विचारसागरः — प्रथमस्तरङ्गः — आवर्तः ३२ – विषयनिरूपणम् – जीवब्रह्मैक्यम्
मुखपृष्ठम् · ⬆ प्रथमस्तरङ्गः · ← · →
आवर्तः ३२ – विषयनिरूपणम् – जीवब्रह्मैक्यम्¶
अयं च ग्रन्थः जीवब्रह्मैक्यं१ प्रतिपादयति।
अतः प्रत्यक्परचितोरैक्यमेवास्य ग्रन्थस्य विषयः।
सर्वे वेदास्तमेवार्थं प्रतिपादयन्ति।
इतोऽन्यथा द्वैतवादिनो वेदविरुद्धार्थवादित्वाद्वेदबाह्याः शठाः = गूढविप्रियकारिणः = 'प्रत्यक्षे स्तुतिकर्तारः परोक्षे चातिदूषकाः'॥
ग्रन्थकारटिप्पणी
१. जीवशब्देन जीवशब्दलक्ष्यार्थः कूटस्थो बोध्यः।