेतिहासानुभवादिसकलप्रमाणसिद्धम्। ईदृशानर्थनिवृत्तिः परमानन्दावाप्तिश्च मोक्ष इत्युच्यते। अयमेव मोक्षोऽस्य ग्रन्थस्य परमप्रयोजनम्। ज्ञानं तु अवान्तरप्रयोजनम्।

पुरुषस्य यद्विषये उत्कटेच्छा जायते तदेव तस्य परमं प्रयोजनं पुरुषार्थ इति चोच्यते। सकलजनानां च दुःखनिवृत्तौ सुखावाप्तौ चेदृशीच्छा संजायते। पूर्वोक्तानर्थद्वैताभावोपलक्षितपरमानन्दचिदेव मोक्षस्वरूपम्। अत एव मोक्षः परमप्रयोजनं, न ज्ञानम्। दुःखनिवृत्तावानन्दावाप्तौ च ज्ञानस्य हेतुत्वात् तस्य दुःखनिवृत्त्यानन्दरूपत्वाभावाच्च ज्ञानं अवान्तरप्रयोजनम्। परमप्रयोजनावाप्तौ यत् द्वारीभवति तद् अवान्तरप्रयोजनम्। यथा कदलीफलप्राप्तौ तत्पत्रपुष्पादि। एतादृशवेदान्तग्रन्थजनितज्ञानद्वारा मुक्तिरूपपरमप्रयोजनफलप्राप्तौ ज्ञानमवान्तरप्रयोजनं भवति।